भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.59

6.59.1

न कुर्याद् भोगसन्त्यागं न कुर्याद् भोगभावनम् ।
स्थातव्यं सुसमेनैव यथाप्राप्तानुवर्तिना ॥

6.59.2

अनात्मन्य् आत्मतां देहे मा भावय भवात्मनि ।
आत्मन्य् एवात्मतां सत्ये भावयाभावरूपिणि ॥

6.59.3

देहनाशे महाबाहो न किञ्चिद् अपि नश्यति ।
आत्मनाशे हि नाशस् स्यान् न चात्मा नश्यति क्वचित् ॥

6.59.4

अविनाशम् अनाद्यन्तम् आत्मानम् अजरं विदुः ।
नश्यत्य् आत्मेति दुर्बोधो मा तवास्त्व् अतिदुःखदः ॥

6.59.5

न कदाचन नश्यन्ति विदितात्मान उत्तमाः ।
नश्यन्त्य् अविदितात्मानो ह्य् अनात्मन्य् आत्ममानिनः ॥

6.59.6

एवं चेत् तज् जगन्नाथ मूढानाम् अपि मानद ।
देहनाशे समुत्पन्ने मन्ये नष्टं न किञ्चन ॥

6.59.7

एवम् एव महाबाहो न किञ्चिन् नश्यति क्वचित् ।
आत्मैवास्त्य् अविनाशात्मा किं तस्य क्व विनश्यति ॥

6.59.8

इदं नष्टम् इदं युक्तम् इति मोहाद् भ्रमाद् ऋते ।
अन्यत् तथा न पश्यामि वन्ध्यास्त्रीतनयं यथा ॥

6.59.9

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः ॥

6.59.10

अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥

6.59.11

अन्तवन्त इमे देहा नित्यस्योक्ताश् शरीरिणः ।
अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥

6.59.12

आत्मैवैको ऽस्ति न द्वित्वम् असतस् सम्भवः कुतः ।
अविनाशस् त्व् अनन्तो ऽसौ सतो नाशो न विद्यते ॥

6.59.13

द्वैतैकत्वपरित्यागे यच् छेषम् अवशिष्यते ।
शान्तं सदसतोर् मध्यं तद् अस्तीह परं पदम् ॥

6.59.14

तन् मृतो ऽस्मीति भगवन् किंरूढेह नृणां स्थितिः ।
कथं स्थितौ वा लोकानां तौ स्वर्गनरकौ प्रभो ॥

6.59.15

भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।
एतत्तन्मात्रजातात्मा जीवो देहेषु तिष्ठति ॥

6.59.16

स कृष्यते वासनया रज्ज्वेव पशुपोतकः ।
स तिष्ठति शरीरान्तः पञ्जरे विहगो यथा ॥

6.59.17

स कालवशतो देहाज् जर्जरत्वम् उपागतात् ।
वासनावशतो याति वृक्षपर्णाद् रसो यथा ॥

6.59.18

श्रोत्रं चक्षुस् स्पर्शनं च रसनं घ्राणम् एव च ।
गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥

6.59.19

वासनावत्त्वम् एवास्य देहो नेतरयुक्तिजः ।
क्षीयते वासनात्यागे क्षीणे भवति तत् पदम् ॥

6.59.20

वासनावान् पुरा पुष्टो भूत्वा भ्राम्यति योनिषु ।
जीवो भ्रमभराकारो मायापुरुषको यथा ॥

6.59.21

अक्षस्वभावान् अखिलाञ् शरीराद् वासनावशः ।
जीवो गृहीत्वा संयाति पुष्पाद् गन्धान् इवानिलः ॥

6.59.22

देहो निस्स्पन्दताम् एति जीवे कौन्तेय निर्गते ।
निस्स्पन्दावयवाभोगश् शान्तवात इव द्रुमः ॥

6.59.23

अचेष्टश् छेदभेदादिदोषैर् आयात्य् अदृश्यताम् ।
मृत इत्य् उच्यते लोके देहो विगतजीवितः ॥

6.59.24

स जीवः प्राणमूर्तिः खे यत्र यत्रावतिष्ठते ।
तत्र स्ववासनाभ्यासात् पश्यत्य् आकारम् आततम् ॥

6.59.25

अयं देहो हि जीवेन त्व् असन्न् एवावलोकितः ।
अस्य नाशे ऽन्यम् अप्य् एवं पश्यत्य् एवाशु स्वप्नवत् ॥

6.59.26

यथैव पश्यत्य् आकारांस् तेषां नाशांस् तथैव सः ।
आदिसर्गे भावनया किलैवं संविभावितः ॥

6.59.27

झगित्य् उद्भवकाले तु यद् यथा दृश्यते पुरः ।
आनिर्वाणं तद् एवास्या अविनाभाविसंविदः ॥

6.59.28

प्राक्तनं वासनाजालं पुरुषार्थेन जीयते ।
यत्नेनाद्यतनेनाशु यतनं ह्यस्तनं यथा ॥

6.59.29

य एव पुरुषार्थेन दृष्टो बलवता क्षणात् ।
पूर्वोत्तरनिमेषांशस् स एव जयति स्फुटम् ॥

6.59.30

अपि स्फुटति विध्यण्डे वाति वा प्रलयानिले ।
पौरुषं हि यथाशास्त्रम् अतस् त्याज्यं न धीमता ॥

6.59.31

नरकस्वर्गसर्गादि वासनावशतो ऽभितः ।
प्रपश्यति चिराभ्यस्तं जीवो जरढमोहधीः ॥

6.59.32

नरकस्वर्गसर्गादिसम्भ्रमेषु जगत्पते ।
किम् अस्य कारणं ब्रूहि जीवस्य जनितस्थितेः ॥

6.59.33

वासनात्मानम् एनं त्वं जीवं विद्धि शरीरकम् ।
स्ववासनात्मिकैवास्य सत्ता संसृतिकारणम् ॥

6.59.34

ध्रियते संसृतिस् तावद् यावत् स्फुरति वासना ।
स्वप्नोपमाना तेनेह श्रेयसे वासनाक्षयः ॥

6.59.35

चिराभ्यासवशात् प्रौढा संसारभ्रमकारिणी ।
किमुत्था देवदेवेश वासना क्षीयते कथम् ॥

6.59.36

मौर्ख्यमोहसमुच्छ्रायाद् अनात्मन्य् आत्मभावनात् ।
अज्ञानाद् आत्मनस् साधो सत्ताम् आयाति वासना ॥

6.59.37

भावितात्मासि कौन्तेय सत्यं विज्ञातवान् असि ।
अयं सो ऽहं जना एते ममेति त्यज वासनाः ॥

6.59.38

वासनाविलये जीवो विलीनो भवति स्वयम् ।
यो हि यत्सत्तयोच्छूनस् तन्नाशात् स विलीयते ॥

6.59.39

देहे विलयम् आयाते देशकालान्यताकृतेः ।
को ऽसौ भाजनताम् एति जन्मनो मरणस्य च ॥

6.59.40

स्वयं कल्पितसङ्कल्पम् आत्मरूपं यद् आबिलम् ।
तद् एव वासनाकारं जीवं विद्धि महामते ॥

6.59.41

अनायत्तम् असङ्कल्पम् आत्मरूपं यद् अव्ययम् ।
प्रबोधाद् वासनामुक्तं तं मोक्षं विद्धि भारत ॥

6.59.42

जीवन्न् एव महाबाहो तत्त्वं प्रेक्ष्य यथास्थितम् ।
वासनावागुरामुक्तो मुक्त इत्य् अभिधीयते ॥

6.59.43

यो न निर्वासनो नूनं सर्वधर्मपरो ऽपि सः ।
सर्वज्ञो ऽप्य् अभितो बद्धः पञ्जरस्थो यथा खगः ॥

6.59.44

दुर्दर्शनस्य गगने शिखिपिञ्छिकेव सूक्ष्मापि विस्फुरति यस्य न वासनान्तः ।
मुक्तस् स एव भवतीह हि वासनैव बन्धो ऽनघस्य ननु तत्क्षय एव मोक्षः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc