मोक्षोपाय · अध्याय 6.62
नष्टो मोहस् स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत ।
स्थितो ऽस्मि गतसन्देहः करिष्ये वचनं तव ॥
वृत्तयो यदि बोधेन संशान्ता हृदये स्फुटम् ।
तच् चित्तं शान्तम् एवाशु विद्धि सत्त्वम् उपागतम् ॥
अत्र तच् चेत्यरहितं प्रत्यक्चेतननामकम् ।
वस्तु शिष्टं विनिर्मुक्तं यत् सर्वं सर्वतश् च यत् ॥
न केचन प्रबाधन्ते तत् पदं जगदाधयः ।
भूतलाद् गगनोड्डीनं विहङ्गमम् इवोतवः ॥
प्रत्यक्चेतनम् आभासं शुद्धं सङ्कल्पवर्जितम् ।
अगम्यम् एनम् आत्मानं विद्धि दुष्टदृशाम् इह ॥
सर्वातीतपदस्थस्य चिता शुद्धस्य वासना ।
न शक्नोति पदं द्रष्टुं जनदृष्टिर् अहेर् इव ॥
यत्प्राप्तौ सर्व एवेमे क्षीणा घटपटादयः ।
वराकी वासना तत्र किं करोति परे पदे ॥
यथानलगिरिं प्राप्य हिमलेशो विलीयते ।
शुद्धम् आसाद्य चित्तत्त्वम् अविद्या लीयते तथा ॥
क्व वराकी रजस्तुच्छा वासना भोगबन्धनी ।
क्वापूरितजगज्जालश् चित्तत्त्वविपुलानिलः ॥
तावत् स्फुरत्य् अविद्येयं नानाकारविकारिणी ।
यावन् न सम्परिज्ञातश् शुद्धस् स्वात्मायम् आत्मना ॥
सर्वा दृश्यदृशः क्षीणाश् शुद्धतैवोदितातता ।
नभसीव पदे तस्मिन् स्वात्मन्य् अखिलपूरणे ॥
समग्राकाररूपं तत् समग्राकारवर्जितम् ।
वागतीतं परं वस्तु केन नामोपमीयते ॥
विषयविषविषूचिकाम् अतस् त्वं निपुणम् अहंस्थितिवासनाम् अपास्य ।
अभिमतपरिहारयत्नयुक्त्या भव विरुजो भुवनैकनाथमूर्तिः ॥
इति गदितवति त्रिलोकनाथे क्षणम् इव मौनम् अवस्थिते पुरस्तात् ।
अथ मधुप इवासिताब्जषण्डे वचनम् उपैष्यति तत्र पाण्डुपुत्रः ॥
परिगलितसमस्तशोकभावा परम् उदयं भगवन् मतिर् गतेयम् ।
मम तव वचनेन लोकभर्तुर् दिनपतिना परिबोधिताब्जिनीव ॥
इत्य् उक्त्वोत्थाय गाण्डीवधन्वा स हरिसारथिः ।
अर्जुनो गतसन्देहो रणलीलां करिष्यति ॥
करिष्यति क्षतगजवाजिसारथिद्रुतद्रवद्रुधिरमहानदीं भुवम् ।
शरोत्करप्रसरमयाभ्रमण्डलीतिरोहितद्युमणिविलोचनां दिवम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0