भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.55

6.55.1

नवाद् उद्भवतः पूर्वं सम्पन्नाश् चक्षुरादयः ।
यथा कमलजस्यैतत् सर्वम् एव त्वया श्रुतम् ॥

6.55.2

ब्रह्मपुर्यष्टकस्यादाव् अक्षसंविद् यथोदिता ।
पुर्यष्टकस्य सर्वस्य तथैवोदेति सर्वदा ॥

6.55.3

विद्धि पुर्यष्टकं जीवं स गर्भस्थेन्द्रियोदयः ।
यद् यथा भावयत्य् आशु तत् तथा परिपश्यति ॥

6.55.4

इन्द्रियाणीन्द्रियार्थाख्यं विद्धि संवेदनं स्वकम् ।
सम्पन्नं च यथा तत् ते प्रोक्तम् आद्यमनस्स्थितौ ॥

6.55.5

शुद्धा संवित् संविदन्ती संवेदनम् अनिन्दितम् ।
अतो ऽहंवेदनाद् अन्तर् जीवं पुर्यष्टकं त्व् इता ॥

6.55.6

न त्व् एकत्वाद् अनन्तत्वाद् अवेद्यत्वाद् अनामया ।
अनन्यत्वाद् अनेकत्वाद् अशून्यत्वात् परा स्थितिः ॥

6.55.7

चेत्यादि बुध्यते किञ्चिन् न मनस्तां च गच्छति ।
न च जीवत्वम् आयाति न च पुर्यष्टकात्मिका ॥

6.55.8

नाविद्यादिविलासो ऽस्ति सो ऽस्ति नास्तीव यस् सदा ।
परमात्मेति कथितो मनष्षष्ठेन्द्रियातिगः ॥

6.55.9

तस्मात् सम्पद्यते जीवश् चिन्मूर्तिर् मननात्मकः ।
भ्रमः केवलम् इत्य् आद्य उपदेशाय गीयते ॥

6.55.10

यतः कुतश्चित् सम्पन्ने त्व् अविद्यामय आमये ।
उपदेश्योपदेशेन प्रविलीने विचारणात् ॥

6.55.11

प्रशान्तसकलाचारं ज्ञानं तद् अवशिष्यते ।
यत्राकाशम् अपि स्थूलम् अणाव् इव सुराचलः ॥

6.55.12

यत्रोद्यदाचारम् अपि सद् अप्य् असद् अवस्थितम् ।
जगज् ज्ञविषयं पङ्काद् इव तिष्ठति निर्मितम् ॥

6.55.13

असन्मयम् अविद्याया रूपम् एतावद् एव हि ।
यद् वीक्षिता सती नूनं नश्यत्य् एव न दृश्यते ॥

6.55.14

आलोकितं नाम कथम् अवस्तु किल लभ्यते ।
प्रयत्नेनापि सम्प्राप्तं मृगतृष्णाम्बु केन वा ॥

6.55.15

असद् एव सदैवासद् अज्ञानाद् अस्य सत्यता ।
ज्ञानाद् यथास्थितं वस्तु दृश्यते नश्यति भ्रमः ॥

6.55.16

अविद्याया विचाराय जीवपुर्यष्टकादिका ।
अप्य् अत्यन्तम् असत्यायाः कल्पना कल्पितात्मनि ॥

6.55.17

तस्मात् तदुपदेशाय सेयं जीवादिकल्पना ।
कृता शास्त्रैः प्रबोधाय तां त्वम् एकमनाश् शृणु ॥

6.55.18

जीवत्वम् इव सम्प्राप्ता पुर्यष्टकपदे स्थिता ।
कलाकलङ्करहिता चितिर् आचेतनोन्मुखी ॥

6.55.19

यद् यथा भावयत्य् आशु तत् तथानुभवत्य् अलम् ।
सत्यं भवत्व् असत्यं वा बालेव निशि यक्षकम् ॥

6.55.20

पञ्चतन्मात्रकलनास् सा भावयति यत्र याः ।
तत्रात्मनि तथारन्ध्रास् ताः पश्यति तथोदिताः ॥

6.55.21

ताभ्य एव समुत्पन्नं बहिस्स्थं भूतपञ्चकम् ।
पश्यत्य् अनन्यद् अन्याभं शाखाशतम् इवाङ्कुरः ॥

6.55.22

इदम् अन्तर् इदं बाह्यम् इति निश्चयवांस् ततः ।
जीवो यथा यद् आदत्ते तत् तथा द्रढयत्य् अलम् ॥

6.55.23

रश्मिजालम् इवेन्दोर् यद् आत्मनः प्रतिभासनम् ।
बाह्यस्पर्शतया तेन तद् एवाशूररीकृतम् ॥

6.55.24

मरिचस्येव यत् तैक्ष्ण्यं शून्यत्वम् इव खस्य यत् ।
आत्मनो वेदनं तेन तद् एवान्यद् इवाश्रितम् ॥

6.55.25

अत्रैव निश्चयं बुद्ध्वा नियमस् सुदृढीकृतः ।
अनेनेत्थम् अनेनेत्थं भाव्यम् इत्य् अविखण्डितम् ॥

6.55.26

स्वभावेतरनामासौ स्वसङ्कल्पनियामकः ।
क्वचित् कदाचिद् भवति स्वभावेनैव नान्यथा ॥

6.55.27

आत्मनैवेदम् अखिलं सम्पन्नं द्वैतम् अद्वयम् ।
षण्डो मधुरसेनेव मृदेव च महाघटः ॥

6.55.28

सन्निवेशविकारादि देशकालादिसम्भवात् ।
सम्भवत्य् अत्र न त्व् ईशे देशकालाद्यसम्भवात् ॥

6.55.29

इतः पुष्पम् इतः पत्त्रम् अहम् इत्य् उदितो यथा ।
षण्डे स्वात्मनि वासन्तो रसो ऽद्वित्वे द्वितां हरन् ॥

6.55.30

इतः पटम् इतः कुड्यम् अहम् इत्य् उदितस् तथा ।
सर्गात्मन्य् आत्मनि ब्रह्म निर्द्वन्द्वे द्वित्वम् आहरत् ॥

6.55.31

अद्याङ्कुरो ऽहम् अद्यार्करुग् अहं त्व् अद्य वारिदः ।
यथेति तिष्ठत्य् अब्भागस् तथात्मा सदसद्वपुः ॥

6.55.32

इति भाव्यम् अनेनेत्थम् इति सर्वेश्वरेरितम् ।
क्रमं खण्डयितुं लोके कस्य नामास्ति शक्तता ॥

6.55.33

आदर्शे स्वच्छ आकारो नैव स्वः प्रतिबिम्बति ।
व्यतिरेकासम्भवतः कचत्य् एव तु केवलम् ॥

6.55.34

ब्रह्मणि त्व् आत्मनात्मैव स्थितः कचति बिम्बति ।
द्वैतीभवत्य् अदेहो ऽपि चिन्मयत्वात् स्वभावतः ॥

6.55.35

यद् यथैवात्मकचनं चेतितं कचतात्मना ।
असत्यम् अपि तन् नेह व्यभिचारि कदाचन ॥

6.55.36

हेमत्वकटकत्वे द्वे सत्यासत्यस्वरूपिणी ।
हेम्नि भाण्डमतौ यद्वच् चित्त्वाचित्त्वे तथात्मनि ॥

6.55.37

सर्वगत्वाच् चितेश् चित्त्वं नित्यं मनसि विद्यते ।
हेमत्वं कटकस्येव जडता च स्थितान्यदा ॥

6.55.38

चित्त्वजाड्यात्मकं चित्तं दृढं भावयति स्वयम् ।
यदा यथैव यद्भावं तदा भवति तत् तथा ॥

6.55.39

काले काले चिता जीवस् त्व् अन्यो ऽन्यो भवति स्वयम् ।
भाविताकारवान् अन्तर् वासनाकणिकोदयात् ॥

6.55.40

स्वप्ने दृष्टो यथा ग्रामो याति सत्यात्मतां क्षणम् ।
देहाद् देहं तथा याति जीवो ऽयं प्रतिभात्मकम् ॥

6.55.41

प्रतिभासो यथा स्वप्ने नरः कुड्यं पटं भवेत् ।
भवत्य् असत्यम् एवैवं देहाद् देहान्तरं स नः ॥

6.55.42

असत्यम् एव म्रियते त्व् असत्यं जायते पुनः ।
जीवस् स्वप्रतिभासेन स्वप्नवत् स्वान्यरूपवत् ॥

6.55.43

कालेनैतावता रूपम् इदं त्याज्यं मयेत्य् असौ ।
प्राकृतं निश्चयं रूढं भवत्य् अनुभवत् स्वतः ॥

6.55.44

वस्तु दृष्टम् अदृष्टं च स्वप्ने समनुभूयते ।
जीवस्वप्नं जगद्रूपं विद्धि वेद्यविदां वर ॥

6.55.45

अजाग्रद्द्रष्टृदृश्यो यस् सो ऽभिधानादिना विना ।
न स्वप्नो भिद्यते स्वस्माद् अच्छात् संवित्तिमात्रकात् ॥

6.55.46

अन्यपूर्वाभिधबृहत्स्वप्नं पश्यति ना यथा ।
अप्राग्दृष्टं तथैषा स्वं चेतनं चित् प्रपश्यति ॥

6.55.47

प्राक्कृता वासनाद्याशु पौरुषेणैव जीयते ।
ह्यःकुकर्माद्य यत्नेन प्रयाति हि सुकर्मताम् ॥

6.55.48

मोक्षाद् ऋते न शाम्यन्ति जीवानां चक्षुरादयः ।
उन्मज्जन्ति निमज्जन्ति केवलं देशकालतः ॥

6.55.49

चित्त्वस्य कलनात् तस्य देहो ऽग्र इव तिष्ठति ।
पञ्चात्मा भावितो ऽसत्यो महायक्षश् शिशोर् इव ॥

6.55.50

मनो बुद्धिर् अहङ्कारस् तथा तन्मात्रपञ्चकम् ।
इति पुर्यष्टकं प्रोक्तं देहो ऽसाव् आतिवाहिकः ॥

6.55.51

अमूर्त एव चित्तात्मा खत्वम् अस्यातिपीनता ।
वाततास्य महागुल्फो देहतास्य सुमेरुता ॥

6.55.52

द्विरवस्थः क्रमेणैष निरवस्थस् तु मुक्तिभाक् ।
सुषुप्ततैकावस्थास्य जडा क्रोडीकृतोदया ॥

6.55.53

स्वप्नतास्येतरावस्था देहप्रत्ययशालिनी ।
आमोक्षं भ्रमतीहायम् इति स्थावरजङ्गमैः ॥

6.55.54

कदाचिद् धि सुषुप्तस्थः कदाचित् स्वप्नसंस्थितः ।
आतिवाहिकदेहो ऽयं सर्वस्यैवावतिष्ठते ॥

6.55.55

यदा सुषुप्तभावस्थो भाविदुःखप्रबोधनः ।
तदाकाशोपलसमस् तिष्ठत्य् अनुदिताकृतिः ॥

6.55.56

स्थावराद्यास्व् अवस्थासु कल्पवृक्षदशासु च ।
भवत्य् एष सुषुप्तस्थो घनमोहश् शिलाघनः ॥

6.55.57

सुषुप्ततास्य जडता स्वप्नो ऽस्येयं तु संसृतिः ।
यः प्रबोधो ऽस्य सा मुक्तिस् तज् जाग्रत् सा च तुर्यता ॥

6.55.58

जीवप्रबोधो मुक्तिर् हि सा चेह द्विविधोच्यते ।
एका जीवन्मुक्ततेति द्वितीयादेहमुक्तता ॥

6.55.59

जीवन्मुक्तिर् हि तुर्यत्वं तुर्यातीतं परं ततः ।
मुक्तिर् जीवप्रबोधो हि स च बुद्धिप्रयत्नतः ॥

6.55.60

ज्ञानप्रमाणो जीवो ऽन्तर् यज् जानाति हि तन्मयः ।
जानातु ज्ञप्तिम् एवातो भवत्य् आशु स तन्मयः ॥

6.55.61

पश्यतीमम् अयं जीवस् सुदीर्घं स्वप्नविभ्रमम् ।
मिथ्योदितं स्वहृदये स्वच्छ एव शिलीकृते ॥

6.55.62

जीवाणोर् अन्तर् अस्त्य् अस्य न किञ्चिच् चित्कलां विना ।
ताम् एवान्यतया पश्यन् मुधैव परिशोचति ॥

6.55.63

जीवाणोर् अन्तर् अस्त्य् अस्य न किञ्चित् परमाद् ऋते ।
यत्र तत्र जगद् दृष्टम् अहो मायाविजृम्भितम् ॥

6.55.64

स्थाल्यन्तः क्वथदम्बूनां यथान्नानां भ्रमोदयः ।
जीवाणूनां तथा स्वान्तर् मिथ्या संसरणोदयः ॥

6.55.65

बन्धो ऽस्य वासनावत्त्वं मोक्षस् स्याद् वासनाक्षयः ।
वासनातो ऽस्य सौषुप्ती स्वाप्नी च स्फुरति स्थितिः ॥

6.55.66

घनवासनमोहो ऽयं सुषुप्तात्मा जडस् स्मृतः ।
तदन्तर्भाविना स्वप्नेनावश्यम्भाविनान्वितः ॥

6.55.67

वासनावेशनिद्रालुर् जीवः पश्यति विभ्रमम् ।
यदास्य वासनानिद्रा क्षीयते बुध्यते तदा ॥

6.55.68

वासनोक्ता दृश्यरतिर् दृश्यत्वं च न विद्यते ।
हेम्नीव कटकादित्वं सर्वात्मन्य् आत्मना क्वचित् ॥

6.55.69

अबोधाद् एतद् अभवद् विलीनं चेत् प्रबोधतः ।
तद् वास्यवासनायास् तु क्षयाद् उदय एव वः ॥

6.55.70

घनं स्ववासनामोहं क्षपयित्वा सुषुप्तगः ।
तनुवासनताम् एत्य स्वप्नं पश्यति संसृतिम् ॥

6.55.71

घनवासनमोहो ऽयं जीवस् स्थावरतादिभाक् ।
मध्यस्थवासनस् तिर्यक् पुरुषस् तनुवासनः ॥

6.55.72

यदान्तर् जीवितेनात्ता बहिर् जीवा घटादयः ।
जीवैक्याद् उभयोस् सत्ता ग्राह्यग्राहकयोस् ततः ॥

6.55.73

आत्मनात्मा समालीढो बहिर् अन्तर् यदा चिता ।
तदा ग्राह्यग्रहणधीर् मृगतृष्णेव सोदया ॥

6.55.74

नेह सन्त्यज्यते किञ्चिन् नेह किञ्चन गृह्यते ।
बाह्यान्तरकलाकारश् चिदात्मैकः प्रकाशते ॥

6.55.75

त्रिजगच् चिच्चमत्कारस् त्व् अलं भेदविकल्पनैः ।
चेतितास् स्मश् चिति चिता बाह्याद्य् अन्यन् न विद्महे ॥

6.55.76

अब्धेर् यथामलम् अपास्तसमस्तभेदं स्वाद्व् अच्छम् एव सकलं द्रवम् एकशुद्धम् ।
सर्वं तथेदम् अपहस्तितभेदजातम् आद्यं परं पदम् अनामयम् एव बुद्धम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc