मोक्षोपाय · अध्याय 6.52
यत्रानुदितरूपात्म सर्वम् अस्तीदम् आततम् ।
मयूर इव बीजान्तस् तद् अहन्त्वम् अगादि च ॥
तत्र नाभ्युदितं किञ्चित् तत्र सर्वं च विद्यते ।
तद् अवाच्यं गिरां स्वर्गसुखसारे न विद्यते ॥
तथा च मुनयो देवा गणास् सिद्धा महर्षयः ।
आस्वादयन्तस् स्वं रूपं सदा तूर्यपदे स्थिताः ॥
एते ये स्तब्धनयनदृष्टयो निर्निमेषिणः ।
ते दृश्यदर्शनासङ्गस्पन्दत्यागे व्यवस्थिताः ॥
न स्थिता भावना येषां स्थितानाम् अपि कर्मसु ।
संवित्संवेद्यसम्बन्धस्पन्दत्यागे च ये स्थिताः ॥
प्राणो न स्पन्दते तेषां चित्रस्थवपुषाम् इव ।
चित्तचैत्तसमासङ्गत्यागे ते स्वपदे स्थिताः ॥
स्पन्दात् संसाधयन्त्य् अर्थं सेनास् सेनेश्वरं यथा ।
तथैव चित्तचैत्तानि स्पन्दात् कुर्वन्ति संसृतिम् ॥
यथाह्लादयति स्वच्छः पल्लवं रश्मिर् ऐन्दवः ।
तथात्माह्लादयत्य् अन्तर् दृश्यदर्शनसङ्गमे ॥
बिम्बाद् दूरं प्रयातस्य भित्ताव् अपतितस्य च ।
यद् इन्दोस् तेजसो रूपं तद् रूपं शुद्धसंविदः ॥
न दृश्यं नोपदेशार्हं नाभ्याशे न च दूरतः ।
केवलानुभवप्राप्यं तद् रूपं शुद्धम् आत्मनः ॥
न देहो नेन्द्रियगणो न चित्तं न च वासना ।
न जीवो नापि च स्पन्दो न संवित्तिर् न चैव खम् ॥
न सन् नासन् न मध्यस्थं शून्याशून्ये न चैव ह ।
न देशकालवस्त्वादि स एवास्ति न चेतरत् ॥
एतैस् सर्वैर् विनिर्मुक्तं हृदि कोशगते ऽपि च ।
यत्रैतत् स्पन्दते ऽदृश्यं तत् तद् आत्मपदं भवेत् ॥
तच् च नाद्य न कल्पान्ते न शस्त्राग्न्यनिलादिभिः ।
नेह नामुत्र सद्रूपाद् अन्यथा भवति क्वचित् ॥
जायन्ते च म्रियन्ते च देहकुम्भास् सहस्रशः ।
सबाह्याभ्यन्तरस्यास्य नात्माकाशस्य खण्डना ॥
तच् च देहादि सकलम् आत्मैवात्मविदां वर ।
केवलं बोधवैरूप्याद् ईषत् पृथग् अवस्थितम् ॥
विष्वग् आत्ममयं शुद्धं बुद्ध्वा बुद्ध्या स्वसिद्धया ।
प्रज्वलन्न् अपि कार्येषु निर्वाणो निर्ममो भव ॥
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
तत् सर्वं ब्रह्म निर्धर्म निर्गुणं निर्ममात्मकम् ॥
नित्यव्यपेतावयवम् एकम् एकान्तनिर्मलम् ।
निर्विकारम् अनाद्यन्तं नित्यं शान्तं समात्मकम् ॥
कालक्रियाकरणकारणकर्तृकार्यजन्मस्थितिप्रलयसंसरणादि सर्वम् ।
ब्रह्मेति दृष्टवत एव तवात्मदृष्ट्या भूयो ऽपि किं भ्रमणम् अङ्ग ससङ्गम् एव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0