मोक्षोपाय · अध्याय 6.67
स कदाचिद् ददर्शाथ रुद्रं रुद्रपुरे खगः ।
वैरिञ्चनलिनीनाललीलालानेभलीलया ॥
तत्र बुद्धिर् अभूत् तस्य रुद्रो ऽहम् इति निश्चिता ।
प्रतिबिम्बं वरादर्शे झगित्य् एव हि बिम्बति ॥
रुद्रीभूतवपुस् तत्र तनुं तत्याज ताम् असौ ।
गन्धः पवनतां गच्छन् कुसुमस्तबकं यथा ॥
रुद्रो ऽथ रुद्रभवने विजहार यदृच्छया ।
तैस् तैश् शिवपुराचारैर् गणगोष्ठीगरिष्ठया ॥
रुद्रस् त्व् अनुत्तरज्ञानविलासैकतया तया ।
स्वम् अशेषम् उदन्तं तम् अपश्यत् प्राक्तनं धिया ॥
निरावरणविज्ञानवपुस् स भगवान् हरः ।
उवाच स्वयम् एकान्ते स्वस्वप्नशतविस्मितः ॥
अहो नु चित्रा मायेयं बत विश्वविमोहिनी ।
असत्य् एवापि सद्रूपा सुरूढा मरुवारिवत् ॥
इदम्प्रथमम् आक्रान्तचेत्यो ऽहं चित्ततां गतः ।
पूर्वसम्पन्नसर्गस्थगगनादिविभावनात् ॥
यदृच्छास्थितजीवत्वो भूततन्मात्ररञ्जितः ।
कस्मिंश्चिद् अभवं सर्गे भिक्षुर् अक्षुभितो ऽभितः ॥
तेनालयनिबद्धेन बहिस् स्वैरविहारिता ।
लीलाविलुलिताकारा यदा रम्येति भाविता ॥
सर्वभावोपमर्देन तदभ्यासवशात् तदा ।
ताम् एव सो ऽन्वभूद् भिक्षुस् त्यक्त्वान्यं मननोदयम् ॥
चमत्कृतिश् चेतसि या रूढा सैव विजृम्भते ।
वल्ली त्यजति नैदाघी पीतम् अप्य् अम्बु माधवम् ॥
स भिक्षुर् जीवटो भूत्वा जन्तुर् जरढवासनः ।
तेषु देशेषु बभ्राम रन्ध्रेष्व् इव पिपीलकः ॥
आत्मनि द्विजभक्तत्वात् सो ऽपश्यद् द्विजताम् अथ ।
भावो भावविपर्यासे बलवान् एव वर्धते ॥
सामन्तताम् अवापासौ विप्रस् सततचिन्तिताम् ।
सातत्येन रसः पीतः फलताम् एति पादपे ॥
राज्यार्थधर्मकार्याणां कर्तृत्वात् सो ऽभवन् नृपः ।
स कामुकतया राजा सुरस्त्रीत्वम् अवाप ह ॥
लोललोचनलोभेन सा मृगी रसशालिनी ।
बभूव वासनामोहस् त्व् अहो दुःखाय जन्तुषु ॥
मृगी सततचित्तस्था बभूव विपिने लता ।
अवश्यम्भावि लवनं लतिकानुबभूव ह ॥
अन्तस्सञ्ज्ञाचिराभ्यस्तं भ्रमरत्वम् अथात्मनि ।
सापश्यद् भावमर्देन सदातद्भावभाविता ॥
स वारणखुरक्षोदम् अनुभूयाथ भावितम् ।
भूयो भूयः प्रबभ्राम महासंसृतिविभ्रमान् ॥
संसारशतपर्यन्ते रुद्रस् सो ऽयम् अहं स्थितः ।
अस्मिन् संसारसंरम्भे स्वमनोमात्रसम्भृते ॥
एवं संशान्तरूपासु संसारारण्यभूमिषु ।
बह्वीष्व् अहम् अभिभ्रान्तस् त्व् अशून्यास्व् इव भूरिशः ॥
कस्मिंश्चिद् अभवं सर्गे त्व् अहं जीवटनामकः ।
कस्मिंश्चिद् ब्राह्मणश्रेष्ठः कस्मिंश्चिद् वसुधाधिपः ॥
हंसः पद्मवने भूत्वा विन्ध्यकच्छे च वारणः ।
हरिणो हेहयाद्रौ च दशाम् अहम् इमां गतः ॥
अत्र वर्षसहस्राणि चतुर्युगशतानि च ।
समतीतान्य् अनन्तानि दिनर्तुरचितानि च ॥
मम प्रथमम् एव प्राक्स्फुरितस्य परात् पदात् ।
सत्त्वजातितया रूढो भिक्षुत्वे यो ज्ञताक्रमः ॥
भूयो भूयो ऽप्य् अतिक्रम्य गतस्य ब्रह्महंसताम् ।
स एव प्राक्तनो ऽभ्यासः फलितस् सङ्गमोदयात् ॥
दृढाभ्यासो य एवास्य जीवस्योदेत्य् अविघ्नतः ।
योन्यन्तरशतेनापि तम् एवैषो ऽनुधावति ॥
काकतालीययोगेन कदाचित् साधुसङ्गमात् ।
अशुभो वासनाभ्यासो जीवस्य विनिवर्तते ॥
सङ्गत्यादिकम् एवैष केवलं स्वोदयं प्रति ।
प्राक्तनो वासनाभ्यासो हेतुं लघुम् अपेक्षते ॥
यद् यद् अभ्यस्यते ऽजस्रम् अन्यदेहान्तरे ऽपि च ।
जाग्रत्स्वप्नेष्व् असद् अपि तत् सद् इत्य् अनुभूयते ॥
तत् तद् अर्थक्रियाकारि दुःखाय च सुखाय च ।
उदेति भावना तस्माद् भावनाभावनं जयः ॥
भावनैव स्वम् आत्मानं देहो ऽयम् इति पश्यति ।
स्वसत्तामात्रविस्तारं तं गुल्मत्वम् इवाङ्कुरः ॥
भावना प्रेक्ष्यमाणैषा न किञ्चिद् अपि शिष्यते ।
नैव विद्यत एवेति तद्भ्रमेणालम् अस्तु नः ॥
भ्रमस्यासन्मयस्यास्य जातस्याकाशवर्णवत् ।
असंवेदनमात्रैकमार्जनीयस्य वस्तुतः ॥
असन्मयी खरूपैषा वरं सत्तैव लालनी ।
प्रवर्ततां विनोदाय किम् असन् नः करिष्यति ॥
तत् तान् सर्वान् स्वसंसारान् उत्थायालोकयाम्य् अहम् ।
कांश्चिद् आलोकदानेन तेभ्य एकीकरोम्य् अहम् ॥
इति सञ्चिन्त्य रुद्रो ऽसौ तं सर्गं प्रजगाम ह ।
यत्र भिक्षुर् विहारस्थस् सुप्तश् शव इव स्थितः ॥
बोधयित्वाथ तं भिक्षुं चेतसा चेतनेन च ।
योजयाम् आस सस्मार भिक्षुर् अप्य् आत्मनो भ्रमम् ॥
रुद्रम् आत्मानम् आलोक्य जीवटादिमयं तथा ।
बोधाद् अविस्मयार्हो ऽपि स्थित्यर्थं विस्मयं ययौ ॥
अथ रुद्रस् तथा भिक्षुर् द्वाव् एवोत्थाय जग्मतुः ।
क्वापि जीवटसंसारं चिदाकाशैककोणगम् ॥
तत्र तद्भवनं गत्वा तद् द्वीपं तच् च मण्डलम् ।
विषयं तं पुरं तच् च तच् च पानवणिग्गृहम् ॥
सुप्तं ददृशतुर् नष्टसञ्ज्ञं जीवटकं शवम् ।
स्थापयित्वा वपुर्भारं प्रभ्रान्तं भवभूमिषु ॥
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।
एकरूपास् त्रिरूपास् ते रुद्रजीवटभिक्षुकाः ॥
बोधवन्तो ऽप्य् अबुद्धाभा विस्मिता अप्य् अविस्मिताः ।
बभुस् तूष्णीं स्थिताश् चित्रे कृताकारा इव क्षणम् ॥
अथ जग्मुश् च ते सर्वे क्वचिच् चिद्व्योमनि स्थितम् ।
विप्रसंसारम् आरम्भपरभूतसघुङ्घुमम् ॥
तत्र तद्भवनं गत्वा तद् द्वीपं तच् च मण्डलम् ।
विषयं तं च तं ग्रामं प्रापुस् ते ब्राह्मणालयम् ॥
विप्रं ते ददृशुस् सुप्तं कलत्रवलितं गृहे ।
कण्ठे गृहीतं ब्राह्मण्या बहिर्जीवम् इव स्थितम् ॥
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।
तस्थुस् ते बहवो ऽप्य् एके सविस्मयम् अविस्मयाः ॥
अथ जग्मुश् चिदाकाशकचितं चेतितं च तैः ।
सामन्तनृपसंसारम् आरम्भभरसुन्दरम् ॥
तत्र तद्भवनं प्रापुस् तद् द्वीपं तच् च मण्डलम् ।
सामन्तं ददृशुर् मत्तं सुप्तं पर्यङ्कपङ्कजे ॥
हेमावदातं हेमाङ्ग्या निहितं कुचकोटरे ।
भ्रमर्येवान्वितं पद्मकोशसुप्तं मधुव्रतम् ॥
कान्ताभिर् अभ्यावलितं मञ्जरीभिर् इव द्रुमम् ।
दीपजालकमध्यस्थं रत्नौघ इव काञ्चनम् ॥
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।
तस्थुस् ते बहवो ऽप्य् एवं सविस्मयम् अविस्मयम् ॥
अथ ते राजसंसारं जग्मुस् तत्र प्रबोध्य तम् ।
तेन सार्धम् अथान्यासु भ्रेमुस् संसृतिभूमिषु ॥
प्राप्य तां ब्रह्महंसेहां रुद्रतां सर्व एव ते ।
समाजग्मुर् विरेजुश् च रुद्राणाम् उत्तमं शतम् ॥
एकसंविद् भिन्नतनु चित्रचेष्टम् अचेष्टितम् ।
एकरूपम् अनेकात्म रूपं च परमेश्वरम् ॥
रुद्राणां तच् छतम् अथ निरावरणचिन्मयम् ।
सर्वसंसारगं विद्धि स्थितं सर्वजगत्स्थिति ॥
दश रुद्रशतानीह सन्ति राम महान्ति च ।
एतद् एकादशं विद्धि संसारं प्रति संस्थितम् ॥
यो यो हि यस्य जीवस्य संसारस् समुदेति हि ।
तत्राप्रबुद्धा जीवौघाः पश्यन्ति न परस्परम् ॥
मिलन्ति हि मिथो बुद्धास् तरङ्गाम्ब्व् इव वारिधौ ।
अप्रबुद्धास् स्वतामात्रनिष्ठा लोष्टवद् आस्थिताः ॥
यथा द्रवत्वाद् वीच्यम्बून्य् अन्योऽन्यं सम्मिलन्त्य् अलम् ।
तथा प्रबुद्धा जीवौघा मिथश् चित्त्वान् मिलन्त्य् अलम् ॥
प्रत्येकम् उदिताश् चैते संसारे जीवराशयः ।
चिद्धातोस् सर्वगत्वेन त्व् असत्यास् सत्यवत् स्थिताः ॥
यद् यद् आखन्यते भूमेस् तत् तन् नाम यथाङ्ग मृत् ।
सर्वगायाश् चितेर् यद् यद् ऊह्यते तत् तथेह चित् ॥
सर्वत्र पञ्चभूतानि यथानुभवसीह हि ।
तथेह सर्वभूतात्म चित्त्वं सर्वत्र विद्यते ॥
यत् सालभञ्जिकावृन्दे शैलस्तम्भगते ऽङ्गकम् ।
प्रेक्ष्यते तत् तद् एवाश्म तथा चिति जगच् चितः ॥
अवेदने परे शुद्धे वेदनं यज् जगन्ति तत् ।
अकारणकम् एवैतच् छून्यत्वं नभसो यथा ॥
चिद्घने वेदनं दृश्यं बन्धो मोक्षस् त्व् अवेदनं ।
यद् एव रुचितं ते स्यात् तद् एवाशु दृढीकुरु ॥
सर्गासर्गौ बन्धमोक्षौ वेदनावेदनात्मकौ ।
अभिन्नौ बोधतश् चैतौ यथेच्छसि तथा कुरु ॥
असंवित्त्यैव यन् नास्ति तन्नाशे का कदर्थना ।
तूष्णीम्भावेन यत् प्राप्यं प्राप्तम् एवाशु विद्धि तत् ॥
यद् वै वेदनमात्रात्म तद् अङ्गावेदनक्षयम् ।
तद् वेदनावेदनयोर् यद् इष्टं तत् समाचर ॥
वीचिर् यथाम्भसि स्पन्दो जगच् चित्रं तथा चितौ ।
एतावन्मात्र एवात्र भेदो यद् रघुनन्दन ॥
देशकालखरूपेषु सत्सु वीच्यादिताम्भसि ।
जगदादौ तु देशाद्या असन्तो निर्मिताश् चिता ॥
आभासुरं त्रिजगद् इत्य् अवभाति भास्वत् संवेदनं चयनम् एकचितेस् स्वरूपम् ।
वाचि स्थितं भवति चैतद् उपोढभेदं क्लिष्टं प्रशान्तवचनस् तु शिवः परात्मा ॥
संवेदनं सर्ग इतीह शब्दाव् अर्थेन भिन्नौ न कदाचिद् एतौ ।
वीच्यम्भसी द्वे इति नोचितोक्तिर् ज्ञस्याज्ञतायां त्व् इदम् एव युक्तम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0