भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.45

6.45.1

शिवः किम् उच्यते देव परं ब्रह्म किम् उच्यते ।
आत्मा किम् उच्यते वापि परमात्मा किम् उच्यते ॥

6.45.2

तत् सत् किञ्चिन् नकिञ्चिच् च शून्यं विज्ञानम् एव च ।
इत्यादिभेदो भगवंस् त्रिलोकेश किम् उच्यते ॥

6.45.3

अनाद्यन्तम् अनाभासं सत् किञ्चिद् इह विद्यते ।
इन्द्रियाणाम् अनाभासाद् यन् नकिञ्चिद् इव स्थितम् ॥

6.45.4

यद् इन्द्रियाणां बुद्ध्यादियुक्तानाम् अप्य् अदृश्यताम् ।
गतं तत् कथम् ईशान वद केनावगम्यते ॥

6.45.5

यो मुमुक्षुर् अविद्यांशः केवलं नाम सात्त्विकः ।
सात्त्विकैर् एव सो ऽविद्याभागैश् शास्त्रादिनामभिः ॥

6.45.6

अविद्यां श्रेष्ठयाश्रेष्ठां क्षालयन्न् इह तिष्ठति ।
मलं मलेनापहरन् युक्तिज्ञो रजको यथा ॥

6.45.7

काकतालीयवत् पश्चाद् अविद्याक्षय आगते ।
प्रपश्यत्य् आत्मनैवात्मा स्वभावस्यैष निश्चयः ॥

6.45.8

यथा कथञ्चिद् अङ्गारं निघृष्य क्षालयञ् शिशुः ।
करनैर्मल्यम् आप्नोति कार्ष्ण्याङ्गारक्षये यथा ॥

6.45.9

यथा कथञ्चिच् छास्त्राढ्यैर् भागैर् भागं विचारयन् ।
सात्त्विकैस् तामसं नाशाद् द्वयोर् आत्मोदयस् तथा ॥

6.45.10

पश्यत्य् आत्मानम् आत्मैव विचारयति चात्मना ।
आत्मैवास्तीह नाविद्याविद्याविद्याक्षयं विदुः ॥

6.45.11

यावत् किञ्चिद् इदं वस्तु नानेवात्मावगम्यते ।
क्रमा गुरूपदेशाद्या नात्मज्ञानस्य कारणम् ॥

6.45.12

गुरुर् हीन्द्रियवृन्दात्मा ब्रह्म सर्वेन्द्रियक्षयात् ।
यद् वस्तु यत्क्षयप्राप्यं तत् तस्मिन् सति नाप्यते ॥

6.45.13

अकारणा अपि प्राप्ता भृशं कारणतां द्विज ।
क्रमा गुरूपदेशाद्या आत्मज्ञानस्य सिद्धये ॥

6.45.14

क्रमे गुरूपदेशानां प्रवृत्ते शिष्यबोधतः ।
अनिर्देश्यो ऽप्य् अदृश्यो ऽपि स्वयम् आत्मा प्रसीदति ॥

6.45.15

शास्त्रार्थैर् बुध्यते नात्मा गुरोर् वाचा न चानघ ।
बुध्यते स्वयम् एवैष स्वबोधवशतस् स्वतः ॥

6.45.16

गुरूपदेशशास्त्रार्थैर् विना चात्मा न बुध्यते ।
एतत्संयोगसत्तैव स्वात्मज्ञानप्रकाशिनी ॥

6.45.17

गुरुशास्त्रार्थशिष्याणां चिरसंयोगसत्तया ।
अहनीव जनाचार आत्मज्ञानं प्रवर्तते ॥

6.45.18

कर्मबुद्धीन्द्रियाद्यन्तसुखदुःखादिसङ्क्षयः ।
शिव आत्मेति कथितस् तत् सद् इत्यादिनामभिः ॥

6.45.19

यत्रेदम् अखिलं नास्ति तद्रूपेणैव चास्ति वा ।
तद् आकाशाद् अच्छतरम् अनन्तं सद् इहास्ति हि ॥

6.45.20

अविश्रान्ततया तत्र तन्वविद्यैर् मुमुक्षुभिः ।
विचित्रशुद्धमननकलङ्ककलितात्मभिः ॥

6.45.21

अदूर एव तिष्ठद्भिर् जीवन्मुक्तपदस्य तैः ।
मोक्षोपायकबोधाय शास्त्रार्थरचनाय च ॥

6.45.22

ब्रह्मेन्द्ररुद्रप्रमुखैर् लोकपालैस् सपण्डितैः ।
पुराणवेदसिद्धान्तसिद्धये भावितात्मभिः ॥

6.45.23

चिद् ब्रह्म शिव आत्मेशपरमात्मेश्वरादिकाः ।
एकस्मिन् कल्पितास् सञ्ज्ञा निस्सञ्ज्ञे पृथग् ईश्वरे ॥

6.45.24

एवम् एतज् जगत्तत्त्वं स्वं तत्त्वं शिवनामकम् ।
सर्वथा सर्वदा सर्वेणार्चयन् सुखम् आस्स्व भोः ॥

6.45.25

शिव आत्मा परं ब्रह्मेत्यादिशब्दे ऽस्ति भिन्नता ।
सवासनैर् विरचिता ज्ञस्य भेदो न वस्तुनि ॥

6.45.26

एवं देवार्चनं कुर्वञ् ज्ञो नित्यं मुनिनायक ।
यत्रास्मदादयो भृत्यास् तत् प्रयाति परं पदम् ॥

6.45.27

अविद्यमानम् एवेदं विद्यमानम् इव स्थितम् ।
यथा तन् मे समासेन भगवन् वक्तुम् अर्हसि ॥

6.45.28

यो ऽसौ ब्रह्मादिशब्दार्थस् संविदं विद्धि केवलम् ।
स्वच्छम् आकाशम् अप्य् अस्यास् स्थूलं मेरुर् अणोर् इव ॥

6.45.29

सा वेद्यम् अवगच्छन्ती याति चिन्नामयोग्यताम् ।
अप्य् अवेद्यवती नूनम् उन्मनान्तपदस्थिता ॥

6.45.30

क्षणाद् भावितवेद्यत्वाद् अहन्ताम् अनुगच्छति ।
पुरुषत्वात् पुमान् स्वप्ने नववारणताम् इव ॥

6.45.31

अस्या अहन्तां याताया देशताकालताखताः ।
सम्पद्यन्ते स्वयं शून्यरूपिण्यस् सख्य एव ताः ॥

6.45.32

ताभिस् संवलिता साथ सत्ता जीवाभिधानका ।
भवति स्पन्दविज्ञाता पवनस्येव लेखिका ॥

6.45.33

जीवशक्तिस् तथाभूता निश्चयैकविलासिनी ।
बुद्धिताम् अनुयाता सा भवत्य् अज्ञपदास्थिता ॥

6.45.34

शब्दशक्त्या क्रियाशक्त्या ज्ञानशक्त्यानुगम्यते ।
प्रत्येकं प्रस्फुरत्य् अन्तर् अप्रदर्शितरूपया ॥

6.45.35

मिलित्वैष गणः क्षिप्रं श्रुतिं समनुकल्पयन् ।
मनो भवति शून्यात्मबीजं सङ्कल्पशाखिनः ॥

6.45.36

आतिवाहिकदेहोक्तिभाजनं तद् विदुर् बुधाः ।
अन्तस्स्थया ब्रह्मशक्त्या ज्ञरूपं स्वात्मनात्मदृक् ॥

6.45.37

सम्पद्यमान एवास्मिंश् चेतसीमा हि शक्तयः ।
पश्चाद् इव सहैवास्य प्रोद्यन्त्य् अनुदिता अपि ॥

6.45.38

वातसत्ता स्पन्दसत्ता स्पर्शसत्ता तथैव च ।
त्वक्सत्ता तैजसी सत्ता तथा सत्ता प्रकाशिनी ॥

6.45.39

दृक्सत्ता जलसत्ता च स्वादसत्ता तथापि च ।
तथैव रससत्ता च गन्धसत्ता तथैव च ॥

6.45.40

भूसत्ता देहसत्ता च पिण्डसत्ता च पीवरी ।
देशसत्ता कालसत्ता सर्वास् त्व् आकारवर्जिताः ॥

6.45.41

एवं सत्तागणं चेतः क्रोडीकृत्य खरूपधृत् ।
स्फुरत्य् आश्रितपत्त्रादि बीजवज् जीवतां गतम् ॥

6.45.42

एतत् पुर्यष्टकं विद्धि देहो ऽयं चातिवाहिकः ।
अपराबोधम् एतत् तत् स्फुरत्य् अंशविभागवत् ॥

6.45.43

एतद् यद् अङ्गसम्पन्नं सम्पन्नं तन् न किञ्चन ।
न जातं न च सद्रूपं न चिदादि न चेतरत् ॥

6.45.44

परे परं प्रस्फुरति केवलं केवलात्म सत् ।
जलपीठस्य जठरे जलद्रवविलासवत् ॥

6.45.45

संवित्संवेदनैकात्म पृथग् एतद् अचेतितम् ।
सम्पद्यते परिज्ञातं सङ्कल्पनगरोपमम् ॥

6.45.46

संवेदनपरिज्ञानाच् छिवताम् एव गच्छति ।
अजातम् एव वा यत् तत् कथं गच्छति वस्तुताम् ॥

6.45.47

अथैतद् विन्दते स्वान्तं सङ्कल्पाद् अणुतां स्वतः ।
तन्मात्रसत्तास् तस्याणोर् एताः पश्यन्ति देहकम् ॥

6.45.48

अणुस्थूलत्वम् आपन्नं तद् एवाशु प्रपश्यति ।
तस्य तन्मात्ररन्ध्राणि यथादेशं च पश्यति ॥

6.45.49

ततः पुरुषरूपैकभावनात् पुरुषाकृतिम् ।
काकतालीयवद् दृष्ट्वा तुष्टं पुष्टं भवत्य् अलम् ॥

6.45.50

जीव एतदवस्थो ऽथ स्थितं पश्यति देहकम् ।
असन्तम् एव गन्धर्वपुरं स्वप्नपुरं यथा ॥

6.45.51

गन्धर्वनगराकारम् अपि स्वप्नपुरोपमम् ।
जगद् दुःखाय दुःखस्य कात्र युक्तिः परिक्षये ॥

6.45.52

वासनावशतो दुःखं विद्यमाने च सा भवेत् ।
अविद्यमानं च जगन् मृगतृष्णाम्बुभङ्गवत् ॥

6.45.53

अतः किं वास्यते केन कस्य वा वासना कुतः ।
कथं स्वप्ननरेणाङ्ग मृगतृष्णाम्बु पीयते ॥

6.45.54

सस्रष्टरि तु साहन्ते समनोमननादिके ।
अविद्यमाने जगति यत् सत् तत् परिशिष्यते ॥

6.45.55

यत्र नो वासना नैव वासकं न च वास्यता ।
केवलं केवलीभावस् संशान्तसकलभ्रमः ॥

6.45.56

यस्य सत्यो ऽप्य् असत्यो वा शून्य एव हि यक्षकः ।
विलीनस् तस्य कैवल्यात् किम् अन्यद् अवशिष्यते ॥

6.45.57

शून्य एव हि वेताल इवेत्थं चित्तवासना ।
उदितेयं जगन्नाम्नी तच्छान्तौ शान्तिर् अक्षता ॥

6.45.58

अहन्तायां जगति च मृगतृष्णाजले च यः ।
सास्थस् तं चिद्घनतरं नोपदेश्यस् त्व् असाव् इति ॥

6.45.59

जीवं विवेकिनम् इहोपदिशन्ति तज्ज्ञा नो बालम् उद्भ्रमम् असन्मयम् आर्यमुक्तम् ।
अज्ञान् प्रशास्ति किल यः कनकावदातां स स्वप्नदृष्टपुरुषाय सुतां ददाति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc