मोक्षोपाय · अध्याय 6.54
ज्ञातं ज्ञातव्यम् अखिलं दृष्टं द्रष्टव्यम् अक्षतम् ।
परेण परिपूर्णास् स्मो ब्रह्मञ् ज्ञानामृतेन ते ॥
पूर्णात्मकम् इदं पूर्णं पूर्णात् पूर्णं प्रपूर्यते ।
पूर्णेन पूरितं पूर्णं स्थिता पूर्णैव पूर्णता ॥
लीलयेदं तु पृच्छामि भूयो बोधाभिवृद्धये ।
बालस्येव पिता ब्रह्मन् न रोषं कर्तुम् अर्हसि ॥
श्रोत्रं चक्षुस् स्पर्शनं च रसनं घ्राणम् एव च ।
विद्यमानम् अपि ब्रह्मन् दृश्यमानम् अपि स्फुटम् ॥
कथं मृतस्यैव जन्तोर् विषयं स्वं न पश्यति ।
जीवतश् च कथं सर्वं विषयं स्वं प्रपश्यति ॥
कथं घटादि बाह्यस्थम् इन्द्रियाणि जडान्य् अपि ।
शरीरे ऽनुभवन्त्य् अन्तः पुनर् नानुभवन्त्य् अपि ॥
अयश्शलाकोपमयोर् घटादीन्द्रिययोः किल ।
अश्लिष्टयोर् नीरसयोः कथं सत्तोदिता मिथः ॥
जानन्न् अपि यद् एतत् त्वां विशेषाशङ्कया पुनः ।
पृच्छामि तद् अशेषेण कथयाश्व् अनुकम्पया ॥
इन्द्रियाण्य् अपि चित्तादि घटाद्य् अपि न किञ्चन ।
पृथक् सम्भवतीहाङ्ग निर्मलाच् चेतनाद् ऋते ॥
गगनाद् अपि याच्छा चित् तया रूपं स्वम् आत्मना ।
चित्त्वात् पुर्यष्टकत्वेन भाववृत्त्यैव भावितम् ॥
तद् एवेदं प्रकृतितां गतं जगद् अवस्थितम् ।
तस्यावयवजातं तद् इन्द्रियादि घटादि च ॥
पुर्यष्टकत्वम् आयातं यच् चित्तत्त्वं स्वभावतः ।
स्व एवावयवस् तस्मिन् घटादि प्रतिबिम्बति ॥
जगत्सहस्रनिर्माणमहिम्नां दर्पणस्य मे ।
पुर्यष्टकस्य भगवन् रूपं कथय कीदृशम् ॥
अनाद्यन्तजगद्बीजं यद् ब्रह्मास्ति निरामयम् ।
भारूपं शुद्धचिन्मात्रं कलाकलनवर्जितम् ॥
कलनोन्मुखतां यातं सत् तज् जीव इति स्मृतः ।
स जीवः खलु देहे ऽस्मिंश् चिनोति स्पन्दते स्फुटम् ॥
अहम्भावाद् अहङ्कारो मननान् मन उच्यते ।
बोधनिश्चयतो बुद्धिर् इन्द्रदृष्टेस् तथेन्द्रियम् ॥
देहभावनया देहो घटभावनया घटः ।
एष एवंस्वभावात्मा जीवः पुर्यष्टकं स्मृतम् ॥
ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वाद्यभिमानिनी ।
या संविज् जीव इत्य् उक्ता तद् धि पुर्यष्टकं विदुः ॥
काले काले स्वतो जीवस् त्व् अन्यो ऽन्यो भवति स्वतः ।
भाविताकारितानन्तवासनाकणिकोदयात् ॥
पुर्यष्टकस्वभावेन कालेनाकारम् ऋच्छति ।
वासनावशतस् सेकाद् बीजं पल्लवताम् इव ॥
आकारो ऽहं शरीरादि स्थावरादि सुरादि वा ।
नाहम् आद्यश् चिदात्मेति मिथ्याज्ञाने निमज्जति ॥
भ्रमत्य् एवं जगज् जीवो वासनावेल्लितश् चिरम् ।
ऊर्ध्वाधोगमनैर् अब्धौ काष्ठं वीचिहतं यथा ॥
कश्चित् सात्त्विकजातित्वाद् भवबन्धाद् अनन्तरम् ।
बुद्ध्वात्मानं स्वम् अभ्येति पदम् आद्यन्तवर्जितम् ॥
कश्चित् कालेन बहुना भुक्तयोनिगणान्तरः ।
आत्मज्ञानवशाद् एति परमं पदम् आत्मनः ॥
एवम्भूतस् स सुमते जीवो यातश् शरीरताम् ।
नेत्रादिना घटाद्य् अन्तर् यथा वेत्ति तथा शृणु ॥
चित्त्वस्य कलनात् तस्य सम्प्रयातस्य जीवताम् ।
मनष्षष्ठेन्द्रियग्रामो देहो ऽग्र इव तिष्ठति ॥
पदार्थदेहे देहेन स्वे पतत्य् अक्षिरूपिणा ।
तदा तज् जीवसंस्पर्शाज् जीवात्मैकत्वम् ऋच्छति ॥
बाह्यार्थवेदने नित्यं सम्बन्धो ऽक्षस्य कारणम् ।
समन्वितस्य चित्तेन न मुक्तस्य कदाचन ॥
यद् यद् अच्छतरे तस्मिन्न् अग्रस्थं प्रतिबिम्बति ।
जीवेन भवति श्लिष्टं बहिर् जीवो ऽथ जीवति ॥
निघृष्टनवरत्नाभे यदा नयनतारके ।
तदैतयोर् बाह्यगतः पदार्थः प्रतिबिम्बति ॥
जीवेन भवति श्लिष्टः प्रतिबिम्बवशात् ततः ।
जीवज्ञेयत्वम् आयाति बाह्यं वस्त्व् इति राघव ॥
यत् संश्लेषम् उपायाति तद् बालो ऽपि हि विन्दते ।
पशुर् वा स्थावरो वापि जीवः कस्मान् न वेत्स्यति ॥
अन्यच् च नायनास् साधो रश्मयो जीववेष्टिताः ।
क्रोडीकुर्वन्त्य् अलं दृश्यं जीवस् तत् तेन विन्दते ॥
एष एव क्रमस् स्पर्शे सम्बन्धप्रत्ययोद्भवः ।
रसे गन्धे च कथितो जीवसंस्पर्शसम्भवः ॥
शब्दस् त्व् आकाशनिष्ठत्वात् कर्णाकाशगतः क्षणात् ।
जीवाकाशं विशत्य् अन्तर् एवम् इन्द्रियसंविदः ॥
दृश्यते निर्मलादर्शरत्नवार्यादिकेषु यत् ।
प्रतिबिम्बनम् एतन् मे ब्रूहि ब्रह्मन् किमात्मकम् ॥
काकतालीयवद् भातं तद् ब्रह्मव्योम्नि यच् चिरम् ।
किञ्चिद् आस्ते क्षणं किञ्चित् तद् एवेदं जगन्ति वः ॥
स्वसत्तामात्रकं स्वप्ने इवार्थ इति भावयत् ।
स्थितम् एकम् अनेकात्म चिद्व्योम स्वप्नवृक्षवत् ॥
बाह्यार्थास्तित्वबोधो यो या ब्रह्मात्मजगन्मतिः ।
स च सा चेति सत् सर्वं यथासंवेदनं स्थितेः ॥
प्रथमं परमाणुत्वे बुद्धे ऽणुत्वे ततश् च खे ।
ता विदो वेत्ति विद्व्योम कराक्षादिकम् अद्य याः ॥
सर्गादितः प्रभृत्य् एव निर्मले ऽर्थः प्रबिम्बते ।
विदात्तेति स्थितिस् त्व् ऐक्यात् सर्वबिम्ब्यनुबिम्बयोः ॥
चिद्व्योम्ना कचता तद् यद् अयम् अर्थ इति स्थितम् ।
सर्गादौ चेतिता संस्था यासौ स्थितिम् उपागता ॥
असताम् एव भावानां चिद्व्योमकचनाबलात् ।
गुणार्पणं मिथो रूढं निर्मले प्रतिबिम्बनम् ॥
अत्यन्तजडयोर् एव जीवयोर् इव यन् मिथः ।
सत्तार्पणं स्वभावेन प्रतिबिम्बं तद् उच्यते ॥
चिदात्मनोर् वा जडयोर् महासत्ताजडात्मनोः ।
आद्यस्वभावनियमाद् बिम्बसत्तार्पणं मिथः ॥
प्रतिबिम्बं दृशोर् भ्रान्तिं विद्धि वेद्यविदां वर ।
तावन्मात्रं जगत् तेन विश्वासो मा तवास्त्व् इह ॥
अहमित्यादितरङ्गस् सर्गाद्यावर्तवान् पराम्भोधौ ।
नास्त्य् एव देशकालक्रियाकृतस् तन्मयैकतया ॥
नित्यम् असक्तमतिर् मुदितात्मा शान्तसुखासुखसंविदनन्तः ।
तिष्ठ निविष्टमतिस् समतायाम् अस्तसमस्तभवामयमायः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0