भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.63

6.63.1

एतां दृष्टिम् अवष्टभ्य राघवाघविघातिनीम् ।
तिष्ठ निस्सङ्गसन्न्यासब्रह्मार्पणमयात्मिकाम् ॥

6.63.2

यस्मिन् सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः ।
यश् च सर्वमयो नित्य आत्मानं विद्धि तं परम् ॥

6.63.3

दूरस्थम् अप्य् अदूरस्थं सर्वगं त्वं स्वम् एव च ।
तत्स्थस् तत्ताम् अवाप्नोषि तद् एवास्य् अस्तसंशयम् ॥

6.63.4

यत् संवेद्यविनिर्मुक्तं संवेदनम् अनिन्दितम् ।
चेत्यमुक्तचिदाभासं तद् विद्धि परमं पदम् ॥

6.63.5

सा परात् परमा काष्ठा सा दृशां दृग् अनुत्तमा ।
स महिम्नां च महिमा गुरूणां स गुरुर् गुरुः ॥

6.63.6

स आत्मा तच् च विज्ञानं तच् छून्यं ब्रह्म तत् परम् ।
तच् छ्रेयस् स शिवश् शान्तस् सा विद्यापरमा स्थितिः ॥

6.63.7

यो ऽयम् अन्तश्चेतनात्मा सर्वानुभवरूपकः ।
यत्र स्वदन्ते सर्वाणि द्रव्याणि स्वात्मसत्तया ॥

6.63.8

स जगत्तिलतैलात्मा स जगद्गृहदीपकः ।
स जगत्पादपरसस् स जगत्पशुपालकः ॥

6.63.9

स तन्तुर् भूतमुक्तानां परिप्रोतहृदम्बरः ।
स भूतमरिचौघानां परमा तिक्ततातता ॥

6.63.10

स पदार्थे पदार्थत्वं स तुच्छत्वम् अवस्तुनः ।
स सतो वस्तुनस् सत्त्वम् असत्त्वम् असतश् च सः ॥

6.63.11

जगद्गृहक्रियाभाण्डोपस्कराणां स दीपकः ।
चन्द्रार्कतारकातेजस् तेनेदं प्रकटीकृतम् ॥

6.63.12

सर्वं प्रसृतम् एतस्माच् चेतनात् परमात्मनः ।
स्वसंवित्तिविचारेण स्वयम् आत्मैष लभ्यते ॥

6.63.13

सर्व एव जगद्भावा अविचारणचारवः ।
अविद्यमानसद्भावा विचारविशरारवः ॥

6.63.14

अहम् आदौ जगज्जाले मिथ्याभ्रमभरात्मनि ।
को भूत्वा क्वानुबध्नामि धृतिं कथम् अवास्तवीम् ॥

6.63.15

आदिमध्यान्तमननसङ्कल्पकलनास्व् अहम् ।
ब्रह्माकाशम् अनाद्यन्तं केवेयत्ता ममात्मनः ॥

6.63.16

इतिनिश्चयवान् यो ऽन्तस् समव्यवहृतिर् बहिः ।
उदयास्तमयोन्मुक्तस् स्थितो ऽनन्तस् स सर्वदा ॥

6.63.17

नास्तम् एति न चोदेति साम्यं समम् अवस्थितम् ।
यस्य खस्येव शून्यत्वं स महात्मेह सद्वपुः ॥

6.63.18

भावाद्वैतपदारूढस् सुषुप्तपरया धिया ।
व्यवहार्य् अपि हृत्क्षोभं नैत्य् आदर्शनरो यथा ॥

6.63.19

आदर्शपुरुषस्येव व्यवहारवतो ऽपि च ।
न यस्य हृदयोल्लेखो मनाग् अपि स मुक्तिभाक् ॥

6.63.20

अविभागमताव् एव ज्ञमणौ प्रतिबिम्बति ।
चितेः परमवैमल्याद् व्यवहारो यथागतः ॥

6.63.21

चिच्चमत्कृतिर् एवेयं जगद् इत्य् अवभासते ।
नेहास्त्य् ऐक्यं न च द्वित्वम् उपदेशो ऽपि तन्मयः ॥

6.63.22

वाच्यवाचकशिष्येहागुर्वाख्यैस् स्वचमत्कृतैः ।
आत्मनात्मनि शान्तैव चिच् चमत्कुरुते चिति ॥

6.63.23

चित्प्रस्पन्दो हि संसारस् तदस्पन्दः परं पदम् ।
चित्स्पन्दशमनेनेयं परिशाम्यति संसृतिः ॥

6.63.24

महाचितेर् नञर्थांशभावो यो ऽभावनक्षयः ।
असन्न् इव स्वभावेन स चित्स्पन्द उदाहृतः ॥

6.63.25

शून्यत्वम् अजडं यत् तत् परम् आहुश् चितेर् वपुः ।
नञर्थाभावना यात्र संसृतिस् सानुभूयते ॥

6.63.26

अभावनामात्रलया सा च निस्साररूपिणी ।
केवलं केवलीभावस् स्वस् सद्रूपो ऽवशिष्यते ॥

6.63.27

चित्स्पन्द एव संसारचक्रप्रवहणं विदुः ।
मातृमानप्रमेयादि कटकादीव हेमनि ॥

6.63.28

पृथग् अस्ति न च स्पन्दश् चितेर् यस् संसृतिर् भवेत् ।
चित्त्वम् एव चितेस् स्पन्दस् तदबोधो हि संसृतिः ॥

6.63.29

अबोधमात्रं चित्स्पन्दः कटकत्वम् इवोत्थितम् ।
बोधमात्रविलीने ऽस्मिञ् शुद्धं चिद्धेम शिष्यते ॥

6.63.30

सत्यावबोधमात्रेण क्षीयते भोगभावना ।
भोगाभावनम् एवेह परमं ज्ञत्वलक्षणम् ॥

6.63.31

इमे ऽनभिमतास् सर्वे ज्ञस्य भोगास् स्वभावतः ।
भवन्ति को ऽतितृप्तो हि दुरन्नं किल वाञ्छति ॥

6.63.32

एतद् एव परं विद्धि ज्ञत्वस्य परलक्षणम् ।
स्वभावेनैव भोगानां यत् किलानभिवाञ्छनम् ॥

6.63.33

चिद् अस्पन्दैव सर्वात्मरूपिण्य् अस्तीति निश्चयः ।
यो ऽन्तः प्ररूढस् स्वाभ्यासाज् ज्ञत्वशब्देन स स्मृतः ॥

6.63.34

यो न भुङ्क्ते भुज्यमानान् अपि भोगान् अबुद्धिमान् ।
लोकानुरोधसिद्ध्यर्थं स हन्ति लगुडैर् नभः ॥

6.63.35

विनाकृत्रिमया युक्त्या न सिद्धिर् अधिगम्यते ।
क्वचिद् आत्मनि लोके वा स्वाङ्गावदलनैर् अपि ॥

6.63.36

चिच् चेत्यचैत्यकोटिस्था तावत् पश्यति विभ्रमम् ।
इयं यावद् अबोधात्मा स्पन्दते स्पन्दरूपिणी ॥

6.63.37

सम्यग्बोधोदये त्व् अस्यास् स्पन्दास्पन्ददशाक्रमाः ।
क्वापि यान्तीव संशान्तदीपवत् साभिधानकाः ॥

6.63.38

चितः प्रकाशरूपाया दीपिकायास् स्वभावतः ।
स्पन्दास्पन्दमयी नेह कथैवास्ति मनाग् अपि ॥

6.63.39

यद् अस्पन्दस्य मरुतो न सन् नासन् न मध्यगम् ।
रूपं तद् एव संवित्तिस्पन्दता प्रशमोचिता ॥

6.63.40

अभिन्नो ऽस्याश् चितेस् स्पन्दश् शुद्धचित्साररूपधृत् ।
न बन्धाय न मोक्षाय स्थित आत्मनि केवलम् ॥

6.63.41

चिच् चेन् नञर्थसंवित्तिं निर्वाणेव न विन्दते ।
तद् बन्धमोक्षपक्षादेर् नामापि हि न विद्यते ॥

6.63.42

मोक्षो ऽस्त्व् इत्य् एव बन्धो ऽन्तःपूर्णताक्षयकारणं ।
मास्त्व् इतीत्य् अपि बन्धस् ते श्रेयसे ऽवेदनं परम् ॥

6.63.43

यद् अनाभासम् अजडं तद् विद्धि परमं पदम् ।
चितस् स्वरूपसंस्थानम् अचेत्योन्मुखतात्मकम् ॥

6.63.44

यस् सङ्कल्पनशब्दार्थरूपस् स्पन्दो महाचितेः ।
बन्धमोक्षादिकार्हो ऽसौ प्रेक्ष्यमाणः प्रशाम्यति ॥

6.63.45

प्रेक्षणाद् एव संशान्ते त्व् अहम्भावे निरास्पदे ।
न विद्मः केन किं कस्य बध्यते वाथ मुच्यते ॥

6.63.46

सङ्कल्प एव च चितेर् बुद्धश् चेद् अविभागवान् ।
तद् असङ्कल्पम् अस्पन्दं सर्वं जातम् अवारितम् ॥

6.63.47

स्पन्दे ऽस्पन्दतयैवात्ते तन्मयत्वात् सदा चिता ।
सङ्क्षीण एव संसारो निस्स्पन्दे चिद्घने स्थिते ॥

6.63.48

चित्तेज एव चित्स्पन्द इति बुद्धे निरन्तरम् ।
व्यतिरिक्तश् चितस् स्पन्दो न कश्चिद् अवशिष्यते ॥

6.63.49

अस्मिन् दृश्यमये दीर्घस्वप्ने स्वप्नान्तरं व्रजन् ।
न ज्ञो मोहम् उपादत्ते सर्वगत्वात् स्वसंविदः ॥

6.63.50

यत्रोदेति प्रसभम् अनिशं सर्वसंवित्तिसत्ता यस्मिन्न् एते सकलकलनाकारटङ्का लगन्ति ।
उत्पद्यन्ते स्वदनसुभगं यत्र सर्वोपलम्भा ध्यानेनैनं तम् अवगमय प्रत्यगात्मानम् अन्तः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc