भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.53

6.53.1

यदि नास्ति विकारादि ब्रह्मन् ब्रह्मणि बृंहिते ।
तद् इदं कथम् आभाति भावाभावमयं जगत् ॥

6.53.2

अपुनःप्रागवस्थानं यत् स्वरूपविपर्ययः ।
तद् विकारादि कथितं यत् क्षीरादिषु विद्यते ॥

6.53.3

पयस्तां पुनर् अभ्येति दधित्वान् न पुनः पयः ।
बुद्धम् आद्यन्तमध्येषु ब्रह्म ब्रह्मैव निर्मलम् ॥

6.53.4

क्षीरादेर् इव तेनास्ति ब्रह्मणो न विकारिता ।
अनाद्यन्ताविकारस्य न चैवावयविक्रमः ॥

6.53.5

समस्याद्यन्तयोर् येयं दृश्यते विकृतिः क्षणम् ।
संविदस् तं भ्रमं विद्धि नाविकारे ऽस्ति विक्रिया ॥

6.53.6

संवेद्ये सति संवित्तिस् तन् न ब्रह्मणि विद्यते ।
तद् ब्रह्मशब्दकथितं निस्संवेद्यं चिदात्म यत् ॥

6.53.7

यादृग् आद्यन्तयोर् वस्तु तादृग् एव तद् उच्यते ।
मध्ये तस्य यद् अन्यत्वं तद् अबोधविजृम्भितम् ॥

6.53.8

आत्मा त्व् आद्यन्तमध्येषु समस् सर्वत्र सर्वदा ।
खम् अप्य् अन्यत्वम् आयाति नात्मतत्त्वं कदाचन ॥

6.53.9

भारूपत्वात् तदेकत्वान् नित्यत्वाच् चायम् ईश्वरः ।
वशं भावविकाराणां न कदाचन गच्छति ॥

6.53.10

विद्यमाने सदैकस्मिन् ब्रह्मण्य् एकान्तनिर्मले ।
संविद्भ्रमस्वरूपाया अविद्यायाः क आगमः ॥

6.53.11

ब्रह्मतत्त्वम् इदं सर्वम् आसीद् अस्ति भविष्यति ।
निर्विकारम् अनाद्यन्तं नाविद्यास्तीति निश्चयः ॥

6.53.12

यस् तु ब्रह्मेति शब्देन वाच्यवाचकयोः क्रमः ।
तत्रापि नान्यताभाव उपदेष्टुं कृतो ह्य् असौ ॥

6.53.13

त्वम् अहं जगद् आशाश् च भूः खम् अग्न्यनिलादि च ।
ब्रह्ममात्रम् अनाद्यन्तं नाविद्यास्ति मनाग् अपि ॥

6.53.14

नामैवेदम् अविद्येति भ्रममात्रम् असद् विदुः ।
न विद्यते या तस्या हि कीदृङ् नाम भविष्यति ॥

6.53.15

उपदेशप्रकरणे ह्यः किम् एतत् त्वयोदितम् ।
अविद्येयं तथेत्थं च निर्धार्यत इति प्रभो ॥

6.53.16

एतावन्तम् अबुद्धस् त्वम् अभूः कालं रघूद्वह ।
कल्पिताभिः किलैताभिर् बोधितो ऽसि सुयुक्तिभिः ॥

6.53.17

अविद्येयम् अयं जीव इत्यादिकलनाक्रमः ।
अप्रबुद्धप्रबोधाय कल्पितो वाग्विदां वरैः ॥

6.53.18

अप्रबुद्धं मनो यावत् तावद् एव भ्रमं विना ।
न प्रबोधम् उपायाति तावद् वर्षशतैर् अपि ॥

6.53.19

युक्त्यैव बोधयित्वैष जीव आत्मनि योज्यते ।
यद् युक्त्या साध्यते कार्यं न तद् यत्नशतैर् अपि ॥

6.53.20

सर्वं ब्रह्मेति यो ब्रूयाद् अप्रबुद्धस्य दुर्मतिः ।
स करोति सुहृद्भ्रान्त्या स्थाणौ दुःखनिवेदनम् ॥

6.53.21

युक्त्या प्रबोध्यते मूढः प्राज्ञस् तत्त्वेन बोध्यते ।
मूढः प्राज्ञत्वम् आयाति न युक्त्या बोधनं विना ॥

6.53.22

एतावन्तम् अबुद्धस् त्वं कालं युक्त्या प्रबोधितः ।
इदानीं सम्प्रबुद्धो ऽसि तत्त्वेनैवावबोध्यसे ॥

6.53.23

ब्रह्माहं त्रिजगद् ब्रह्म ब्रह्म त्वं ब्रह्म दृश्यभूः ।
द्वितीया कल्पना नास्ति यथेच्छसि तथा कुरु ॥

6.53.24

असंवेद्यमहासंवित्कोटिमात्रं जगत्त्रयं ।
एवं प्रत्ययवान् अन्तः कुर्वन्न् अपि न लिप्यसे ॥

6.53.25

भारूपश् चेतनो व्यापी परमात्माहम् इत्य् अलम् ।
राघवानुभवान्तस् त्वं तिष्ठन् गच्छन् स्वपञ् श्वसन् ॥

6.53.26

निर्ममो निरहङ्कारो बुद्धिमान् असि राम चेत् ।
तद् ब्रह्मवेदनं शान्तं सर्वभूतस्थितं भव ॥

6.53.27

तद् अनाद्यन्तम् आभासि सत्त्वम् एव परं पदम् ।
स्थितो ऽसि सर्वगैकात्मा शुद्धसंविन्मयात्मकः ॥

6.53.28

यद् ब्रह्मात्मा विभुर् यश् च याविद्या प्रकृतिश् च या ।
तद् अभिन्नं सदैकात्म यथा कुम्भशतेषु मृत् ॥

6.53.29

नात्मनः प्रकृतिर् भिन्ना घटान् मृण्मयता यथा ।
स्पन्दमात्रं यथा वायुर् आत्मैव प्रकृतिस् तथा ॥

6.53.30

आवर्तस् सलिलस्येव यस् स्पन्दस् स्वयम् आत्मनः ।
प्रोक्तः प्रकृतिशब्देन तेनैवेह स एव हि ॥

6.53.31

यथैकं स्पन्दपवनौ नाम्ना भिन्नौ न सत्तया ।
तथैकम् आत्मप्रकृती नाम्ना भिन्ने न सत्तया ॥

6.53.32

अबोधाद् एतयोर् भेदो बोधेनैव विलीयते ।
अबोधो ऽसन्मयो भ्रान्ती रज्ज्वां सर्पभ्रमो यथा ॥

6.53.33

चिद्भूमौ कलनाबीजं यद् एतत् पतति स्फुरत् ।
चित्ताङ्कुर उदेत्य् अस्माद् भाविसंसारषण्डकः ॥

6.53.34

एतद् एवात्मविज्ञानदग्धं सद्वासनाजलैः ।
संसिक्तम् अपि यत्नेन न भवत्य् अङ्कुरक्षमम् ॥

6.53.35

नो चेत् पतति चित्क्षेत्रे कलनाबीजकं ततः ।
चित्ताङ्कुरा न जायन्ते सुखदुःखफलद्रुमाः ॥

6.53.36

द्वित्वं जगत्य् असदुपात्तम् अबोधजातं बोधक्षयं जहिहि बोधम् उपागतो ऽसि ।
आत्मैकभावविभवेन भवाभयात्मा नास्त्य् एव दुःखम् इति नः परमार्थसारः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc