मोक्षोपाय · अध्याय 6.6
भूय एव महाबाहो शृणु मे परमं वचः ।
यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥
बोधम् अभ्युपगम्यापि शृणु बोधविवृद्धये ।
भवेद् अल्पप्रबुद्धानाम् अपि निर्दुःखता यथा ॥
यस्याज्ञातात्मनो ऽज्ञस्य देह एवात्मभावना ।
उदितार्तिं रुषेवाक्षरिपवो ऽभिभवन्ति तम् ॥
यस्य ज्ञातात्मनो ज्ञस्य सत्ये स्वात्मनि संस्थितिः ।
तुष्ट्येव चाक्षसुहृदो न घ्नन्ति तम् अनिन्दितम् ॥
परार्थं स्फुरतो यस्य न स्तुतिर् निन्दनाद् ऋते ।
स देही देहदुःखौघम् आदत्ते केन हेतुना ॥
नात्मा शरीरसम्बद्धश् शरीरम् अपि नात्मनि ।
मिथो विलक्षणे एते प्रकाशतमसी यथा ॥
सर्वैर् भावविकारैस् तु नित्यमुक्तो ऽस्त्य् अलेपकः ।
नात्मास्तम् एति भगवान् न चोदेति सदोदितः ॥
जडस्याज्ञस्य तुच्छस्य कृतघ्नस्य विनाशिनः ।
शरीरकोपलस्यास्य यद् भवत्य् अस्तु तत् तथा ॥
न चास्य किञ्चिद् भवति पृथग् आत्मन्य् अवेक्षिते ।
जडस्यासत्स्वरूपस्य किम् इवाङ्गोपपद्यते ॥
निपुणायावबोधाय यत् प्रोक्तं तत् पुनः पुनः ।
भङ्गिभिः प्रविचित्राभी राघवेदं प्रबोध्यते ॥
यदि देहगुणान् आत्मा गृह्णाति परमार्थतः ।
नादत्ते तत् कथं तस्माज् जडतां शवरूपिणः ॥
यदि वात्मगुणान् देहो गृह्णाति परमार्थतः ।
नादत्ते तत् कथं चैत्तं चिन्मयत्वं सदोदितम् ॥
ययोर् एकपरिज्ञाने जडतैवापरे स्थिता ।
तयोः कीदृग्विधा ब्रूत समानसुखदुःखता ॥
यौ समौ समकर्माणौ न कदाचन तौ कथम् ।
द्वाव् अप्य् असन्ताव् अन्योऽन्यं कथं सम्बन्धम् एष्यतः ॥
कथं स्थूलो ऽणुरूपस् स्याद् अणुस् स्थूलः कथं भवेत् ।
एकोदये द्वितीयस्य न सत्ता दिनरात्रिवत् ॥
ज्ञानं नाज्ञानताम् एति च्छाया नायाति तापताम् ।
सद् ब्रह्म नासद् भवति विचित्रास्व् अपि दृष्टिषु ॥
मनाग् अपि न संश्लेषस् सर्वगस्यापि देहिनः ।
देहेन देहगस्यापि कमलस्येव वारिणा ॥
मनाग् अपि न संश्लेषो ब्रह्मणो देहसत्तया ।
तद्गतस्याप्य् अतद्वृत्तेर् अम्बरस्येव वायुना ॥
भवत्य् आत्मनि नो किञ्चिन् नासतो देहकस्य च ।
तद् राघव मुधैवैष सुखदुःखभ्रमः कुतः ॥
जरामरणम् आपच् च सुखदुःखे भवाभवौ ।
मनाग् अपि न सन्तीह निर्वाणो निर्वृतो भव ॥
स्थितो देहतयात्युच्चैः पातोत्पातमयो भ्रमः ।
दृश्यते केवलं ब्रह्मण्य् अप्सु वीचितया यथा ॥
आत्मसत्तोपजीवित्वाद् आत्मा सम्भवतीह हि ।
देहयन्त्रं पयस्सत्तामात्राद् ऊर्मिर् इवोत्थितम् ॥
आधारस्पन्दनेनाङ्ग यथा क्षोभभवाभवाः ।
सूर्यादेः प्रतिबिम्बस्य तथा देहेन देहिनः ॥
सम्यग्दृष्टे यथाभूते वस्तुन्य् आत्मनि जायते ।
स्थितिर् देहमयो ऽज्ञानविभ्रमो लयम् एति च ॥
देहदेहवतोर् ज्ञानाद् यथाभूतैतयोस् स्थितिः ।
सत्तासत्तात्मिकोदेति दीपाद् इव पदार्थयोः ॥
असम्यग्ज्ञानिनो ये हि स्वावर्तपरिवर्तनैः ।
अन्तश्शून्यास् स्फुरन्तीह ते मोहार्जुनवायवः ॥
अपर्यालोचितात्मार्थम् अपरामृष्टसंविदः ।
स्पन्दन्ते वेष्टितोन्मुक्ततृणवन् मूढबुद्धयः ॥
अनास्वादितचित्तत्त्वं जडास् सूत्रैस् स्ववायुभिः ।
यन्त्रवच् चोदिताक्रान्ता नटन्ति प्रस्फुरन्ति च ॥
तृणकाष्ठादिकं सर्वम् आहरन्ति त्यजन्ति च ।
सशब्दस्पर्शरूपाद्यास् तरङ्गतरलाङ्गकाः ॥
जडास् सन्तस् स्फुरद्रूपा भृशं स्फाररसारवाः ।
सविहारागमापाया महौघा इव दुर्धियः ॥
सर्वेषाम् एव चैतेषां स्थितैवैषा चिद् अव्यया ।
किं त्व् अबोधवशाद् अस्याः परां कृपणतां गताः ॥
श्वाससन्ततयो ह्य् अज्ञाल् लोहकारदृतेर् इव ।
स्पन्दमात्रार्थम् एवाशु दृश्यन्ते नार्थकारिणः ॥
तर्जनोद्गर्जनं मूढाद् धनुर्दण्डगुणाद् इव ।
श्रूयते मारणायैव चिद्बोधपरिवर्जितम् ॥
फललाभो ऽपि यो मूढात् तद् अरण्यतरोर् इव ।
तस्मिन् विश्रमणं यत् तच् छिलाफलहके यथा ॥
तेन यस् सङ्गमस् स स्यात् स्थाणुनापि हि जङ्गले ।
तदर्थं यत् कृतं किञ्चित् तद् व्योम लगुडैर् हतम् ॥
तस्मिन् यद् अधमे दत्तं तत् त्यक्तं क्लिन्नकर्दमे ।
तेन सार्धं कथा यास् तत् कौलेयाह्वानम् अध्वरे ॥
अज्ञत्वम् आपदां निष्ठा का हि नापद् अजानतः ।
इयं संसारसरणिर् वहत्य् अज्ञप्रसादतः ॥
अज्ञस्योग्राणि दुःखानि सुखान्य् अपि दृढानि च ।
पुनः पुनः प्रवर्तन्ते युगं प्रत्य् अचला इव ॥
शरीरधनदारादाव् आस्थां समनुबध्नतः ।
इदं दुर्दुःखम् अज्ञस्य न कदाचन शाम्यति ॥
अनात्मनि शवे देहे आत्मभावम् उपेयुषः ।
असद्बोधमयी माया कथं नाम विनश्यति ॥
दुर्भावखर्वितधियो वस्तुन्य् अन्धस्य दुर्मतेः ।
अवस्तुनि सनेत्रस्य लुठतश् च पदे पदे ॥
विषम् उत्पद्यते चन्द्राद् आमोदः कुसुमाद् इव ।
कण्टकश् चैव पयसो दूर्वाङ्कुर इव स्थलात् ॥
देहशल्मलिभोगिन्यो मनोमातङ्गशृङ्खलाः ।
अज्ञस्याशाः प्रसूयन्ते सुवृष्टेष्व् इव शालयः ॥
नरकश्रीर् अनात्मज्ञं दुष्कृतव्यालपालिता ।
परिपालयति प्रीता मयूरी वारिदं यथा ॥
नेत्रलोलालिनीलोला स्फुरिताधरपल्लवा ।
मूर्खार्थम् एव विकसत्य् अङ्गनाविषवल्लरी ॥
अज्ञवारिधिहृद्भूमाव् एव वेपथुपल्लवः ।
वर्धते ऽपगतच्छायो रागविद्रुमदुर्द्रुमः ॥
तनुच्छदलसद्धूमश् शस्त्रज्वालो भटोल्मुकः ।
ज्वलति द्वेषदावो ऽज्ञहृन्मरौ कोपतापदः ॥
अज्ञमात्सर्यसरसि परापवदनच्छदा ।
ईर्ष्याकमलिनी चिन्ताषट्पदी विकसत्य् अलम् ॥
प्रतिजन्म प्रकृष्टोग्रदुःखकल्लोलसम्भ्रमः ।
जडम् एव समभ्येति पुनर्मरणवाडवः ॥
जन्मबाल्यं ध्रुवं याति यौवनं युवता जराम् ।
जरा मरणम् अभ्येति मूढस्यैव पुनः पुनः ॥
जगज्जीर्णारघट्टे ऽस्मिन् रज्ज्वा संसृतिरूपया ।
मज्जनोन्मज्जनैर् अज्ञा यन्त्रे शकलतां गताः ॥
यद् एव गोष्पदादूरं ज्ञधियः पेलवं जगत् ।
तद् एवापारपर्यन्तम् अगाधम् अमहात्मनः ॥
धियो ऽदृश इवाज्ञस्य चिद्व्योमोदरकोटरात् ।
न प्रयान्त्य् अपरं पारं विहङ्ग्यः पञ्जराद् इव ॥
भावमात्रपरावृत्त्या वासनामात्रनाभयः ।
स्पष्टीकर्तुं न शक्यन्ते जन्मचक्रस्य नेमयः ॥
अज्ञेनेन्द्रियशय्यार्थं रागासृगरुणा तनुः ।
संसारारण्य आस्तीर्णा पुनर् आमिषपिण्डवत् ॥
भूतशैलमयी सृष्टिर् मृन्मांसलवमात्रिका ।
मोहात् संलक्ष्यते चित्तपदार्थानर्थरञ्जना ॥
जयत्य् अनल्पसङ्कल्पकल्पनाकल्पपादपः ।
अज्ञानां प्रसृता यस्माज् जगत्पर्णपरम्पराः ॥
यस्मिंस् तिष्ठन्ति राजन्ते लसन्ति विलसन्ति च ।
विचित्ररचनोपेता भूरिभोगविहङ्गमाः ॥
यत्र जन्मानि पर्वाणि कर्मजालं च कोरकाः ।
फलानि पुण्यपापानि मञ्जर्यो विभवश्रियः ॥
अज्ञानेन्दूदयाद् एता योषिदोषधयस् स्फुटम् ।
संसारवनषण्डे ऽस्मिन् परां शोभाम् उपागताः ॥
घनजाड्यः कलापूर्णस् तमःकालकृतोदयः ।
शून्योदितात्मा दोषेशो जयत्य् अज्ञानचन्द्रमाः ॥
अज्ञानेन्दोः प्रसादेन वासनामृतशालिना ।
तर्पिताशाचकोरेण चित्तरत्नरसैषिणा ॥
राजहंसविलासिन्यः प्रालेयशिशिराङ्गिकाः ।
भान्ति कान्ताकुमुद्वत्यो लोललोचनषट्पदाः ॥
धम्मिल्लतिमिरोल्लासा यत् प्रपाण्डुपयोधराः ।
रामारजन्यो राजन्ते तन् मौर्ख्येन्दुविजृम्भितम् ॥
आपातमात्रमधुरत्वम् अनर्थवत्त्वम् आद्यन्तवत्त्वम् अखिलस्थितिभङ्गुरत्वम् ।
अज्ञानशाखिन इति प्रसृतानि राम नानाकृतीनि विपुलानि फलान्य् अमूनि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0