भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.44

6.44.1

यथाकामं यथारम्भं न करोषि करोषि यत् ।
चिन्मात्रस्य शिवस्यान्तस् तद् देवार्चनम् आत्मनः ॥

6.44.2

तेनैवाह्लादम् आयाति याति प्रकटतां तथा ।
तथास्थितेन रूपेण स्वेनैव स्वयम् ईश्वरः ॥

6.44.3

रागद्वेषादिशब्दार्था नात्मन्य् अन्यतमाश् शिवे ।
सम्भवन्ति पृथग्रूपा वह्नौ हिमकणा इव ॥

6.44.4

यद् यद् राजत्वदीनत्वसुखदुःखादिवेदनम् ।
आत्मीयं परकीयं च तत् तद् अर्चनम् आत्मनः ॥

6.44.5

विद्धि संवित्तिम् एवार्चां वेत्त्य् आत्मात्मानम् एव च ।
घटाद्यात्मतया ब्रह्मन् स्वयम् आत्मतयैव वा ॥

6.44.6

शिवं शान्तम् अनाभासम् एकं भासुरम् आततम् ।
जगत्प्रत्ययवत् सर्वम् आत्मरूपम् इदं स्थितम् ॥

6.44.7

अहो नु चित्रम् आत्मैव घटाद्य् अन्यद् अवस्थितम् ।
जीवादिस् स्वस्थ एवान्तर् नूनं विस्मृतवान् इव ॥

6.44.8

सर्वात्मकस्यानन्तस्य शिवस्यान्तः किलात्मनः ।
पूज्यपूजकपूजाख्यो विभ्रमः प्रोदितो वृथा ॥

6.44.9

नियताकारशान्तत्वं न च सम्भवतीश्वरे ।
यतस् सङ्कल्प्यते ब्रह्मन् पूज्यपूजामयः क्रमः ॥

6.44.10

पूज्यपूजाव्यवच्छिन्नो देवो ऽनित्यो ऽमलात्मनः ।
सर्वशक्तेर् अनन्तस्य नेश्वरत्वस्य भाजनम् ॥

6.44.11

त्रिजगत्प्रसृताच्छाच्छसंविद्रूपस्य चात्मनः ।
नेश्वरत्वाद् ऋते ब्रह्मन् व्यपदेशो ऽपि युज्यते ॥

6.44.12

देशकालपरिच्छिन्नो येषां स्यात् परमेश्वरः ।
अस्माकम् उपदेश्यास् ते न विपश्चिद् विपश्चितः ॥

6.44.13

तदीयां दृष्टिम् उत्सृज्य तथेमाम् अवलम्ब्य च ।
समस् स्वस्थमनाश् शान्तो वीतरागो निरामयः ॥

6.44.14

कार्योपहारैर् अभितो यथाप्राप्तैर् अखिन्नधीः ।
आत्मानम् अर्चयंस् तिष्ठ सुखदुःखशुभाशुभैः ॥

6.44.15

अधिगतवति साधाव् एवम् एवाशु नूनं त्वयि तरलितजीवं जन्मदुःखादि किञ्चित् ।
न लगति परिशुद्धे सर्वतस् स्फाटिकाङ्गे नवसदन इवान्तर् निष्कलङ्के कलङ्कः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc