भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.68

6.68.1

जीवटब्राह्मणादीनां हंसान्तानां मुनीश्वर ।
भिक्षुस्वप्नशरीराणां सम्पन्नं किम् अतः परम् ॥

6.68.2

रुद्रेण सह सम्भूय प्रबुद्धास् सर्व एव ते ।
मिथश् च दृष्टसंसारा रुद्रांशास् सुखिनस् स्थिताः ॥

6.68.3

तेन रुद्रेण तां मायाम् अवलोक्य तथोदिताम् ।
स्वांशास् ताम् एव संसारस्थितिं ते प्रेषिताः पुनः ॥

6.68.4

गच्छताशु निजं स्थानं तत्र भुक्त्वा कलत्रकैः ।
कञ्चित् कालं समं भोगान् मत्सकाशम् उपैष्यथ ॥

6.68.5

भविष्यथ मदंशा मे गणा मत्पुरभूषणाः ।
ततो महाप्रलयतो यास्यामस् तत् पदं सह ॥

6.68.6

इत्य् उक्त्वा भगवान् रुद्रस् तेषां सो ऽन्तरधीयत ।
अन्यसंसारसंस्थानां रुद्राणां मध्यम् आययौ ॥

6.68.7

प्रययुस् स्वास्पदं ते ऽपि जीवटब्राह्मणादयः ।
स्वकलत्रैस् समं देहं क्षपयित्वाथ कालतः ॥

6.68.8

रुद्रलोकं समासाद्य भविष्यन्ति गणोत्तमाः ।
कदाचिद् व्योम्नि दृश्यन्ते तारकाकारधारिणः ॥

6.68.9

भिक्षुसङ्कल्परूपास् ते जीवटब्राह्मणादयः ।
कथं सत्यत्वम् आयातास् सङ्कल्पार्थेष्व् असत्यता ॥

6.68.10

सङ्कल्पसत्यतास्तीशे सङ्कल्पासत्यतास्त्य् अजे ।
यत्र यन् नास्ति तन् नास्ति यतस् सर्वात्म तत् पदम् ॥

6.68.11

यत् स्वप्ने दृश्यते यच् च सङ्कल्पैर् अवलोक्यते ।
तत् तथा विद्यते तत्र सर्वकालं तदात्मकम् ॥

6.68.12

तद्देशकालात्मिकया तयैवावस्थयाप्यते ।
तद्देशकालात्मिकया गत्या देशान्तरं यथा ॥

6.68.13

देशाद् देशान्तरं यद्वद् यत्नगत्यादिकं विना ।
न लभ्यते तथा स्वप्नो विना तत्तां न लभ्यते ॥

6.68.14

सर्वम् अस्ति चितः कोशे यद् यथालोकयत्य् असौ ।
चित् तत् तथा तदाप्नोति सर्वात्मत्वाद् अविक्षतम् ॥

6.68.15

सङ्कल्पस्वप्नवस्त्व् अङ्ग यया च दशयाप्यते ।
परमाभ्यासयोगाभ्यां विना सेह न लभ्यते ॥

6.68.16

येषां तु योगविज्ञानदृष्टयः फलितास् स्थिताः ।
सर्वं सर्वत्र पश्यन्ति त एते शङ्करादयः ॥

6.68.17

इदम् अग्रगतं वस्तु तथासङ्कल्पितं च यः ।
प्रार्थयत्य् उभयभ्रंशं स प्राप्नोत्य् उभयाश्रयात् ॥

6.68.18

सर्वं ह्य् अभिमतं कार्यम् एकनिष्ठस्य सिध्यति ।
दक्षिणां ककुभं गच्छन् कः प्राप्नोत्य् उत्तरां दिशम् ॥

6.68.19

सङ्कल्पार्थपरैर् एव सङ्कल्पार्थो ऽवगम्यते ।
अग्रस्थार्थपरैर् अग्रसंस्थितो ऽर्थो ऽवगम्यते ॥

6.68.20

अग्रस्थबुद्धिसंस्थे ऽस्मिन् कल्पितं प्राप्तुम् इच्छति ।
यस् स ना नैकनिष्ठत्वात् तदा तन् नाशयेद् द्वयम् ॥

6.68.21

तस्माद् एकार्थनिष्ठत्वाद् भिक्षुजीवेन रुद्रताम् ।
प्राप्य सर्वात्मनो लब्धं पदात् सर्वं तथास्थितेः ॥

6.68.22

भिक्षुसङ्कल्पजीवानां प्रत्येकं तज् जगत् पृथक् ।
पश्यन्ति ते च नान्योऽन्यं रुद्रज्ञानाद् ऋते ततः ॥

6.68.23

अप्रबुद्धाः प्रजायन्ते जीवा जीवात् प्रबोधिनः ।
तदिच्छयाशु विदुष इव मूर्खास् सुता इव ॥

6.68.24

इह विद्याधरो ऽहं स्याम् इह स्याम् अहम् एडिका ।
इत्य् एकध्यानसाफल्यदृष्टान्तो ऽस्यां क्रियास्थितौ ॥

6.68.25

एकत्वं च शतत्वं च मौर्ख्यं पाण्डित्यम् एव च ।
देवत्वं मानुषत्वं च देशकालक्रियाक्रमैः ॥

6.68.26

तुल्यकालम् अलङ्कर्तुं धारणाध्यानयत्नतः ।
सर्वशक्त्यजरूपत्वाज् जीवस्यास्त्य् एव शक्तता ॥

6.68.27

अनन्तश् चान्तयुक्तश् च स्वभावो ऽस्य स्वभावतः ।
सविकासस् ससङ्कोचो हंसस्येव चिदात्मनः ॥

6.68.28

यद् इच्छति तद् अस्त्य् अङ्ग ननु सम्पद्यते स्वयम् ।
स्वयंसङ्कल्पितैर् एभिर् देशकालक्रियाक्रमैः ॥

6.68.29

योगिन्यो योगिनश् चेह तिष्ठन्त्य् अन्यत्र यान्ति च ।
इह चामुत्र चेहन्ते दृष्टम् एतद् अनेकशः ॥

6.68.30

कार्तवीर्यो गृहे तिष्ठन् ववर्षाम्बुधरो भवन् ।
विष्णुः क्षीरोदधौ तिष्ठञ् जायते पुरुषो भुवि ॥

6.68.31

पश्वर्थं यान्ति तिष्ठन्त्यो योगिन्यो योगिनीगणे ।
शक्रस् स्वर्गासने तिष्ठन् याति यज्ञार्थम् उर्वराम् ॥

6.68.32

सहस्रम् एकं भवति तथास्मिञ् जगदात्मनि ।
नृणां शतानि भक्तानां यान्ति सायुज्यतां तनौ ॥

6.68.33

एकस् सहस्रं भवति तथा चैष जनार्दनः ।
एकः कान्तासहस्राणि तुल्यकालं निषेवते ॥

6.68.34

एवं ते भिक्षुसङ्कल्पजीवटब्राह्मणादयः ।
रुद्रविज्ञानवशतस् स्वसङ्कल्पपुरीर् गताः ॥

6.68.35

तत्र भुक्त्वा चिरं भोगान् प्राप्य रुद्रपुरं ततः ।
गणताम् आप्नुवन्तस् ते स्थास्यन्ति सपरिच्छदाः ॥

6.68.36

नित्यप्रफुल्तनवकल्पलतालयेषु रुद्रेण सार्धम् उरुरत्नगुलुच्छकेषु ।
नानाजगत्सु च तदा पुरपत्तनेषु विद्याधरीष्व् अमलमौलिधरा रमन्ते ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc