मोक्षोपाय · अध्याय 6.60
इति निर्वासनत्वेन जीवन्मुक्ततयात्मनि ।
अन्तश्शीतलताम् एत्य बन्धुदुःखम् अलं त्यज ॥
जरामरणनिश्शङ्क आकाशविशदाशयः ।
त्यक्तेष्टानिष्टसङ्कल्पो वीतरागो भवानघ ॥
प्रवाहापतितं कार्यम् इदं किञ्चिद् यथागतम् ।
कुरु कार्यम् अकार्पण्यं न किञ्चिद् इह नश्यति ॥
प्रवाहापतितं कर्म स्वम् एव क्रियते हि यत् ।
जीवन्मुक्तस्वभावो ऽसाव् अजीवन्मुक्ततान्यथा ॥
इदं कर्म त्यजामीदम् आश्रयामीत्य् अनिर्मलम् ।
मूढस्य मनसो रूपं ज्ञमनस् तु समस्थिति ॥
प्रवाहापतितं कार्यं कुर्वन्तश् शान्तचेतसः ।
जीवन्मुक्तास् सुषुप्तस्थास् स्फुरन्त्य् अर्धप्रबुद्धवत् ॥
स्थिरां संहृतिम् आयान्ति कूर्माङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यो हृदि ज्ञस्य स्वभावतः ॥
चिन्मात्रे वितते तन्तौ दृढे स्रग् इव संस्थितम् ।
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥
प्रसारिते प्रसरति त्व् अन्तर्धिं याति संवृते ।
विचित्ररचनाजालम् अनन्यच् चिद्वितानके ॥
अनन्यद् अप्य् अन्यद् इव स्वाङ्गरूपम् अनङ्गवत् ।
चित्रं वितानक इव स्थितं जगद् इदं चिति ॥
यथैवारचितं चित्रं स्थितं चित्रकृदीहिते ।
तथा जातम् अजातं च विश्वं संस्थितम् आत्मनि ॥
यथा स्फुरति कर्तव्यं चित्रं चित्रकृतश् चिति ।
विश्वात्मनि तथा विश्वं कालत्रयमयोदयम् ॥
अभित्ति त्रिजगच्चित्रं कुरुते चित्तचित्रकृत् ।
व्योम्नि व्योमात्मकम् अपि प्रस्फुटं वृत्तिवर्तिभिः ॥
चित्तचित्रकरेणादौ चित्रं चित्रं वितानितम् ।
पश्चाद् भित्तिः कृता व्योमरूपा चासाव् अहो भ्रमः ॥
अपूर्वैवातिमायेयं किल यत्र खकुड्ययोः ।
न मनाग् अपि भेदो ऽस्ति स्फुटम् अप्य् उपलब्धयोः ॥
इमा या उपलक्ष्यन्ते भित्तयश् चित्तचित्रजाः ।
व्योम्नश् शून्यतया विद्धि तास् तामरसलोचन ॥
क्षणेन चेतसि यथा भातो लोकक्षयोदयौ ।
खात्मा जगत् तथैवेदं सबाह्याभ्यन्तरं नभः ॥
चिरन्तनमनोराज्यमात्रे ऽस्मिन् किल सत्यता ।
कथम् आलोकिते ऽपि स्यात् सत्यं नास्त्य् एव विभ्रमे ॥
भ्रमेणालोकितस् सत्यम् आलोकेन विलीयते ।
दृश्यमानम् अपि क्षामं शरदीवाभ्रम् अम्बरे ॥
चित्तचित्रकृतश् चित्ते संस्थिताश् चित्रपुत्रिकाः ।
भित्त्यभावाद् अनाधारा बहिस् त्रिभुवनादिकाः ॥
नैतास् सन्ति न चासि त्वं किं केन परिरुध्यते ।
रोध्यरोधकसम्मोहं त्यक्त्वा खविमलो भव ॥
प्रवृत्तिर् एव का व्योम्नः प्रवृत्तिश् चैव खात्मिका ।
अतः कालक्रियाकुड्यकलादि विमलं नभः ॥
चित्तसंस्थं यथा चित्रं सद्रूपम् अपि खात्मकम् ।
व्योम्नश् शून्यतमं विद्धि तथेदम् अखिलं जगत् ॥
चित्तभित्तौ कृतं चित्रं यच् चिच्चित्रकरेण तत् ।
सर्वं शून्यतया व्योम्नो मनाग् अपि न भिद्यते ॥
यथा प्रकचतश् चित्ते जगन्निर्माणसङ्क्षयौ ।
क्षणेनैव तथैवेमौ बहिस्स्थाव् इति विद्धि हे ॥
आद्यक्षणमनोराज्ये नानाभुवननामनि ।
क्षणभाविनि मोहेन कल्पता परिकल्पिता ॥
असद् एव मनोराज्यं कर्तुं शक्तं यथा मनः ।
क्षणस्य कल्पीकरणे तथैव बलवन् मनः ॥
क्षणं कल्पीकरोत्य् एतत् तथाल्पं कुरुते बहु ।
असत् सत् कुरुते क्षिप्रम् इतीयं भ्रान्तिर् उत्थिता ॥
क्षणम् आदिमनोराज्यं प्रतिभातं स्वभावतः ।
यद् विचित्रात्म तद् इदं जगज्जालम् इति स्थितम् ॥
सर्गो निर्वाणनिष्ठत्वान् निमेषम् अयम् उत्थितः ।
प्रतिभामात्रतो ऽत्रैव कल्पिता वज्रसारता ॥
चित्तचित्रकृतश् चित्स्थं जगच्चित्रं कचत् स्थितम् ।
अकुड्यम् अप्य् अरङ्गाढ्यम् इदं स्फारम् इवाग्रतः ॥
अहो नु चित्रं निर्भित्ति चित्रम् उज्ज्वलम् उत्थितम् ।
सुरञ्जनं जगद् इति स्थितं दृष्टिविलोभनम् ॥
नानातमोमषीलेखं नानातेजोऽंशरञ्जनम् ।
नानाकलङ्कावयवं नानारागानुरञ्जितम् ॥
नानादृष्टिविलासाढ्यं नानानुभवलोचनम् ।
नानाभ्रकोग्ररचनं नानाकाराग्रपश्चिमम् ॥
व्योमनीलसरःफुल्लताराचन्द्रार्कपङ्कजम् ।
विचित्ररचनोद्युक्तमेघालीपत्त्रमञ्जरि ॥
स्वकोष्ठकाभिलिखितसुरासुरनृपुत्रिकम् ।
परमालोकमक्कोलधवलाकाशकुड्यकम् ॥
आकाश एव रचिता प्रतिभैकरङ्गा मुग्धा जगत्त्रयमनोहरपुत्रिकेयम् ।
चिन्मात्रवक्त्रपरिरञ्जितसर्वलोका लीलाकुला चपलचित्तकचित्रकर्त्रा ॥
हेमाचलाङ्गलतिका घनकेशपाशा चन्द्रार्कलोचनविचालनदृष्टलोका ।
धर्मार्थकामत्रिकयन्त्रितशास्त्रवस्त्रा पातालतालचरणोन्नतभूनितम्बा ॥
ब्रह्मेन्द्ररुद्रहरिबाहुचतुष्टयोग्रा सत्यानृतोन्नतकुचा ककुबङ्गयष्टिः ।
अब्ध्यन्त्रवेष्टितमहीतलपद्मपीठपत्त्रीकृताचलमहाभुवनोदरी च ॥
रात्र्यन्धकारचपलभ्रुरहस्स्मितोच्चैस् ताराकरालपुलका ग्रहदन्तपङ्क्तिः ।
चञ्चच्चतुर्दशविधाकुलभूतजातरोमा ध्वनत्प्रलयवारिदकम्बुपूगा ॥
जीवान्विता गगन एव कृता विचित्रा व्योमात्मिकाचिरविलक्षणचित्रकर्त्रा ।
चित्तेन चित्रपरिकर्मविदा त्रिलोकी नानाविलासवलिता वरपुत्रिकेति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0