भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.48

6.48.1

केवलेनेन्द्रियैस् सार्धं वर्तमानार्थवर्तिना ।
असङ्गमेन मनसा यत् करोषि न तत् कृतम् ॥

6.48.2

यथा प्राप्तिक्षणे वस्तु प्रथमं तुष्टये तथा ।
न प्राप्त्येकक्षणाद् ऊर्ध्वम् इति को नानुभूतवान् ॥

6.48.3

वाञ्छाकाले यथा वस्तु तुष्टये नान्यदा तथा ।
तस्मात् क्षणसुखे तुष्टिं बालो बध्नाति नेतरः ॥

6.48.4

वाञ्छाक्षणे तुष्टये यत् तत्र वाञ्छैव कारणम् ।
तुष्टिस् त्व् अतुष्टिपर्यन्ता तस्माद् वाञ्छां परित्यज ॥

6.48.5

यदि तत् पदम् आप्नोषि कदाचित् कालपर्ययात् ।
तद् अहम्भावनारूपे न मङ्क्तव्यं त्वया पुनः ॥

6.48.6

आत्मज्ञानाचलस्याग्रे राम विश्रान्तवान् असि ।
अहम्भावमहाश्वभ्रे न पुनः पातम् अर्हसि ॥

6.48.7

प्रसृतानन्तसद्दृष्टेर् ज्ञत्वमेरुशिरस्स्थितेः ।
पुनर् गर्भान्धकारान्तःपातालपतनं कुतः ॥

6.48.8

दृश्यते ते स्वभावो ऽयं समतासत्यतामयः ।
मन्ये क्षीणविकल्पो ऽसि जातो ऽसि गतकालिकः ॥

6.48.9

स्वभावो ऽयं स्थिरो राम इत्य् आवेदयतीव मे ।
सोम्य पूर्णार्णवप्रख्या समता निर्मला तव ॥

6.48.10

आशा यातु निराशत्वम् अभावं यातु भावना ।
अमनस्त्वं मनो यातु तवासङ्गेन जीवतः ॥

6.48.11

यां यां वस्तुदृशं यासि तस्यां तस्याम् अवस्थितम् ।
सत्तासामान्यरूपेण ब्रह्म बृंहितचिद्घनम् ॥

6.48.12

अज्ञातात्मा निबद्धो ऽसि विज्ञातात्मा न बध्यसे ।
राम त्वं स्वात्मनात्मानं बोधयस्व बलाद् अतः ॥

6.48.13

यत्र न स्वदते वस्तु स्वदते च यथागतम् ।
अवासनत्वं तद् विद्धि साम्यम् आकाशकोमलम् ॥

6.48.14

वासनारहितैर् अन्तर् इन्द्रियैर् आहरन् क्रियाः ।
न विक्रियाम् अवाप्नोषि खवत् क्षोभशतैर् अपि ॥

6.48.15

ज्ञाता ज्ञानं तथा ज्ञेयं त्रयम् एकतयात्मनि ।
शान्तात्मानुभवन् भव्य न भूयोभवभाग् असि ॥

6.48.16

चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ ।
वासनाप्राणसंरोधाद् अनुन्मेषं मनः कुरु ॥

6.48.17

प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ ।
तम् अभ्यासप्रयोगाभ्याम् उन्मेषरहितं कुरु ॥

6.48.18

मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ ।
तद् विलीनं कुरु बलाद् गुरुशास्त्रार्थसङ्गमैः ॥

6.48.19

यथा वातरजस्सङ्गस्पन्दात् स्तम्भाभ्रवेदनम् ।
तथा चिता चेत्यतया स्पन्दाद् इदम् उपस्थितम् ॥

6.48.20

दृश्यदर्शनसम्बन्धस्पन्दजेयं जगद्गतिः ।
स्फुरत्य् आलोककुड्यादिसङ्गजा वर्णधीर् इव ॥

6.48.21

दृश्यदर्शनसम्बन्धस्पन्दाभावे न जायते ।
वेदना भवदाभासा चित्रपुंसाम् इवाशये ॥

6.48.22

चित्तस्पन्दोत्थिता माया तदभावे विलीयते ।
पयस्स्पन्दोत्थिता वीचिस् तदभावेन शाम्यति ॥

6.48.23

त्यागतो वासनांशस्य बोधाद् वा प्राणरोधनात् ।
चित्ते निस्स्पन्दतां याते कुतस् स्पन्दस्य सम्भवः ॥

6.48.24

असंवित्स्पन्दमात्रेण याति चित्तम् अचित्तताम् ।
प्राणानां वा निरोधेन तद् एव च परं पदम् ॥

6.48.25

दृश्यदर्शनसम्बन्धे यत् सुखं पारमात्मिकम् ।
तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्या मनःक्षयः ॥

6.48.26

यत्र नाभ्युदितं चित्तं तत् तत् सुखम् अकृत्रिमम् ।
न स्वर्गादौ सम्भवति मरौ हिमगृहं यथा ॥

6.48.27

चित्तोपशमजं स्फारम् अवाच्यं वचसां सुखम् ।
क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति ॥

6.48.28

बोधाद् भवति चित्तान्तो निर्बोधाच् चित्ततोदिता ।
बालवेतालवत् तेन मोहश्रीर् घनतां गता ॥

6.48.29

विद्यमानम् अपि ह्य् एतच् चित्तं बोधाद् विलीयते ।
सद् अप्य् असद् इवाभाति ताम्रं हेमीकृतं यथा ॥

6.48.30

ज्ञस्य चित्तं न चित्ताख्यं ज्ञचित्तं सत्त्वम् उच्यते ।
नामार्थान्यत्वभाक् चित्तं बोधात् ताम्रसुवर्णवत् ॥

6.48.31

न सम्भवति चित्तत्वं तेन तत् प्रविलीयते ।
भ्रमश् शाम्यति बोधेन नाभावो विद्यते सतः ॥

6.48.32

अवस्त्व् एतद् विकल्पात्म चित्तादि शशशृङ्गवत् ।
सर्वत्वाद् आत्मनस् तस्मात् तद् विबोधाद् विलीयते ॥

6.48.33

चित्तं सत्त्वं समायातं कञ्चित् कालं जगत्स्थितौ ।
विहृत्य तुर्यावस्थायां तुर्यातीतं भवत्य् अतः ॥

6.48.34

ब्रह्मैव भूरिभुवनभ्रमविभ्रमौघैर् इत्थं स्थितं समम् अनेकतयैकम् एव ।
सर्वात्म सम्भवति नेतरद् अङ्ग किञ्चिच् चैत्तादि काञ्चनहृदीव हि सन्निवेशः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc