मोक्षोपाय · अध्याय 6.47
एतद् उक्तं परेशेन स्वयम् एव च वेद्म्य् अहम् ।
राम त्वम् अपि जानीषे यथेदं समवस्थितम् ॥
यत्रालीकम् अलीकेन किलालीकं विलोक्यते ।
तस्यां संसारमायायां किं सत्यं किम् असन्मयम् ॥
यथा येन विकल्पेन यद्विकल्पेन कल्प्यते ।
तथा तेनात्मकल्पेन न सताप्य् अनुभूयते ॥
यथा द्रवत्वं पयसि यथा स्पन्दो नभस्वति ।
यथा नभसि शून्यत्वं तथा सर्गत्वम् आत्मनि ॥
ततः प्रभृति तेनैव क्रमेणार्चनम् आत्मनः ।
अद्य यावद् गतव्यग्रः कुर्वन्न् अहम् अवस्थितः ॥
अनेनार्चाविधानेन मयेमा राम वासनाः ।
अखिन्नेनातिवाह्यन्ते व्यवहारपरा अपि ॥
यथाप्राप्तैः क्रियाचारकुसुमैर् आत्मनो ऽर्चनम् ।
व्युच्छिन्नम् अप्य् उच्छिन्नं मे न कदाचिद् अहर्निशम् ॥
ग्राह्यग्राहकसम्बन्धे सामान्ये सर्वदेहिनाम् ।
योगिनस् सावधानत्वं यत् तद् अर्चनम् आत्मनः ॥
दृष्ट्यानया रघुपते सङ्गमुक्तेन चेतसा ।
संसारे विपुलारण्ये विहरास्मिन् न खिद्यसे ॥
दुःखे महति सम्प्राप्ते धनबन्धुवियोगजे ।
एतां दृष्टिम् अवष्टभ्य विचारं कुरु सुव्रत ॥
सुखदुःखे न कर्तव्ये धनबन्धूदयक्षयैः ।
एवम्प्राया एव सर्वा नित्यं संसारदृष्टयः ॥
जानासीव गतीश् चित्रा विषयाणां प्रमाथिनीः ।
यथा यान्ति यथायान्ति यथा परिभवन्ति च ॥
एवम् एव प्रवर्तन्ते प्रेमाणि च धनानि च ।
एवम् एवावहीयन्ते निमित्तैर् अविचारितैः ॥
न तास् तव न तासां त्वं निर्मलस् त्वं जगत्क्रियाः ।
इदम् इत्थं जगत् किञ्चित् किं मुधा परितप्यसे ॥
त्वम् एवासि जगद्रूपं चिन्मात्रं वितताकृतिः ।
निजावयवकावृत्तौ कः क्रमो हर्षशोकयोः ॥
चिदेकतानताम् एत्य सौषुप्तीम् आगतस् स्थितिम् ।
अद्यप्रभृति राम त्वं तुर्यावस्थात्मको भव ॥
समस् समसमाभासो भास्वद्वपुर् उदारधीः ।
तिष्ठात्माचारतो नित्यं परिपूर्ण इवार्णवः ॥
एतत् त्वं श्रुतवान् सर्वं स्थितस् त्वं परिपूर्णधीः ।
यदीच्छसीतरत् प्रष्टुं तत् पृच्छ रघुनन्दन ॥
ब्रह्मणो ऽनन्तरूपस्य कुतो मलम् इति त्वया ।
यत् पृष्टं प्रथमे कल्पे तद् अद्य परिचोदय ॥
इदानीं संशयो ब्रह्मन् विनिवृत्तो विशेषतः ।
ज्ञातं ज्ञातव्यम् अखिलं जाता तृप्तिर् अकृत्रिमा ॥
नात्मनो ऽस्ति मलं द्वित्वं न चैक्यं न च कल्पना ।
तदा ममाभूद् अज्ञानं प्रशान्तम् अधुना तु तत् ॥
कलङ्क आत्मनो ऽस्तीति ममाज्ञानवशेन या ।
आसीद् भ्रान्तिर् इदानीं सा निवृत्ता त्वत्प्रसादतः ॥
न जायते न म्रियते न चैवात्मा कलङ्कितः ।
सर्वं च ब्रह्ममयम् इत्य् उदितः खलु चास्म्य् अहम् ॥
प्रश्नेभ्यस् संशयेभ्यश् च वाञ्छितेभ्यश् च सर्वतः ।
शुद्धं मे निर्गतं चेतस् त्वष्टा यन्त्रभ्रमाद् इव ॥
सर्वसारोपदेशेषु प्रायः प्रोक्तेषु साधुभिः ।
निराकाङ्क्षस् स्थितो ऽस्म्य् अन्तस् सुमेरुः कनकेष्व् इव ॥
न तद् अस्त्य् अस्ति यत्राशा न तद् अस्ति यद् ईप्सितम् ।
न तद् अस्ति यद् आदेयं हेयं मध्यं च वा मम ॥
इदं हेयम् उपादेयम् इदं सद् इदम् अप्य् असत् ।
इति चिन्ताभ्रमश् शान्तो निपुणं परमो मुने ॥
न स्वर्गम् अभिवाञ्छामि द्वेष्मि वा न च रौरवम् ।
आत्मन्य् एव हि तिष्ठामि मन्दराद्रिर् इवाभ्रमः ॥
कणशःकीर्णत्रिजगत्क्षीरसागरसन्ततिः ।
विश्रान्तश् चिरसम्भ्रान्तो निर्भ्रमो राममन्दरः ॥
अवस्त्व् इदम् इदं वस्तु यस्येति कलनामलम् ।
हृदि तस्य कुसन्देहजालिका ज्वलिताधिकम् ॥
इदम् इत्थं जगद् इति ज्ञातं येन मुनीश्वर ।
स यत्र याति कार्पण्यं जगतस् तन् न लभ्यते ॥
विचित्राकुलकल्लोलाज् जडावृत्तिविवर्तितात् ।
त्वत्प्रसादेन भगवंस् तीर्णास् स्मो भवसागरात् ॥
सम्पदाम् अवधिर् ज्ञातो दृष्टस् सीमान्त आपदाम् ।
सर्वसारेष्व् अदीनास् स्मः पूर्णास् स्मः परमेश्वराः ॥
पराम् अभेद्याम् अपरैर् दलिताशामतङ्गजाम् ।
संसारसमरे सम्यग् धीरताम् आगतं मनः ॥
परिगलितविकल्पताम् उपेतं प्रगलितवाञ्छम् अदीनसारसत्त्वम् ।
त्रिजगति जयति प्रसिद्धरूपं प्रमुदितम् अन्तर् अनुत्तरं मनो मे ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0