भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.66

6.66.1

अत्र राघव वक्ष्ये ऽहम् इतिहासम् इमं शृणु ।
यद् वृत्तं कस्यचिद् भिक्षोः क्वचिन् मननशालिनः ॥

6.66.2

आसीत् कश्चिन् महाभिक्षुस् समाध्यभ्यासतत्परः ।
नित्यं स्वव्यवहारेण क्षपयन्न् अखिलं दिनम् ॥

6.66.3

समाध्यभ्यासशुद्धं तत् तस्य चित्तं क्षणेन यत् ।
चिन्तयत्य् आशु तद्भावं गच्छत्य् अम्ब्व् इव वीचिताम् ॥

6.66.4

कदाचित् स समाधानविरतो ऽतिष्ठद् एकधीः ।
कञ्चित् सञ्चिन्तयाम् आस स्वासनस्थः क्रियाक्रमम् ॥

6.66.5

तस्य चिन्तयतो जाता प्रतिभेयम् अथ स्वतः ।
भावयाम्य् आशु लीलार्थं सामान्यजनवृत्तिताम् ॥

6.66.6

इति सञ्चिन्त्य चेतो ऽस्य स्थितं किञ्चिन् नरान्तरम् ।
स्पन्दसंस्थानसन्त्यागमात्रेणावर्तके ऽम्ब्व् इव ॥

6.66.7

तेन चित्तनरेणाथ कृतं नामात्मनीच्छया ।
जीवटो ऽस्मीति सहसा काकतालीयवत् स्थितम् ॥

6.66.8

जीवटो विजहाराथ स स्वप्नपुरुषश् चिरम् ।
स्वप्ननिर्माणनगरे कस्मिंश्चित् पुरवीथिषु ॥

6.66.9

तत्र पानं पपौ मत्तो भृङ्गः पद्मरसं यथा ।
शिलयेव दृढं पिष्टस् सुष्वाप घननिद्रया ॥

6.66.10

स्वप्ने ददर्श विप्रत्वं पाठानुष्ठानतुष्टिमत् ।
प्रतिभामात्रसम्पन्नं चित्तदेशान्तराप्तिवत् ॥

6.66.11

कदाचित् स द्विजश्रेष्ठस् स्वाहर्व्यापारनिष्ठया ।
आजगाम घनां निद्रां बीजताम् इव पादपः ॥

6.66.12

सो ऽप्य् अपश्यत् स्वयं स्वप्ने सामन्तत्वम् अथात्मनि ।
पताकारथहस्त्यश्वसेनाजलदमालितम् ॥

6.66.13

स सामन्तः कृताहारः कदाचिद् घननिद्रया ।
सुष्वापान्तर्व्यवहृतिर् बीजतायाम् इव द्रुमः ॥

6.66.14

अपश्यद् राजतां स्वप्ने ककुब्वलयमालिनीम् ।
लालितां भोगपूगेन पुष्पौघेनर्तुताम् इव ॥

6.66.15

स कदाचिन् नृपस् स्वस्थस् सुष्वापास्तमितेहितः ।
पुरोभाविनिजाचारस् स्वं कार्यम् इव कारणे ॥

6.66.16

अपश्यद् आत्मनि स्वप्ने सुरस्त्रीत्वम् अनिन्दितम् ।
वृक्षः केसरसोल्लासो मञ्जरीत्वम् इवोदितम् ॥

6.66.17

सा रेमे सुरसेनासु देवोद्यानस्थलीषु च ।
क्षीराम्भोधितरङ्गेषु लोलेव हरिवल्लभा ॥

6.66.18

सुष्वाप सैकदा बाला मत्तोद्यानलतागृहे ।
संशान्तस्वमनस्स्पन्दं गन्धलेखेव पङ्कजे ॥

6.66.19

ददर्शात्मन्य् अथ स्वप्ने संसर्गवशतोदितम् ।
मृगीत्वम् आत्मनि स्वैरम् आवर्तत्वम् इवाम्बुता ॥

6.66.20

सा मृगी लोलनयना कदाचिन् निद्रयाहृता ।
स्वप्ने ददर्श वल्लीत्वं स्वाभ्यासाद् रूढम् आत्मनि ॥

6.66.21

तिर्यञ्चो ऽपि प्रपश्यन्ति स्वप्नं चित्तस्वभावतः ।
दृष्टान्तो ऽत्र शुकाश्वेभसञ्ज्ञास्मरणम् अक्षतम् ॥

6.66.22

सा बभूव लता पुष्पफलपल्लवशालिनी ।
वनदेवीवनोद्यानलतागृहविलासिनी ॥

6.66.23

बीजान्तस्स्थाङ्कुराकाररूपयेहाधिरूढया ।
सापश्यद् अन्तस्संवित्त्या स्फुटं लवनम् आत्मनः ॥

6.66.24

कञ्चित् कालं सुषुप्तस्थकलया जडतां घनम् ।
अनुभूय ददर्शाथ स्वात्मानं भ्रमरं स्थितम् ॥

6.66.25

षट्पदो विजहाराथ वने वनलतास्व् असौ ।
पद्मिनीषु च फुल्लासु तरुणीष्व् इव वल्लभः ॥

6.66.26

बिम्बाधरं विदलयन् स्वादयन् कौसुमं मधु ।
स्वपन् कुसुमशय्यासु भुक्त्वा वल्लीविलासिनीः ॥

6.66.27

स बभूव सरोजिन्यां व्यसनी बिसनालवत् ।
क्वचिद् एव रतिं याति चेतो जडमतेर् अपि ॥

6.66.28

ताम् आजगाम नलिनीं परिलोडयितुं गजः ।
रम्यवस्तुक्षयायैव मूढानां जृम्भते मनः ॥

6.66.29

नलिनीमथनेनैव समं तेन स षट्पदः ।
गुणवत्तान्तरे रूढिर् इव चूर्णत्वम् आययौ ॥

6.66.30

भ्रमरो वारणालोकाद् वारणालोकभावनात् ।
ददर्शात्मानम् आलोलमत्तहस्तितयोदितम् ॥

6.66.31

शुष्कसागरगम्भीरे गजः खाते पपात ह ।
तमोघनघने शून्ये संसार इव जीवकः ॥

6.66.32

बभूव वल्लभो राज्ञो महान् परबलान्तकः ।
सदा मदबलक्षीवो घूर्णन्न् इव निशाचरः ॥

6.66.33

कदाचिद् अरिनिस्त्रिंशच्छिन्नस् सो ऽस्तम् उपाययौ ।
विवेकासिलतालूनरूपो जीव इवात्मनि ॥

6.66.34

पश्यन् गजघटाकुम्भमणीन् प्रोच्छलितान् अलीन् ।
उत्क्रामन् स गजाज् जीवो भूयो द्रागित्य् अभूद् अलिः ॥

6.66.35

सेवमानो वनलताः पुनर् आयात् स पद्मिनीम् ।
दुस्तरो हि चिराभ्यासो वासनानाम् अबोधतः ॥

6.66.36

तत्र हस्तिखुराक्रान्त्या पुनर् आचूर्णतां ययौ ।
पार्श्वस्थहंससंवित्त्या बभूव कलहंसकः ॥

6.66.37

स हंसः फुल्लपद्मासु सरसीषु चिरं चरन् ।
कदाचिद् बहुभिर् हंसैस् सङ्गतो विरराज ह ॥

6.66.38

ब्रह्महंसात्मिका संविद् अशब्दार्थवती मनाक् ।
तत्र पुस्फोर तस्यान्तः प्राग्जाण्डरसबर्हिवत् ॥

6.66.39

स तां विभावयन् दूराद् दृढं दाशेषुणा हतः ।
तत्संवित्त्यनुसन्धानाज् जातः पद्मजसारसः ॥

6.66.40

तत्रातिसन्ततविवेकवचोविलासैर् आबोधितो ऽधिगतपावनवस्तुदृष्टिः ।
मुक्तस् स्थितो ननु युगान्तविधौ विदेहमुक्तेन तेन किल भाव्यम् अवश्यम् एव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc