मोक्षोपाय · अध्याय 6.65
यथास्माकं मुने स्वप्नपुरपत्तनमण्डलम् ।
तथैव पद्मजादीनां यदि देहपरिग्रहः ॥
तथैवेदं च सञ्जातं यदि सर्वम् असन्मयम् ।
तद् अस्माकं दृढतरः प्रत्ययः कथम् उत्थितः ॥
अस्मत्सर्गवद् आभाति पूर्वसर्गप्रजापतिः ।
स्वजीवप्रतिभासात्मा विद्यते न तु वास्तवः ॥
सर्वगत्वाच् चितेस् सर्वं जीवस् सर्वत्र संसृतिः ।
सा चासत्या दर्शनोत्था सम्यग्दर्शननाशिनी ॥
स्वप्नाभः प्रतिभासो ऽस्य य एष स्वयम् उत्थितः ।
अहन्ताप्रत्ययैकात्मा स एवातिदृढस् स्थितः ॥
स्वप्ने क्षणविनाशित्वं यथा पुंसा न दृश्यते ।
सर्गस्वप्ने तथैवैतद् ब्रह्मणापि न लक्ष्यते ॥
स्वप्नो ऽग्रपुरुषस्यास्य प्रतिभासश् च यो भवेत् ।
रामास्मदादिसर्गात्मा भवेत् तादृश एव सः ॥
यत् स्वप्नपुरुषाज् जातं तत् स्वप्नपुरुषात्मकम् ।
भवतीत्य् अनुभूतं हि यद् बीजं तत् फलं यथा ॥
असत्यम् एव तद् विद्धि यद् असत्येन साध्यते ।
असत्य् अर्थे समर्थे ऽपि न युक्तं भावबन्धनम् ॥
असत्य् अर्थे समर्थे ऽपि सत्ता भावनसम्भवा ।
यतस् तेन परित्याज्यम् असद्भावनभावनम् ॥
दृढप्रत्ययिनस् स्वप्नपुरुषाद् यत् समुत्थितम् ।
भवत्य् आत्मनि सर्गादि दृढप्रत्ययम् एव तत् ॥
निमेषमात्रम् एवायं सर्गस्वप्नस् स्फुरन् स्थितः ।
तस्मिन् निमेष एवास्मत्कल्पता परिकल्पिता ॥
सुदीर्घस्वप्नषण्डो ऽयं यथोदेति प्रजापतेः ।
सर्गाद्यास् सर्वभूतानां प्रत्येकम् उदितास् तथा ॥
चित्तत्त्वस्यैव भावेन सर्गस्वप्नपरम्पराः ।
स्फुरन्त्य् अम्भो द्रवत्वेन यथावर्तविवर्तनैः ॥
यदा स्वप्नात्मिकैवेयं सर्गलक्ष्मीर् न वास्तवी ।
इदं सम्भवतीदं नो वेत्य् अतः प्रलयं गतम् ॥
यद् यथा यादृशं दृष्टं तत् तादृग् विद्यते तथा ।
न हि पर्यनुयुज्यन्ते स्वप्नविभ्रमनीतयः ॥
न तद् अस्ति जगत्य् अस्मिन् यन् न सम्भवति भ्रमे ।
विचित्रास् त्रिषु लोकेषु दृश्यन्ते वस्तुदृष्टयः ॥
जलमध्ये ज्वलत्य् अग्निर् यथाब्धौ वडवानलः ।
नगराण्य् अम्बरे सन्ति यथा वैमानिकाश्रयाः ॥
शिलास्व् अब्जानि जायन्ते हेमाद्राव् इव पादपाः ।
एकागे सर्वपुष्पाणि सन्ति कल्पतरौ यथा ॥
शिलाः फलन्ति फलवद् यथा रत्नगुलुच्छकाः ।
शिलान्तः प्राणिनस् सन्ति भेका इव शिलान्तरे ॥
दृषदो वारि निर्याति चन्द्रकान्तोपलाद् इव ।
निमेषेण घटो याति पटतां शापवान् इव ॥
स्वासत्ताम् अपि बुध्यन्ते स्वप्ने स्वमरणं यथा ।
अधोगामि जलं व्योम्नि डीयते ऽभ्रगतं यथा ॥
वितानम् इव खे वारि तिष्ठति स्वर्नदी यथा ।
उड्डीयन्ते शिलास् स्थूलाः पक्षवन्तो ऽद्रयो यथा ॥
शिलातः प्राप्यते सर्वं ननु चिन्तामणेर् इव ।
चिन्तितानि फलन्त्य् आशु देवोद्यानान्तरेष्व् इव ॥
तान्य् एव न फलन्त्य् आशु मोक्षादीनीव राघव ।
अचेतनो ऽपि कुरुते कर्म यन्त्रपुमान् इव ॥
एवमादिस् तथान्यश् च विचित्रारम्भविभ्रमः ।
दृष्टश् शम्बरगन्धर्वविलासैर् अप्य् असम्भवः ॥
देशकालक्रियाद्रव्यरत्नशम्बरशापजाः ।
मयगन्धर्वजनिता अनन्तास् सत्यसम्भवाः ॥
असम्भवस् सम्भवानाम् अपीहाभ्युपपद्यते ।
सम्भवासम्भवांशस्य सिद्धयस् स्वप्नविभ्रमाः ॥
न तद् अस्ति न यत् सत्यं न तद् अस्ति न यन् मृषा ।
सर्वं सर्वेण सर्वत्र स्वप्ने सर्गाभिधानके ॥
स्वप्ने निमग्नधीर् जन्तुः पश्यति स्थिरतां यथा ।
सर्गस्वप्ने मग्नबुद्धिः पश्यति स्थिरतां तथा ॥
भ्रमाद् भ्रमान्तरं गच्छन् स्वप्नात् स्वप्नान्तरं व्रजन् ।
अतिस्थिरप्रत्ययभाग् इह जीवो विमुह्यति ॥
श्वभ्रान्तरं श्वभ्रनिपातदोषात् सम्प्राप्नुवन् मुग्धमृगः प्रयाति ।
मोहं यथा पातमयैकरूपं जीवस् तथा संसृतिपातमूढः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0