भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.70

6.70.1

वसिष्ठमुनिसंयुक्ता विश्वामित्रादिसंयुता ।
स्थितखेचरसिद्धौघा विश्रान्तनृपनायका ॥

6.70.2

सरामलक्ष्मणा सैव तथैवाथ सभा बभौ ।
सोम्या समसमाभोगा शान्तवात्येव पद्मिनी ॥

6.70.3

अनपेक्ष्यैव च प्रश्नम् उवाचाथ मुनीश्वरः ।
बोधयन्ति बलाद् एव सानुकम्पा हि साधवः ॥

6.70.4

राजन् रघुकुलाकाशशशाङ्क रघुनन्दन ।
ह्यो मया ध्याननेत्रेण स भिक्षुः प्रेक्षितश् चिरम् ॥

6.70.5

ध्यानेनाहं चिरं भ्रान्तस् तादृग्भिक्षुदिदृक्षया ।
द्वीपानि सप्त विपुलांस् तथैव कुलपर्वतान् ॥

6.70.6

यावत् कुतश्चिद् अप्य् एव भिक्षुर् लब्धो न तादृशः ।
कथं किल मनोराज्यं बहिर् अप्य् उपलभ्यते ॥

6.70.7

ततस् त्रिभागशेषायां रात्रौ पुनर् अहं धिया ।
उत्तराशान्तरं यातो वेलावात इवार्णवम् ॥

6.70.8

चीननामाथ तत्रास्ति श्रीमाञ् जनपदो महान् ।
वल्मीकोपरि तत्रास्ति विहारो जिनसंश्रयः ॥

6.70.9

तस्मिन् विहारे स्वकुटीकोशे कपिलमूर्धजः ।
भिक्षुर् दीर्घशया नाम स्थित एवंपरोदयः ॥

6.70.10

एकविंशतिरात्रं च तस्यैवंस्थितिशालिनः ।
दृढार्गडं गृहं ध्यानभङ्गभीता विशन्ति नो ॥

6.70.11

भृत्याः प्रायः किल तथा स तिष्ठति सुभिक्षुकः ।
अद्यैवं तस्य सम्पन्नं नियतेर् ईदृशी स्थितिः ॥

6.70.12

रात्रयो ध्याननिष्ठस्य गतास् तस्यैकविंशतिः ।
स तु वर्षसहस्राणि तथा चित्ते ऽनुभूतवान् ॥

6.70.13

कस्मिंश्चित् प्राक्तने कल्पे भिक्षुर् एवं पुराभवत् ।
अद्य त्व् इह द्वितीयो ऽस्ति तृतीयो नोपलभ्यते ॥

6.70.14

मया तु पुनर् अन्विष्टश् चेतसा चतुरात्मना ।
तादृग् भिक्षुस् तृतीयो ऽन्यो जगत्पद्मोदरालिना ॥

6.70.15

अस्मात् सर्गात् तु नो लब्धस् तृतीयस् तादृगाशयः ।
अथान्ये लीलया सर्गा मया सम्प्रेक्षितास् ततः ॥

6.70.16

यावत् कस्मिंश्चिद् आकाशकोशशायिनि सर्गके ।
तृतीयो विद्यते भिक्षुर् ब्राह्मणश् चेदृशक्रमः ॥

6.70.17

एवं तेनैव तेनैव सन्निवेशेन भूरिशः ।
भविष्यन्त्य् अभवन् सन्ति पदार्थास् सर्गसन्ततौ ॥

6.70.18

अस्यां सभायाम् अपि ये मुनयो ब्राह्मणा नृपाः ।
भाव्यम् एवंसमाचारैस् तैर् अन्यैर् अप्य् अनेकशः ॥

6.70.19

नारदेनामुना भाव्यं पुनर् अन्येन चानघ ।
एवम् एवात्रिणा भाव्यं पुनर् अन्येन चाधुना ॥

6.70.20

एवं कलत्रकर्मभ्यां युक्तेनानेन भूरिशः ।
एवंजन्मादिना भाव्यं व्यासेन च शुकेन च ॥

6.70.21

जनकेन पुनर् भाव्यं क्रतुना पुलहेन च ।
अगस्त्येन पुलस्त्येन भृगुणाङ्गिरसापि च ॥

6.70.22

एत एव तथान्ये च एवंरूपक्रियास्पदम् ।
चिराच् चिराद् भविष्यन्ति मायेयं वितता यतः ॥

6.70.23

सदृशाचारजन्मानस् त एवान्ये च भूरिशः ।
भूयो भूयो विवर्तन्ते सर्गेष्व् अप्स्व् इव वीचयः ॥

6.70.24

अत्यन्तसदृशाः केचित् केचिद् अर्धसमक्रमाः ।
केचिद् ईषत्समाः केचिन् न कदाचित् पुनस् तथा ॥

6.70.25

एवम् एषातिवितता माया मनसि मोहिनी ।
क्षणो नेहास्ति नो कल्पः प्रतिपत्तिर् हि जृम्भते ॥

6.70.26

क्वैकविंशत्यहोरात्रा अनन्ताः क्व कुयोनयः ।
क्व तासाम् उपलम्भो ऽलम् अहो भीमा मनोगतिः ॥

6.70.27

प्रतिभामात्रम् एवेदम् इत्थं विकसितं सितम् ।
नानाकलहकल्लोलचलं प्रातर् इवाम्बुजम् ॥

6.70.28

जातं संवेदनाद् एव शुद्धाद् इदम् अशुद्धवत् ।
संसारजालम् अखिलं वह्निर् वह्निकणाद् इव ॥

6.70.29

प्रत्येकम् एवम् उदितः प्रतिभासषण्डष् षण्डान्तरेष्व् अपि च तत्र विचित्रषण्डाः ।
सर्वे स्वयं ननु च ते च मिथो न मिथ्या सर्वात्मनि स्फुरति कारणकारणे ऽस्मिन् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc