मोक्षोपाय · अध्याय 6.57
य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
अनन्तस्यैकरूपस्य सतस् सूक्ष्मस्य खाद् अपि ।
आत्मनः परमेशस्य किं कथं केन हन्यते ॥
नार्जुनस् त्वं न हन्ता त्वम् अभिमानम् अलं त्यज ।
जरामरणनिर्मुक्तस् स्वयम् आत्मासि शाश्वतः ॥
यस्य नाहङ्कृतो भावो यस्य बुद्धिर् न लिप्यते ।
हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते ॥
यैव सञ्जायते संविद् अन्तस् सैवानुभूयते ।
अयं सो ऽहम् इदं तन् मे इत्य् अतस् संविदं त्यज ॥
अनयैव च युक्तो ऽस्मि नष्टो ऽस्मीति च भारत ।
अभितस् सुखदुःखाभ्याम् अवशः परिकृष्यसे ॥
स्वात्मांशैः क्रियमाणानि गुणैः कर्माणि भागशः ।
अहङ्कारविमूढात्मा कर्ताहम् इति मन्यते ॥
चक्षुः पश्यतु कर्णश् च शृणोतु त्वक् स्पृशत्व् इयम् ।
रसना च रसं यातु को ऽत्रैको ऽहम् इति स्थितः ॥
कलनाकर्मनिरते मनस्य् अपि महामते ।
न कश्चिद् अत्राहम् इति क्लेशभागी क एव ते ॥
बहुभिस् समवायेन यत् कृतं तत्र भारत ।
एको ऽभिमानदुःखेन हासायैव हि गृह्यते ॥
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मसिद्धये ॥
अहन्त्वविषचूर्णेन येषां कायो न भावितः ।
कुर्वन्तो ऽपि हरन्तो ऽपि त एते निर्विषूचिकाः ॥
न क्वचिद् राजते कायो ममत्वामेध्यदूषितः ।
प्राज्ञो ऽप्य् अतिबहुज्ञो ऽपि दुश्शील इव मानवः ॥
निर्ममो निरहङ्कारस् समदुःखसुखः क्षमी ।
यस् स कार्यम् अकार्यं वा कुर्वन्न् अपि न लिप्यते ॥
इदं च ते पाण्डुसुत स्वकर्म क्षात्रम् उत्तमम् ।
अतिक्रूरम् अपि श्रेयस् सुखायैवोदयाय च ॥
अपि कुत्सितम् अप्य् अन्त्यम् अप्य् अधर्ममयं कृशम् ।
श्रेयसे स्वं यथा कर्म न तथेहामृतासवः ॥
मूर्खस्यापि स्वकर्मैव श्रेयसे किम् उ सन्मतेः ।
मतिर् गलदहङ्कारा पतितापि न लिप्यते ॥
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
निस्सङ्गस् त्वं यथाप्राप्तकर्मासि चेन् न बध्यसे ॥
शान्तब्रह्मवपुर् भूत्वा कर्म ब्रह्ममयं कुरु ।
ब्रह्मार्पितसमाचारो ब्रह्मैव भवसि क्षणात् ॥
ईश्वरार्पितसर्वार्थ ईश्वरात्मा निरामयः ।
ईश्वरस् सर्वभूतात्मा भव भूषितभूतलः ॥
सन्न्यस्तसर्वसङ्कल्पस् समश् शान्तमना मुनिः ।
सन्न्यासयोगयुक्तात्मा कुर्वन् मुक्तमतिर् भव ॥
सङ्गत्यागस्य भगवंस् तथा ब्रह्मार्पणस्य च ।
ईश्वरार्पणरूपस्य सन्न्यासस्य च सर्वग ॥
तथा ज्ञानस्य योगस्य विभागः कीदृशः प्रभो ।
क्रमेण कथयैतन् मे महामोहनिवृत्तिदम् ॥
सर्वसङ्कल्पसंशान्ताव् एकान्तघनवेदनम् ।
नकिञ्चिद्भावनाकारं यत् तद् ब्रह्म परं विदुः ॥
तदुद्योगं विदुर् ज्ञानं योगं च कृतबुद्धयः ।
ब्रह्म सर्वं जगद् अहं चेति ब्रह्मार्पणं विदुः ॥
अन्तश्शून्यं बहिश्शून्यं पाषाणहृदयोपमम् ।
शान्तम् आकाशकोशाच्छं न शून्यं न दृषत् परम् ॥
तत ईषद् यद् उत्थानम् ईषद् अन्यतयोदये ।
स जगत्प्रतिभासो ऽयम् आकाश इव शून्यता ॥
भागो ऽहम् इति को ऽप्य् एष प्रत्येकम् उदितश् चितेः ।
कोटिकोट्यंशकलितः क इवैनं प्रति ग्रहः ॥
विकल्पभेदे स्फुरिते संवित्सारमयात्मनि ।
वैचित्र्येणाविचित्रे ऽपि किम् एकत्रापि वो ग्रहः ॥
अपृथग्भूत एवैष पृथग्भूत इव स्थितः ।
पृथग् अब्धिर् अपर्यन्तो नाहम् इत्य् अवगच्छति ॥
यथेहाहं तथेहासि घटादीहास्ति मर्कटः ।
खम् इहैवं तथाम्ब्वादि किम् अहन्तां प्रति ग्रहः ॥
इति ज्ञानाद् विभागस्य यो द्वैतस्य परिक्षयः ।
त्यागस् सङ्कल्पजालानाम् असंसङ्गस् स कथ्यते ॥
समस्तकल्पनाजालस्येश्वरैकत्वभावनम् ।
गलितद्वैतनिर्भासम् एतद् एवेश्वरार्पणम् ॥
अभेदवशतो भेदो नाम्नैवैषां चिदात्मनि ।
बोधात्माखिलशब्दार्थं जगद् एकं न संशयः ॥
अहम् आशा जगद् अहं खम् अहं कर्म चाप्य् अहम् ।
कालो ऽहम् अहम् अद्वैतं द्वैतं चाहम् अहं जगत् ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
माम् एवैष्यसि मत्वैवम् आत्मानं मत्परायणः ॥
द्वे रूपे तव देवेश परं चापरम् एव च ।
कीदृशं तत् कदा रूपं तिष्ठाम्य् आश्रित्य सिद्धये ॥
सामान्यं परमं चैव द्वे रूपे विद्धि मे ऽनघ ।
पाण्यादियुक्तं सामान्यं शङ्खचक्रगदाधरम् ॥
परं रूपम् अनाद्यन्तं यन् ममैकम् अनामयम् ।
ब्रह्मात्मपरमात्मादिशब्दैर् एतद् उदीर्यते ॥
यावद् अप्रतिबुद्धस् त्वम् अनात्मज्ञतया स्थितः ।
तावच् चतुर्भुजाकारदेवपूजापरो भव ॥
तत्क्रमात् सम्प्रबुद्धस् त्वं ततो ज्ञास्यसि तत् परम् ।
मम रूपम् अनाद्यन्तं येन भूयो न जायसे ॥
यदि वा वेद्यविज्ञातो भवांस् तद् अरिमर्दन ।
तं ममात्मानम् आत्मानम् आत्मनश् चाशु संश्रय ॥
इदं चाहम् इदं चाहम् इति यत् प्रवदाम्य् अहम् ।
तद् एतद् आत्मतत्त्वं तन् मुहुर् व्यपदिशाम्य् अलम् ॥
मन्ये साधो प्रबुद्धो ऽसि पदे विश्रान्तवान् असि ।
सङ्कल्पैर् अवमुक्तो ऽसि सत्यैकात्ममयो भव ॥
सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि ।
पश्य त्वं योगयुक्तात्मा सर्वत्र समदर्शनः ॥
सर्वभूतस्थम् आत्मानं यो भजत्य् ऐक्यम् आस्थितः ।
सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥
एकत्वं सर्वशब्दार्थ एकशब्दार्थ आत्मता ।
आत्मापि च न सन् नासद् गतो यस्याशु तत् स सत् ॥
त्रैलोक्यचेतसाम् अन्तर् आलोको यः प्रकाशजः ।
अनुभूतिम् उपारूढस् सो ऽयम् आत्मेति निश्चयः ॥
त्रैलोक्यपयसाम् अन्तर् यो रसानुभवस् स्थितः ।
गव्यानाम् अब्धिजानां च सो ऽयम् आत्मास्मि भारत ॥
अन्तस् सर्वशरीराणां यस् सूक्ष्मो ऽनुभवस् स च ।
मुक्तो ऽनुभवनीयेन सो ऽयम् आत्मास्मि सर्वगः ॥
समग्रपयसाम् अन्तर् यथा घृतम् अवस्थितम् ।
तथा सर्वपदार्थानां देहानां च स्थितः परः ॥
सर्वाम्भोनिधिरत्नानां सबाह्याभ्यन्तरे यथा ।
तेजस् तथास्मि देहानाम् असंस्थित इव स्थितः ॥
यथा कुम्भसहस्राणां सबाह्याभ्यन्तरे नभः ।
जगत्त्रयशरीराणां तथात्माहम् अवस्थितः ॥
मुक्ताफलशतौघानां तन्तुः प्रोतवपुर् यथा ।
तथाहं देहलक्षाणां स्थित आत्मास्म्य् अलक्षितः ॥
ब्रह्मादौ तृणपर्यन्ते पदार्थनिकुरुम्बके ।
सत्तासामान्यम् एतद् यत् तम् आत्मानम् अजं विदुः ॥
तद् ईषत्स्फुरिताकारं ब्रह्म ब्रह्मैव तिष्ठति ।
अहन्तादि जगत्तादि क्रमेण भ्रमकारिणा ॥
आत्मैवेदं जगद्रूपं हन्यते हन्ति चात्र किम् ।
शुभाशुभैर् जगद्दुःखैः किम् अस्यार्जुन लिप्यते ॥
प्रतिबिम्बेष्व् इवादर्शं समं साक्षिवद् आस्थितम् ।
नश्यत्सु न विनश्यन्तं यः पश्यति स पश्यति ॥
इदं चाहम् इदं चाहम् इतीदं कथ्यते मया ।
एवम् आत्मासि सर्वात्मा माम् एवं विद्धि पाण्डव ॥
इमास् सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
आत्मतन्तोश् चितो ऽन्तस्स्थाः पयस्स्पन्दा इवाम्बुधौ ॥
यथोपलत्वं शैलानां दारुत्वं च महीरुहाम् ।
तरङ्गाणां जलत्वं च पदार्थानां तथात्मता ॥
सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि ।
यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥
नानाकारविकारेषु तरङ्गेषु यथा पयः ।
कटकादिषु वा हेम भूतेष्व् आत्मा तथार्जुन ॥
नानातरङ्गवृन्दानि यथा लोलानि वारिणि ।
कटकादीनि वा हेम्नि तथा भूतानि चात्मनि ॥
पदार्थजातं भूतादि बृहद् ब्रह्म च भारत ।
एकम् एवाखिलं विद्धि पृथक्स्थं न मनाग् अपि ॥
किं तद्भावविकाराणां गम्यम् अस्ति जगत्त्रये ।
क्व ते वापि जगत् किं वा किं मुधा परिमुह्यसि ॥
इति श्रुत्वावगम्यान्तर् भावयित्वा सुनिश्चितम् ।
जीवन्मुक्ताश् चरन्तीह सन्तस् समरसाशयाः ॥
निर्मानमोहा जीतसङ्गदोषा अध्यात्मविद्या विनिवृत्तकामाः ।
द्वन्द्वैर् विमुक्तास् सुखदुःखसञ्ज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0