भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.56

6.56.1

यो जीवस्योदितस् स्वप्नो नानाकलनकोमलः ।
तम् इमं विद्धि संसारं न सत्यं नाप्य् असन्मयम् ॥

6.56.2

न पुंस इव जीवस्य स्वप्नस् सम्भवति क्वचित् ।
तेनैते जागता भावा जाग्रत्स्वप्नैकतात्र हि ॥

6.56.3

जीवस्वप्नम् इदं दीर्घं क्षिप्रं च प्रतिभासते ।
असत्यम् अप्य् अवस्तुत्वाद् विद्धि वेद्यविदां वर ॥

6.56.4

स्वप्नात् स्वप्नान्तरम् इव गच्छन्तो जीवजीवकाः ।
असत्यम् एव पश्यन्ति घनसत्यतया चिरम् ॥

6.56.5

अजडा जडतां याता जाड्ये चाजाड्यतोदिता ।
असत्ये सत्यता जाता जीवानुभवमोहतः ॥

6.56.6

स्थाणोर् अप्य् अन्तर् अखिलं पश्यन्तस् त्रिजगद्भ्रमम् ।
भ्रमन्ति स्वप्नसम्भ्रान्ता इह जीवाहिराशयः ॥

6.56.7

सर्वगत्वाद् अनन्तस्य स्वस्य जीवस्य वै चितेः ।
यद् भावयन्ति चेतन्ति तद् एवाश्व् एति सत्यताम् ॥

6.56.8

पुण्डरीकाक्षगदिताम् असंसङ्गगतिं शुभाम् ।
याम् आलिङ्ग्य महाबाहो जीवन्मुक्तो महामुनिः ॥

6.56.9

पाण्डोः पुत्रो ऽर्जुनो नाम सुखं जीवितम् आत्मनः ।
क्षपयिष्यति निर्दुःखं तथा क्षपय जीवितम् ॥

6.56.10

भविष्यति कदा ब्रह्मन्न् अर्जुनः पाण्डुनन्दनः ।
कीदृशीं च हरिस् तस्य कथयिष्यत्य् असक्तताम् ॥

6.56.11

अस्ति सन्मात्रम् आत्मेति परिकल्पितनामकम् ।
स्थितम् आत्मन्य् अनाद्यन्ते नभसीव महानभः ॥

6.56.12

दृश्यते विमले तस्मिन्न् अयं संसारविभ्रमः ।
कटकादि यथा हेम्नि तरङ्गादि यथाम्भसि ॥

6.56.13

चतुर्दशविधा भूतजातयः प्रस्फुरन्त्य् अलम् ।
तस्मिन् संसारजाले ऽस्मिञ् जाले शकुनयो यथा ॥

6.56.14

तत्र ते यमचन्द्रार्कशक्राद्यास् संसृतिक्रमाः ।
भूतपञ्चकसंस्थाना लोकपालत्वम् आगताः ॥

6.56.15

इदं पुण्यम् उपादेयं हेयं पापम् इदं त्व् इति ।
तैस् स्वसङ्कल्पघटिता वेदेन स्थापिता स्थितिः ॥

6.56.16

एवं प्रौढिं प्रयातायां वहन्त्यां च चिरं चिरम् ।
अच्छिन्नायां विनाशिन्यां नद्याम् इव जगत्स्थितौ ॥

6.56.17

वैवस्वतो यमो नाम लोकपालः प्रतापवान् ।
मरणाङ्कितसत्ताकप्रजासंयमने स्थितः ॥

6.56.18

तस्याद्य यावद् अनघ प्रवाहापतिते निजे ।
कर्मण्य् अचलसङ्काशं स्थिरं चित्तम् अवस्थितम् ॥

6.56.19

भगवान् स यमः किञ्चिद् व्रतं प्रतिचतुर्युगम् ।
तथापि कुरुते भूतदलनोत्थाघशङ्कया ॥

6.56.20

कदाचिद् अष्टौ वर्षाणि दश द्वादश वापि च ।
कदाचित् पञ्च सप्तापि कदाचित् षोडशापि वा ॥

6.56.21

उदासीनवद् आसीने तस्मिन् नियमम् आस्थिते ।
न हिनस्ति जगज्जाले मृत्युर् भूतानि कानिचित् ॥

6.56.22

तेन नीरन्ध्रभूतौघं निस्सञ्चारं महीतलम् ।
भवति प्रावृषि स्वेदी कुञ्जको मषकैर् इव ॥

6.56.23

अथ तानि विचित्राणि भूतानि बहुयुक्तिभिः ।
क्षपयन्ति सुरा राम भुवो भारनिवृत्तये ॥

6.56.24

एवं यमसहस्राणि व्यवहारशतानि च ।
समतीतान्य् अनन्तानि भूतानि च जगन्ति च ॥

6.56.25

वैवस्वतो ऽद्य तु यमो य एव पितृनायकः ।
अनेन त्व् अधुना साधो परिक्षीणेषु केषुचित् ॥

6.56.26

युगेष्व् अघविघाताय वर्षाणि द्वादशात्मना ।
व्रतचर्येह कर्तव्या दूरास्तक्रूरकर्मणा ॥

6.56.27

तेनेयम् उर्वी नीरन्ध्रा भूतैर् मर्तैर् अमृत्युभिः ।
दीना प्रघनगुल्मेव भारभूतैर् भविष्यति ॥

6.56.28

भूर् भारपरिभूताङ्गी हरिं शरणम् एष्यति ।
कान्ता दस्युपराभूता दीना पतिम् इव प्रियम् ॥

6.56.29

हरिर् देहद्वयेनाथ महीम् अवतरिष्यति ।
देवांशैर् अखिलैस् सार्धं नरनायकतां गतैः ॥

6.56.30

वसुदेवसुतस् त्व् एको वासुदेव इति श्रुतः ।
देहो भविष्यति हरेर् द्वितीयः पाण्डवो ऽर्जुनः ॥

6.56.31

युधिष्ठिर इति ख्यातो धर्मपुत्रो भविष्यति ।
अम्भोधिमेखलाभूपः पाण्डोः पुत्रस् स धर्मवित् ॥

6.56.32

दुर्योधन इति ख्यातस् तस्य भ्राता पितृव्यजः ।
भविष्यति दृढद्वन्द्वो भीमो बभ्रुर् अहेर् इव ॥

6.56.33

अन्योऽन्यं हरतोर् उर्वीं तयोस् सङ्ग्रामलालसाः ।
अष्टादशाक्षौहिण्यो हि घटिष्यन्त्य् अत्र भीषणाः ॥

6.56.34

तत्क्षयेण विभारत्वं भुवो विष्णुः करिष्यति ।
राघवार्जुनदेहेन बृहद्गाण्डीवधन्वना ॥

6.56.35

विष्णोर् अर्जुननामासौ प्राकृतं भावम् आस्थितः ।
हर्षामर्षान्वितो देहो नरधर्मा भविष्यति ॥

6.56.36

सेनाद्वयगतान् दृष्ट्वा स्वजनान् मरणोन्मुखान् ।
विषादम् एष्यत्य् उद्योगं युद्धाय न करिष्यति ॥

6.56.37

तम् अर्जुनाभिधं देहं प्राप्तकार्यैकसिद्धये ।
हरिर् बुद्धेन देहेन बोधयिष्यति राघव ॥

6.56.38

त्वं मानुषेणोपहतान्तरात्मा विषादमोहाभिभवाद् विसञ्ज्ञः ।
नष्टस् स्वम् उत्सृज्य परं प्रकाशं तदात्मतत्त्वं ननु राजसिंह ॥

6.56.39

अनन्तम् अव्यक्तम् अनादिमध्यम् आत्मानम् आलोकय संविदात्मन् ।
संविद्वपुस् स्फारम् अलग्नदोषम् अजो ऽसि नित्यो ऽसि निरामयो ऽसि ॥

6.56.40

न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः ।
अजो नित्यश् शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc