मोक्षोपाय · अध्याय 6.43
पावनं पावनानां यद् यत् सर्वतमसां क्षयः ।
तद् इदानीं प्रवक्ष्ये ऽहम् अन्तःपूजनम् आत्मनः ॥
गच्छतस् तिष्ठतश् चैव जाग्रतस् स्वपतो ऽपि वा ।
सर्वाचारवतः पूजा नित्यध्यानात्मिका त्व् इयम् ॥
नित्यम् एव शरीरस्थम् इदं ध्यायेत् परं शिवम् ।
सर्वप्रत्ययकर्तारं स्वयम् आत्मानम् आत्मना ॥
शयानम् उत्थितं चैव व्रजन्तम् अथ वा स्थितम् ।
स्पृशन्तम् अभितस् स्पर्शांस् त्यजन्तम् अथ वाभितः ॥
भुञ्जानं सन्त्यजन्तं च भोगान् आभोगपीवरान् ।
बाह्यार्थगणकर्तारं सर्वकार्यस्वरूपदम् ॥
देहलिङ्गेश्वरान्तस्स्थं त्यक्तलिङ्गान्तरादिकः ।
यथाप्राप्तार्थसंवित्त्या बोधलिङ्गं प्रपूजयेत् ॥
प्रवाहापतितार्थस् तु सम्बोधस्नानशुद्धिमान् ।
नित्यावबोधार्हणया बोधलिङ्गं प्रपूजयेत् ॥
आदित्यभावनाभोगभाविताम्बरभास्करम् ।
शशाङ्कभावनाभोगभावितेन्दुं सदोदितम् ॥
प्रतिभातपदार्थौघनित्यावगतसंविदम् ।
द्वारैर् वहन्तं शारीरैर् मुखे प्राणस्वरूपिणम् ॥
रसीकृतरसं प्राणस्वान्तोदात्ततुरङ्गमम् ।
प्राणापानरथारूढं गूढम् अन्तर्गुहाशयम् ॥
ज्ञातारं ज्ञेयदृष्टीनां कर्तारं सर्वकर्मणाम् ।
भोक्तारं सर्वभोज्यानां स्मर्तारं सर्वसंविदाम् ॥
सम्यक्संविदिताङ्गौघं भवभावनभावितम् ।
आभासभासनं भूरि सर्वगं चिन्तयेच् छिवम् ॥
निष्कलं सकलं चैव देहस्थं व्योमचारिणम् ।
अरञ्जितं रञ्जितं च नित्यम् अङ्गाङ्गसंविदा ॥
मनोमननशक्तिस्थं प्राणापानान्तरोदितम् ।
हृत्कण्ठतालुमध्यस्थं भ्रूनासापुटपीठगम् ॥
षट्त्रिंशत्पदकोटिस्थम् उन्मनान्तदशातिगम् ।
कुर्वन्तम् अन्तश् शब्दादींश् चोदयन्तं मनःखगम् ॥
विकल्पिन्य् अविकल्पे च त्रिविधे वाक्पथे स्थितम् ।
तिले तैलम् इवाङ्गेषु सर्वेष्व् एवान्तर् आश्रितम् ॥
कलाकलङ्करहितं कलितं कलनागणैः ।
एकदेशे स्वहृत्पद्मे सर्वदेहे च संस्थितम् ॥
चिन्मात्रम् अमलाभासं कलाकलनकल्पनम् ।
प्रत्यक्षदृश्यं सर्वत्र स्वानुभूतिमयात्मकम् ॥
प्रत्यक्चेतनम् आत्मीयम् आत्मत्वेन पुरस्स्थितम् ।
पदार्थताम् उपेत्याशु क्षणाद् द्वित्वम् इवागतम् ॥
सहस्तपादावयवस् सकेशनखदन्तकः ।
स्वदेहो ऽहं चिदाभासो देवो ऽयम् इति भावयेत् ॥
विचित्राश् शक्तयो बह्व्यो नानाचारा मनोदृशाम् ।
उपासते मां मानस्यः पत्न्यो वरम् इवोत्तमम् ॥
मनो मे द्वारपालो ऽयम् निवेदितजगत्त्रयः ।
चिन्तेयं मे प्रतीहारी पुरस्स्था शुद्धरूपिणी ॥
शक्तिर् ममाङ्गगा बुद्धिः क्रिया चैवापराङ्गगा ।
ज्ञानानि च विचित्राणि भूषणान्य् अङ्गगानि मे ॥
कर्मेन्द्रियाणि द्वाराणि बुद्धीन्द्रियगणो ऽङ्गनाः ।
अयं सो ऽहम् अनन्तात्मा व्यवच्छेदोज्झितश् चिति ॥
तिष्ठामि भरितैकात्मा पूर्णस् सर्वावपूरकः ।
इति देवीम् उपाश्रित्य स्वच्छाम् आत्मचमत्कृतिम् ॥
देववत् परिपूर्णो ऽन्तर् अदीनात्मा च तिष्ठति ।
नास्तम् एति न चोदेति न तुष्यति न तप्यते ॥
न तृप्तिं न क्षुधं याति नाभिवाञ्छति नोज्झति ।
समस् समसमाचारस् समाभासस् समाकृतिः ॥
सोम्यताम् अलम् आयातस् समन्तात् सुन्दराशयः ।
आदेहम् एक एवासाव् अव्युच्छिन्नमहामतिः ॥
देवार्चनं करोत्य् एवं दीर्घदीर्घम् अहर्निशम् ।
चित्तत्त्वावलितो देहो देवो ऽस्य परिकीर्तितः ॥
यथाप्राप्तेन सर्वेण तम् अर्चयति वस्तुना ।
समयामलया बुद्ध्या चिन्मात्रं देहतत्परम् ॥
यथाप्राप्तक्रमोत्थेन सर्वार्थेन समर्चयेत् ।
मनाग् अपि न कर्तव्यो यत्नो ऽत्रापूर्ववस्तुनि ॥
प्रातर् धर्मेहया नित्यं ततो ऽर्थक्रिययानघ ।
कामसंवेदनेनाथ पूजयेच् चेतनं विभुम् ॥
भक्ष्यभोज्यान्नपानेन नानाविभवशालिना ।
शयनासनयानेन यथाप्तेनार्चयेच् चितिम् ॥
कान्तान्नपानसम्भोगसंरम्भादिविलासिना ।
सुखेन सर्वरूपेण सम्बुध्यात्मानम् अर्चयेत् ॥
आधिव्याधिपरीतेन मोहसंरम्भशालिना ।
सर्वोपद्रवदुःखेन प्राप्तेनात्मानम् अर्चयेत् ॥
सीमान्तैस् सम्पदां चैव चेष्टानां जगतस् स्थितेः ।
मृतजीवितसत्त्वैश् च प्राप्तैर् आत्मानम् अर्चयेत् ॥
दारिद्र्येणाथ राज्येन वा प्रवाहागतात्मना ।
विचित्रचेष्टापुष्पेण बुद्ध्वात्मानं समर्चयेत् ॥
नानाकलहकल्लोलवलनोल्लासशालिना ।
रागद्वेषविलासेन सोम्यम् आत्मानम् अर्चयेत् ॥
सतां हृदयहारिण्या रूढया शशिशीतया ।
मैत्र्या माधुर्यधर्मिण्या हृत्स्थम् आत्मानम् अर्चयेत् ॥
भोगानाम् अविरुद्धानां निषिद्धानां च सर्वदा ।
त्यागेन वाथ रागेण स्वात्मानं बुद्धम् अर्चयेत् ॥
ईहितानीहितौघेन युक्तायुक्तमयात्मना ।
त्यक्तेनार्तेन वार्थ्येन प्राप्तेनात्मानम् अर्चयेत् ॥
नष्टं नष्टम् उपेक्षेत प्राप्तं प्राप्तम् उपाहरेत् ।
निर्विकारतयैतद् धि परमार्चनम् आत्मनः ॥
सर्वदैव समग्रासु चेष्टानिष्टासु दृष्टिषु ।
परमं साम्यम् आदाय नित्यात्मार्चाव्रतं चरेत् ॥
सर्वं विन्देत सुशुभं सर्वं विन्द्याच् च वाशुभम् ।
सर्वम् आत्ममयं कुर्यान् नित्यात्मार्चापरो नरः ॥
आपातरमणीयं यद् यच् चापातसुदुस्सहम् ।
तत् सर्वं सुसमं बुद्ध्वा नित्यात्मार्चाव्रतं चरेत् ॥
अयं सो ऽहम् अयं नाहं विभागम् इति सन्त्यजेत् ।
सर्वं ब्रह्मेति निश्चित्य नित्यात्मार्चाव्रतं चरेत् ॥
सर्वदा सर्वरूपेण सर्वाकारविकारिणा ।
सर्वासर्वप्रकारेण प्राप्तेनात्मानम् अर्चयेत् ॥
न वाञ्छता न त्यजता ज्ञेन प्राप्तास् स्वभावतः ।
सरितस् सागरेणेव भोक्तव्या भोगभूमयः ॥
उद्वेगो नानुगन्तव्यस् तुच्छातुच्छासु दृष्टिषु ।
व्योम्ना चित्रपदार्थेषु पतितोत्पतितेष्व् इव ॥
देशकालक्रियायोगाद् यद् उदेति शुभाशुभम् ।
अविकारं गृहीतेन तेनैवात्मानम् अर्चयेत् ॥
आत्मार्चनविधाने ऽस्मिन् प्रोक्ता द्रव्यश्रियस् तु याः ।
एकेनैव शमेनैता रसेन परिभाविताः ॥
नाम्ब्ला न कट्व्यो नो तिक्ता न कषायाश् च काश्चन ।
चित्रैर् अपि रसैर् दिग्धा मधुरा एव ताश् चितः ॥
समतामधुरा रम्या रसशक्तिर् मुनीन्द्र या ।
तया यद् भावितं चेत्यम् अमृतं तत् क्षणाद् भवेत् ॥
समतामृतपूरेण यद् यन् नाम विभाव्यते ।
तत् तद् आयाति माधुर्यं परम् इन्दोर् इव च्युतम् ॥
समम् आकाशवद् भूत्वा यद् अहृल्लेखम् आसनम् ।
अविकारम् अनायासं तद् देवार्चनम् उच्यते ॥
पूर्णेन्दुनेव पूर्णेन भाव्यं शमसमत्विषा ।
स्वच्छेन चिद्घनैकेन ज्ञेनाप्य् उपलरूपिणा ॥
अन्तर् आकाशविशदो बहिः प्रकृतकार्यकृत् ।
रञ्जनामिहिकामुक्तस् सम्पूर्णो ज्ञ उपासकः ॥
स्वप्ने ऽप्य् अदृश्यहृल्लेखम् अज्ञानाभ्रपरिक्षये ।
शान्ताहन्तादिमिहिकं ज्ञशरद्व्योम राजते ॥
सामान्यम् अस्तमितमानसमातृमेयं सद्यःप्रसूतशिशुवेदनवद्वितानम् ।
सम्यक्प्रशान्तमतिचेतनचित्तजीवं जीवञ् ज्ञ उत्तमपदस्थित एव तिष्ठ ॥
देशकालकलनक्रमोदितैस् सर्ववस्तुसुखदुःखविभ्रमैः ।
नित्यम् अर्चितशरीरनायकस् तिष्ठ शान्तसकलेहया धिया ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0