भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.58

6.58.1

भूय एव महाबाहो शृणु मे परमं वचः ।
यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥

6.58.2

मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ॥

6.58.3

ते तु नैकात्मनश् चान्ये क्वातो दुःखं क्व वा सुखम् ।
अनाद्यन्ते ऽनवयवे कुतः पूरणखण्डने ॥

6.58.4

संस्थिता स्पर्शमात्राख्या कलास्मिन् परमात्मनि ।
अनन्ते ऽसन्निवेशादौ हेम्नीव कटकादिता ॥

6.58.5

यं हि न व्यथयन्त्य् एते मात्रास्पर्शा भ्रमात्मकाः ।
समदुःखसुखो धीरस् सो ऽमृतत्वाय कल्पते ॥

6.58.6

सर्वत्वाद् आत्मनस् त्व् एते आभासास् संस्थिता इव ।
असद्रूपास् त्व् असद्रूपं कथं सोढुं न शक्यते ॥

6.58.7

मनाग् अपि न विद्येते सुखदुःखे असर्वगे ।
सर्वत्वाद् आत्मतत्त्वस्य सत्ता कथम् इवानयोः ॥

6.58.8

नासतो विद्यते भावो नाभावो विद्यते सतः ।
नास्त्य् एव सुखदुःखादि परमात्मास्ति सर्वगः ॥

6.58.9

सत्त्वासत्त्वमती त्यक्त्वैवैतयोर् जगदात्मनोः ।
त्यक्त्वा नकिञ्चिन् मध्यं च शेषे बद्धपदो भव ॥

6.58.10

न हृष्यति सुखेनात्मा दुःखैर् ग्लायति नार्जुन ।
दृषद्वच् चेतनात्मापि शरीरान्तर्गतो ऽपि सन् ॥

6.58.11

जडं चित्तादि दुःखस्य भाजनं देहतां गतम् ।
न चैतस्मिन् क्षते क्षीणे किञ्चिद् एवात्मनः क्षतम् ॥

6.58.12

जडं देहादि दुःखादेर् यद् इदं भोक्त्र् इति स्थितम् ।
तन् मायाभ्रमम् एवाङ्ग विद्ध्य् अबोधवशोत्थितम् ॥

6.58.13

न किञ्चिद् एव देहादि न च दुःखादि विद्यते ।
आत्मनो यत् पृथग्भूतं किं केनातो ऽनुभूयते ॥

6.58.14

यद् इदं कथयाम्य् अत्र तेनैषा ते विनश्यति ।
भ्रान्तिर् दुरवबोधोत्था सम्यग्बोधेन भारत ॥

6.58.15

यथा रज्ज्वाम् अहिभयं बोधान् नश्यत्य् अबोधजम् ।
तथा देहादि दुःखादि बोधान् नश्यत्य् अबोधजम् ॥

6.58.16

विष्वग् विश्वम् अजं ब्रह्म न नश्यति न जायते ।
इति सत्यं परं विद्धि बोधः परम एष सः ॥

6.58.17

ब्रह्मार्णवतरङ्गस् त्वं किञ्चिद् भूत्वा विलीयसे ।
ब्रह्मावर्ते स्फुरस्य् अद्य ब्रह्मैवासि निरामयम् ॥

6.58.18

जगत् कालः क्रिया देशस् त्वम् अहं सैनिका इति ।
ब्रह्मण्य् एवं परिस्पन्दो नात्र स्तस् सदसत्क्रमौ ॥

6.58.19

जहि मानं मदं शोकं भयम् ईर्ष्यां सुखासुखे ।
द्वैतम् एतद् असद्रूपम् एकस् सद्रूपवान् भव ॥

6.58.20

पुरुषाक्षौहिणीनां त्वं क्षयेणानुभवात्मना ।
ब्रह्मणा बृंहितं युद्धं ब्रह्म ब्रह्ममयं कुरु ॥

6.58.21

असंविदन् सुखं दुःखं लाभालाभौ जयाजयौ ।
युद्धब्रह्मैकतां गच्छ ब्रह्मादिस्तम्भ भारत ॥

6.58.22

लाभालाभसमो भूत्वा भूत्वा नूनं नकिञ्चन ।
जडो वात इव स्पन्दी प्रसृतं कार्यम् आचर ॥

6.58.23

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् करिष्यसि कौन्तेय तद् आत्मेति स्थिरो भव ॥

6.58.24

यन्मयो यो भवत्य् अन्तस् स तद् आप्नोत्य् असंशयम् ।
ब्रह्मसत्यम् अवाप्तुं त्वं ब्रह्मसत्यमयो भव ॥

6.58.25

अनपेक्ष्य फलं ब्रह्म भूत्वा ब्रह्मेति भावितम् ।
क्रियते केवलं कर्म ब्रह्मज्ञेन यथागतम् ॥

6.58.26

कर्मण्य् अकर्म यः पश्यत्य् अकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स चोक्तस् सर्वकर्मकृत् ॥

6.58.27

मा कर्मफलहेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि ।
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ॥

6.58.28

कर्मासक्तिम् अनाश्रित्य तथा नाश्रित्य मूढताम् ।
नैष्कर्म्यम् अप्य् अनाश्रित्य समस् तिष्ठ यथास्थितम् ॥

6.58.29

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्य् अभिप्रवृत्तो ऽपि नैव किञ्चित् करोति सः ॥

6.58.30

आसक्तिम् आहुः कर्तृत्वम् अकर्तुर् अपि तद् भवेत् ।
मौर्ख्ये स्थिते हि मनसि तस्मान् मौर्ख्यं परित्यजेत् ॥

6.58.31

परं तज्ज्ञत्वम् आश्रित्य निरासक्तेर् महात्मनः ।
सर्वकर्मरतस्यापि कर्तृतोदेति न क्वचित् ॥

6.58.32

अकर्तृत्वाद् अभोक्तृत्वम् अभोक्तृत्वात् समैकता ।
समैकत्वाद् अनन्तत्वं ततो ब्रह्मत्वम् आततम् ॥

6.58.33

नानाताम् अलम् उत्सृज्य परमात्मैकतां गतः ।
कुर्वन् कार्यम् अकार्यं च नैव कर्ता त्वम् अर्जुन ॥

6.58.34

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः ॥

6.58.35

समस् सोम्यस् स्थिरस् स्वस्थश् शान्तस् सर्वार्थनिस्स्पृहः ।
यस् तिष्ठति स सुव्यग्रो ऽप्य् अलम् अव्यग्रतां गतः ॥

6.58.36

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।
यथाप्राप्तानुवर्ती च भव भूषितभूतलः ॥

6.58.37

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारस् स उच्यते ॥

6.58.38

यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगम् असक्तस् स विशिष्यते ॥

6.58.39

आपूर्यमाणं त्व् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc