भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.42

6.42.1

एष देवस् स परमः पूज्य एष सदा सताम् ।
चिन्मात्रम् अनुभूतात्मा सर्वगस् सर्वसंश्रयः ॥

6.42.2

घटे पटे वटे कुड्ये शकटे वानरे स्थितः ।
शिवो हरो हरिर् ब्रह्मा शक्रो वैश्रवणो यमः ॥

6.42.3

बहिर् अन्तश् च सर्वात्मा सदा स्वात्मा सुबुद्धिभिः ।
द्विविधेन क्रमेणैष भगवान् परिपूज्यते ॥

6.42.4

बहिस् तावन् महाबुद्धे क्रमेण परिपूज्यते ।
येन तं शृणु तत्त्वज्ञ श्रोष्यस्य् अन्तःक्रमं ततः ।
पूजाक्रमेषु सर्वेषु नेह दार्भं पवित्रकम् ॥

6.42.5

पूजनं ध्यानम् एवात्र ध्यानम् एवात्र पूजनम् ।
तस्मात् त्रिभुवनाधारे नित्यं ध्यानेन पूजयेत् ॥

6.42.6

चिद्रूपं सूर्यलक्षाभं समस्ताभासभासनम् ।
अन्तस्स्थचित्प्रकाशं स्वम् अहन्तासारम् आश्रयेत् ॥

6.42.7

अपारपरमाकाशविपुलाभोगकन्धरम् ।
अनन्ताधस्पदाकाशकोशपादसरोरुहम् ॥

6.42.8

अनन्तदिक्तटाभोगभुजमण्डलमण्डितम् ।
नानाविधमहालोकगृहीतपरमायुधम् ॥

6.42.9

हृत्कोशकोणविश्रान्तब्रह्माण्डौघपरम्परम् ।
प्रकाशपरमाकाशपारगापारविग्रहम् ॥

6.42.10

ब्रह्मेन्द्रहरिरुद्रेशप्रमुखाम् अमरादिकाम् ।
इमां भूतश्रियं तस्य रोमालीं परिचिन्तयेत् ॥

6.42.11

विविधारम्भकारिण्यस् त्रिजगद्यन्त्ररज्जवः ।
इच्छाद्याश् शक्तयस् सर्वाश् चिन्तनीयाश् शरीरगाः ॥

6.42.12

अनन्तैकपदाधारस् सत्तामात्रैकविग्रहः ।
विवर्तितजगज्जालः कालो ऽस्य द्वारपालकः ॥

6.42.13

सशैलभुवनाभोगम् इदं ब्रह्माण्डमण्डलम् ।
देहकोणे ऽस्य कस्मिंश्चित् स्वाङ्गावयवतां गतम् ॥

6.42.14

विचिन्तयेन् महादेवं सहस्रचरणेक्षणम् ।
सहस्रशिरसं शान्तं सहस्रभुजभूषणम् ॥

6.42.15

सर्वत्रेक्षणशक्त्याढ्यं सर्वतो घ्राणशक्तिगम् ।
सर्वत्र स्पर्शनमयं सर्वतो रसनान्वितम् ॥

6.42.16

सर्वत्र श्रवणाकीर्णं सर्वत्र मनसान्वितम् ।
सर्वतो मननातीतं सर्वत्र परमं शिवम् ॥

6.42.17

सर्वदा सर्वकर्तारं सर्वसङ्कल्पितार्थदम् ।
सर्वभूतान्तरालस्थं सर्वं सर्वैकसाधनम् ॥

6.42.18

इति सञ्चिन्त्य देवेशम् अर्चयेद् विधिवत् ततः ।
विधानम् अर्चनस्येदं शृणु ब्रह्मविदां वर ॥

6.42.19

देवं स्वसंविदात्मानं नोपहारेण पूजयेत् ।
न दीपेन न धूपेन न पुष्पविभवार्पणैः ॥

6.42.20

नान्नदानादिदानेन न चन्दनविलेपनैः ।
न च कुङ्कुमकर्पूरैर् भोगैश् चित्रैर् न चेतरैः ॥

6.42.21

नित्यम् अक्लेशलभ्येन शीतलेनाविनाशिना ।
एकेनैवामृतेनैष बोधेन स्वेन पूज्यते ॥

6.42.22

एतद् एव परं ध्यानं पूजैषैव परा स्मृता ।
यद् अनारतम् अन्तस्स्थशुद्धचिन्मात्रवेदनम् ॥

6.42.23

पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् ।
प्रलपन् विसृजन् गृह्णञ् शुद्धसंविन्मयो भवेत् ॥

6.42.24

ध्यानामृतेन सम्पूज्यस् स्वयम् आत्मायम् ईश्वरः ।
परमास्वादयुक्तेन मुक्तेन कुसुमेहितैः ॥

6.42.25

ध्यानोपहार एवात्मध्यानं ह्य् अस्य समीहितम् ।
ध्यानम् अर्घ्यं च पाद्यं च शुद्धसंवेदनात्मकम् ॥

6.42.26

ध्यानसंवेदनं पुष्पं धूपं दीपं परं विदुः ।
विना तेनेतरेणायम् आत्मा लभ्यत एव नो ॥

6.42.27

ध्यानात् प्रसादम् आयातस् सर्वलोकसुखश्रियम् ।
अयम् आत्मा मुने भुङ्क्ते देहे भूपो गृहे यथा ॥

6.42.28

ध्यानेनानेन सुमुने निमेषांस् तु त्रयोदश ।
पूर्णो ऽपि पूजयत्व् ईशं गोप्रदानं लभेत वै ॥

6.42.29

पूजयित्वा निमेषाणां शतम् एकम् इति प्रभुम् ।
अश्वमेधस्य यज्ञस्य फलम् आप्नोति मानवः ॥

6.42.30

ध्यानबल्युपहारेण स्वयम् आत्मानम् आत्मना ।
घटिकां पूजयेद् यस् तु राजसूयं लभेत सः ॥

6.42.31

मध्याह्नपूजनाद् इत्थं राजसूयैकलक्षभाक् ।
दिवसं पूजयित्वैवं परे धाम्नि वसेन् नरः ॥

6.42.32

एषो ऽसौ परमो योग एषा सा परमा क्रिया ।
बाह्यसम्पूजनं प्रोक्तम् एतद् उत्तमम् आत्मनः ॥

6.42.33

एतत् पवित्रम् अखिलाघविनाशहेतुं यस् त्व् आचरिष्यति नरः क्षणम् अप्य् अखिन्नः ।
तं वन्दयिष्यति सुरासुरलोकपूगः प्राप्तास्पदं जगति माम् इव लोकसारम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc