भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.46

6.46.1

ततस् स जीवो भगवन् दृष्टवान् देहसम्भ्रमम् ।
आदिसर्गे नभस्संस्थः काम् अवस्थाम् उपैति हि ॥

6.46.2

परस्मात् परमे व्योम्नि पूर्वोक्तक्रमवद् वपुः ।
जीवः पश्यति सम्पन्नम् असत्स्वप्ननरो यथा ॥

6.46.3

सर्वगत्वाच् चिद्घनस्य कार्यं स्वप्ननरो ऽपि हि ।
यथा करोत्य् आशु तथा जीवस्यापि शरीरदृक् ॥

6.46.4

सनातनो ऽहम् अव्यक्तः पुमान् इत्य् अभिधास् ततः ।
करोत्य् आत्मनि तेनासौ प्रथमः कथितः पुमान् ॥

6.46.5

एवं स सर्गे कस्मिंश्चित् प्रथमो ऽर्थस् सदाशिवः ।
कस्मिंश्चिद् विष्णुर् इत्य् उक्तो नाभ्युत्पन्नपितामहः ॥

6.46.6

पितामहस् स कस्मिंश्चित् कस्मिंश्चिद् अपि चेतरः ।
स च सङ्कल्पपुरुषस् सङ्कल्पान् मूर्तिमान् स्थितः ॥

6.46.7

पुष्टः प्रथमसङ्कल्पस् तां मनोमूर्तिम् आस्थितः ।
यद् यथा कल्पयत्य् आशु तत् तथानुभवत्य् अलम् ॥

6.46.8

तत् त्व् असद्रूपम् अखिलं शून्ये वेतालको यथा ।
भ्रमदृष्ट्या तु सद्रूपम् इत्य् अहन्ताजगद्गतिः ॥

6.46.9

स्रष्टादिपुरुषस् त्व् एवं स्वयं सम्पद्यते हि यः ।
स निमेषं प्रति व्योम्नि समुदेत्य् अथ लीयते ॥

6.46.10

निमेष एव कल्पौघमहाकल्पपरम्पराः ।
प्रतिभासविपर्यासमात्रेणानुभवत्य् अलम् ॥

6.46.11

परमाणौ परमाणौ व्योम्नि व्योम्नि क्षणे क्षणे ।
सर्गकल्पमहाकल्पभावाभावा भवन्ति हि ॥

6.46.12

दृश्यन्ते केचिद् अन्योऽन्यं साधर्म्यं वासनाशतैः ।
मिथः केचिन् न दृश्यन्ते केचित् पश्यन्ति नेतरम् ॥

6.46.13

केचिन् नान्येन दृश्यन्ते दृष्टेनाप्य् असदात्मना ।
सर्गास् सर्गेण सर्वत्र सम्भवन्ति न ते शिवे ॥

6.46.14

भवन्ति परमे व्योम्नि व्योमरूपा इति स्वयम् ।
स्वयं च सदसद्रूपा लीयन्ते स्वप्नशैलवत् ॥

6.46.15

सर्गैर् न देश आक्रान्तो न च कालो न कर्तृता ।
न चैते सत्स्वरूपा वा न कल्पं नैव च क्षणम् ॥

6.46.16

न चेदं जायते किञ्चिन् न च किञ्चन नश्यति ।
स्वचमत्काररूपेण चिच् चमत्कुरुते चिति ॥

6.46.17

स्वप्नपत्तननिर्माणपातोत्पतनवज् जगत् ।
न देशकालाक्रमणं करोति मनसाम् अपि ॥

6.46.18

यथा सङ्कल्पशैलेन देशकालाद्यनन्तकम् ।
आक्रान्तम् अपि नाक्रान्तं तथैव जगतासता ॥

6.46.19

सम्पद्यते यथाद्यो ऽसौ पुरुषस् सर्गकारकः ।
अनेनैव क्रमेणेह कीटस् सम्पद्यते क्षणात् ॥

6.46.20

तस्थुषाम् एवम् एवेह जातयो हि चतुर्विधाः ।
रुद्राद्यास् तरुपर्यन्तास् सम्पद्यन्ते क्षणं प्रति ॥

6.46.21

परमापरमास् सन्ति तथा केचिद् अणूपमाः ।
एष एव क्रमस् तेषां सति चासति सर्गके ॥

6.46.22

अस्यास् संसारमायाया एवम्भूतार्थभावनात् ।
भेदोपशान्ताव् अभ्यासाद् भवत्य् उपशमश् शिवः ॥

6.46.23

निमेषशतभागार्धमात्रम् एव परा चितिः ।
स्वरूपतश् चेल् लुठिता तद् एषोदेत्य् अवस्थितिः ॥

6.46.24

सा ज्ञरूपा शिलाकोश इव चेत् स्वात्मनि स्थिता ।
तद् अनाद्यवभासात्मब्रह्मशब्देन गीयते ॥

6.46.25

अस्मिन् प्रौढिं गते सर्गे महाचिच् चेतनं नवम् ।
सङ्गम् आगत्य दिग्देशकालांशपरमाणुना ॥

6.46.26

जीवताम् आगता भूततन्मात्रवलनाक्रमात् ।
भवत्य् अगमृगीवीरुत्कीटदेवासुरादिकम् ॥

6.46.27

यस्मिन् नित्ये तते तन्तौ दृढे स्रग् इव तिष्ठति ।
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥

6.46.28

न तद् दूरे न निकटे नोर्ध्वे नाधो न ते न मे ।
न पूर्वं नाद्य न प्रातर् न सन् नासन् न मध्यगम् ॥

6.46.29

अनुभवकलनाद् ऋते ऽस्य माता भवति न सर्वविकल्पनेषु सत्सु ।
फलदुरुविभवा प्रमाणमाला स्थितिम् उपयाति न वारिणीव वह्निः ॥

6.46.30

यथापृष्टं मुने प्रोक्तं त्वयि कल्याणम् अस्तु ते ।
देशं प्रयामो ऽभिमतम् आगच्छोत्तिष्ठ पार्वति ॥

6.46.31

इत्य् उक्त्वा नीलकण्ठो ऽसौ त्यक्तपुष्पाञ्जलौ मयि ।
ततार परिवारेण समम् अम्बरकोटरम् ॥

6.46.32

तस्मिन् गते त्रिभुवनाधिपताव् उमेशे स्थित्वा क्षणं तदनु संस्मृतिपूर्वम् एव ।
अङ्गीकृतं नवपवित्रतया मयात्मदर्भासनं श्रमवतेव महाश्रुतं तत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc