मोक्षोपाय · अध्याय 6.64
एनम् आहुः परं तत्त्वं विद्ध्य् एनं परमं पदम् ।
वेद्म्य् एनम् एकम् एवाहम् एष एवास्ति नेतरः ॥
य एष प्रत्यगात्मान्तस् सर्वसत्तैकदर्पणः ।
एतस्माद् इदम् उत्पन्नं जगद् बीजाद् इव द्रुमः ॥
बुद्ध्यहङ्कारचित्तादि वर्जयित्वा जडात्मकम् ।
यत्रानुभवितान्तस् ते तद् विद्धि परमं पदम् ॥
शुद्धानुभवमात्रं यन् मनोबुद्ध्यादिवर्जितम् ।
महाचिदभिधं पुण्यं तद् एतत् परमं पदम् ॥
तत्स्था एते महारूपा ब्रह्मविष्णुहरादयः ।
विभूतिभिस् स्फुरन्त्य् उच्चैर् जनास् तुष्टनृपा इव ॥
आकाशगमनाद्याभिः क्रीडाभिः क्रीड्यते चिरम् ।
तत्स्थेनैव जनेनेह स्वर्गे स्वर्गौकसा यथा ॥
तत् प्राप्य नाङ्ग म्रियते तत् प्राप्याङ्ग न शोच्यते ।
तत् प्राप्य क्षीयते नाङ्ग तत् प्राप्याङ्ग न बध्यते ॥
अपारपरमाकाशरूपिणः परमात्मनः ।
सत्तासामान्यरूपं चेन् मनाग् अपि विभाव्यते ॥
तत् तन्निमेषमात्रेण जन्तुर् मुक्तमना मुनिः ।
कुर्वन् संसारकर्माणि न भूयः परितप्यते ॥
मनो बुद्धिर् अहङ्कार इति यत्र क्षयं गतम् ।
सत्तासामान्यम् आभानं किं तत् कीदृशम् उच्यते ॥
यद् ब्रह्म सर्वदेहस्थं भुङ्क्ते पिबति वल्गति ।
आदत्ते विनिहन्त्य् अत्ति संवित्संवेद्यवर्जितम् ॥
तत् सर्वगतम् आद्यन्तरहितं स्थितम् ऊर्जितम् ।
सत्तासामान्यम् अखिलं वस्तुतत्त्वम् इहोच्यते ॥
तत् स्थितं खतया व्योम्नि शब्दे शब्दतया स्थितम् ।
स्पर्शे स्थितं स्पर्शतया त्वचि तत् त्वक्तया स्थितम् ॥
रसे लीनं रसतया रसनायां च तत्तया ।
रूपे रूपतया दृष्टं नेत्रे लीनं च दृक्तया ॥
घ्राणे घ्राणतया दृष्टं गन्धे गन्धतयोदितम् ।
पुष्टं कायतया काये भूमाव् अपि च भूतया ॥
पयस्तया च पयसि वायौ वायुतया स्थितम् ।
तेजस्तया तेजसि च बुद्धौ बुद्धितया गतम् ॥
मनस्तया मनस्य् अन्तर् अहङ्कृत्याप्य् अहङ्कृतौ ।
रूढं संविदि संवित्त्या चिति चित्त्वेन चोत्थितम् ॥
वृक्षे वृक्षतया लग्नं पटे पटतया स्थितम् ।
घटे घटतया रूढं वटे वटतया स्थितम् ॥
स्थावरे स्थावरत्वेन जङ्गमत्वेन जङ्गमे ।
पाषाणत्वेन पाषाणे चेतनत्वेन चेतने ॥
अमरेष्व् अमरत्वेन नरत्वेन नरेषु च ।
तिर्यक्त्वेन च तिर्यक्षु क्रिमित्वेन क्रिमिस्थितौ ॥
कालक्रमे कालतया ऋताव् ऋतुतयानया ।
तुटिक्षणनिमेषादौ संस्थितस् तत्तया विभुः ॥
शुक्ले शुक्लतया जातं कृष्णे कृष्णतया स्थितम् ।
क्रियासु स्पन्दरूपेण नियतौ नियमेन च ॥
संस्थितस् संस्थितौ स्थित्या नाशे नाशतया स्थितः ।
उत्पत्तिरूपेणोत्पत्ताव् आस्थितः परमेश्वरः ॥
बाल्ये बाल्येन विश्रान्तो यौवने यौवनेन च ।
जरसा च जरारूपे मरणे मरणेन च ॥
इति सर्वपदार्थानाम् अभिन्नः परमेश्वरः ।
कल्लोलशीकरोर्मीणाम् अब्धाव् इव पयोभरः ॥
नानातैषा त्व् असत्यैषा सत्येनानेन चैव हि ।
कल्पिता चित्स्वभावेन वेतालश् शिशुना यथा ॥
सर्वत्र संस्थितिमता विगतामयेन व्याप्तं मयेदम् अखिलं विविधैर् विलासैः ।
चिद्रूपिणैव कलिताकलितात्मनेति सर्वोपशान्तमतिर् आस्स्व सुखं महात्मन् ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0