भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.49

6.49.1

अत्रेमाम् अवबोधाय विस्मयोत्फुल्लकारिणीम् ।
अपूर्वाम् एव सङ्क्षेपाद् राम रम्यां कथां शृणु ॥

6.49.2

योजनानां सहस्राणि विपुलं विमलं स्फुटम् ।
युगैर् अप्य् अजरद्रूपम् अस्ति बिल्वफलं महत् ॥

6.49.3

अविनाशरसाधारं सुधामधुरसारवत् ।
पुराणम् अपि बालेन्दुदलमार्दवसुन्दरम् ॥

6.49.4

व्यूढसह्यमहामेरुमन्दराद्रितृणावलेः ।
महाकल्पान्तवात्याया अपि वेगैर् अचालितम् ॥

6.49.5

योजनायुतकोटीनां कोटिलक्षशतैर् अपि ।
वैपुल्येनापरिच्छेद्यं फलम् आद्यं जगत्स्थितेः ॥

6.49.6

अस्य बिल्वफलस्योच्चैर् ब्रह्माण्डानि समीपतः ।
हरन्ति लीलां शैले ऽधो राजिकाकणपद्धतेः ॥

6.49.7

स्यन्दमानरसापूरां स्वाद्वीं रसचमत्कृतिम् ।
यस्यातिशेते नो कश्चिद् अपि राघव षड्रसः ॥

6.49.8

न कदाचन पाकेन पातान्तेन समेति यत् ।
सदैव पक्वम् अप्य् अङ्ग जरसा यन् न बाध्यते ॥

6.49.9

ब्रह्मविष्ण्विन्द्ररुद्राद्या जरढाः केचिद् एव नो ।
यस्योत्पत्तिं विजानन्ति मूलं वा वृक्षम् एव वा ॥

6.49.10

अदृष्टाङ्कुरवृक्षस्य त्व् अदृष्टकुसुमोद्गतेः ।
अस्तम्भमूलशाखस्य फलम् एवावलोक्यते ॥

6.49.11

एकपिण्डघनाकारव्याततस्थौल्यशालिनः ।
यस्योत्पत्तिविकारादिपरिणामो न दृश्यते ॥

6.49.12

समस्तफलसारस्य फलस्यास्य महाकृतेः ।
मज्जान्तर् अस्ति विततो निर्विकारो रसान्तरः ॥

6.49.13

शिलान्तर् इव नीरन्ध्रस् स्यन्दमानेन्दुबिम्बवत् ।
रसं स्वसंविदास्वाद्यं स्यन्दमान ऋतामृतम् ॥

6.49.14

सेकस् सकलसौख्यानां शीतलालोककारकः ।
शैलाभो ऽमृतपिण्डाभो मण्ड आत्मफलस्थितेः ॥

6.49.15

तस्मात् परममज्जा तु यासौ स्वाद्वी चमत्कृतिः ।
अन्तर् अक्षुभिता नित्यम् अनन्या श्रीफलाङ्गतः ॥

6.49.16

स्वसन्निवेशवैचित्र्यम् अनन्यत्वफलाङ्गकम् ।
अत्यजन्त्या तया तन्व्या स्थूलयाप्य् अतिबालया ॥

6.49.17

इयम् अस्मीति कलनाद् असत्सदन्यतामलम् ।
भेदाद्य् असम्भवद् इदं स्वयम् उत्पाद्य भावितम् ॥

6.49.18

अहङ्कला समुदयसमनन्तरम् एव सा ।
वलिताकाशशब्दाङ्गत्रैलोक्यपरमाणुभिः ॥

6.49.19

इत्य् अनुक्रमतो याता सा संविच्छक्तिरूपताम् ।
मज्जा प्राक्सन्निवेशं स्वं तम् एवाप्य् असमुज्झती ॥

6.49.20

संविच्छक्त्या तया तत्र ततस् तरलरूपया ।
निज एव परे रूपे दृग् इत्थं सम्प्रसारिता ॥

6.49.21

इदं व्योममहानन्तम् इयं कालमहाकला ।
इयं नियतिर् उद्युक्ता क्रियेयं स्पन्दधर्मिणी ॥

6.49.22

अयं सङ्कल्पविस्तारस् त्व् अयम् आशाभरभ्रमः ।
रागद्वेषस्थितिर् इयं हेयोपादेयधीर् इयम् ॥

6.49.23

इयं त्वत्ता त्व् इयं मत्ता तत्तेयं संस्थितिस् त्व् इयम् ।
ब्रह्माण्डौघो ऽयम् ऊर्ध्वस्थस् त्व् अयम् अग्रे ऽयम् अप्य् अधः ॥

6.49.24

अयं पुरः पार्श्वतो ऽयं पश्चाद् आराद् दवीयसि ।
इदं भूतं वर्तमानं भविष्यत् त्व् इदम् इत्य् अपि ॥

6.49.25

इदम् अन्तस्स्थितानल्पकल्पनाम्भोरुहालयम् ।
ब्रह्माण्डमण्डपापिण्डक्रीडामण्डपमण्डलम् ॥

6.49.26

अनन्तकलनातत्त्वपरिपल्लविता हरेः ।
हृदब्जकर्णिका चेयं लोकपद्माक्षमालिका ॥

6.49.27

इयं कीर्णमहारुद्रकणाङ्कुरितकोटरा ।
दीर्घाध्वपदवी ध्वान्तध्वंसनेहाप्रभाविनी ॥

6.49.28

अयं मेरुः ककुप्पत्त्रजगत्पङ्कजकर्णिका ।
स्फुरदिन्दुमधूल्लासलम्पटामरषट्पदा ॥

6.49.29

इयम् उद्दामसौगन्ध्या स्वर्गश्रीपुष्पमञ्जरी ।
जगज्जरढवृक्षस्य रजोनरकमूलिनः ॥

6.49.30

इयं च ताराकिञ्जल्का ब्रह्माण्डकतटस्थिता ।
अपारापारपर्यन्ता व्योमनीलसरोजिनी ॥

6.49.31

इयं क्रियासरिद् वाततरङ्गतरणावली ।
सर्गावर्तविवर्तस्था भूरिभूतपरम्परा ॥

6.49.32

इयं तमोभ्रमरिणी क्षणकल्पादिपल्लवा ।
तेजःकेसरिणी कालनलिनी व्योमपङ्कजा ॥

6.49.33

इमा भावविकाराढ्या जरामृतिविषूचिकाः ।
विद्याविद्याविकाराढ्या इमाश् शास्त्रार्थदृष्टयः ॥

6.49.34

इति सा तस्य बिल्वस्य निजा मज्जाचमत्कृतिः ।
स्वकल्पसन्निवेशान्तर् एवैवंकृतसंस्थितिः ॥

6.49.35

शान्ता स्वस्था निराबाधा सोम्येतरतयोज्झिता ।
कर्तृत्वम् अप्य् अकर्तृत्वं कृत्वा कृत्वैव संस्थिता ॥

6.49.36

एकैकिकैव विविधेव विभाव्यमाना नैकात्मिका न विविधा ननु सैव सैव ।
सत्यास्थिता सकलशान्तिसमैकरूपा सर्वात्मिकातिमहती चितिर् एव शक्तिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc