मोक्षोपाय · अध्याय 6.5
अहो बत महच् चित्रं भवद्वाक्यार्थभावनात् ।
शान्तं जगज्जालम् इदम् अग्रस्थम् अपि नाथ मे ॥
पराम् अन्तः प्रयातो ऽस्मि स्वयम् आत्मनि निर्वृतिम् ।
दीर्घावग्रहसन्तप्तं वृष्ट्येव वसुधातलम् ॥
शाम्यामि शीतलाकारस् सुखं तिष्ठामि केवलम् ।
प्रसादम् उपयातो ऽस्मि सरो निर्वारणं यथा ॥
सम्यक् प्रसन्नम् अखिलं दिङ्मण्डलम् इदं मुने ।
यथाभूतं प्रपश्यामि निर्नीहारम् इवाधुना ॥
जातो ऽस्मि गतसन्देहश् शान्ताशामृगतृष्णिकः ।
रजोनीहारनिर्मुक्तो वृष्टजङ्गलशीतलः ॥
आत्मनैवान्तर् आनन्दं तं प्राप्तो ऽस्म्य् अन्तवर्जितम् ।
रसायनरसास्वादो यत्र नाथ तृणायते ॥
अद्यायं प्रकृतिस्थो ऽस्मि स्वस्थो ऽस्मि मुदितो ऽस्मि च ।
लोकारामो ऽस्मि रामो ऽस्मि नमो मह्यं नमो ऽस्तु ते ॥
ते संशयास् ताः कलनास् सर्वम् अस्तङ्गतं मम ।
रात्रिवेतालसञ्चारः प्रभात इव भास्वरे ॥
निर्मले हृदि विस्तीर्णे सपद्मे हिमशीतले ।
मतिर् निर्वृतिम् आयाता सारसी सरसीव मे ॥
कलङ्क आत्मनः कस्मात् कथं वेत्यादिसंशयः ।
नूनं निर्मूलतां यातो ममार्काग्रे यथा तमः ॥
सर्वम् आत्मैव सर्वत्र सर्वदा भाविताकृतिः ।
इदम् अन्यद् इदं चान्यद् इत्य् असत्कलनाः कुतः ॥
को ऽभूवं प्राग् अहं तादृक् तृष्णानिगडयन्त्रितः ।
अन्तरात्मानम् एवेति विहसामि विकासवान् ॥
आम् इदानीं स्मृतं सम्यङ् मयैष स किलास्म्य् अजः ।
यस् त्वद्वागमृतापूरस्नानेनायम् अहं स्थितः ॥
अहो नु विततां भूमिम् अधिरूढो ऽस्मि पावनीम् ।
इहस्थ एव यत्रार्को नः पातालम् इवास्थितः ॥
मह्यं सत्ताम् उपेताय व्यपेताय भवार्णवात् ।
नमो नित्यनमस्याय जयाम्य् आत्मात्मनात्मनि ॥
अनुभववशतो हृदब्जकोशे स्फुटम् अलितां समुपागतेन नाथ ।
तव वरवचसेह वीतशोकां चिरम् उदितां स्वदशाम् उपागतो ऽस्मि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0