भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.37

6.37.1

चन्द्रार्धशेखरधर चित्तत्त्वस्य महात्मनः ।
अनन्तस्यैकरूपस्य द्वित्वं कथम् इवागतम् ॥

6.37.2

कथं च तन् महादेव रूढं सत् कालपर्ययात् ।
भवेद् दुःखोपघाताय प्रज्ञया विनिवारितम् ॥

6.37.3

सर्वशक्तिर् हि चिद् ब्रह्म सद् एकं विद्यते यदा ।
तदा निर्मूल एवायं द्वित्वैकत्वलयोदयः ॥

6.37.4

सति द्वित्वे किलैकं स्यात् सत्य् एकत्वे द्विरूपता ।
कले द्वे एव चिद्रूपं चिद्रूपत्वात् तद् अप्य् असत् ॥

6.37.5

एकाभावाद् अभावो ऽत्र चैकत्वद्वित्वयोर् द्वयोः ।
एकं विना द्वितीयं न न द्वितीयं विनैकता ॥

6.37.6

कार्यकारणयोर् एकसारत्वाद् एकरूपता ।
फलान्तस्यापि बीजादेर् विकारादि हि कल्पना ॥

6.37.7

चित्त्वं चेत्यविकल्पेन स्वयं स्फुरति तन्मयम् ।
विकारादि तद् एवातस् तत्सारत्वान् न भिद्यते ॥

6.37.8

विकारादिविकल्पो ऽयं तत उत्थाय वस्तुषु ।
याति सार्थकताम् नानाकार्यकारणकादिभिः ॥

6.37.9

तरङ्गस् सलिले ऽतोयम् अतो ऽयं यस्य ते स नः ।
शशशृङ्गसमस् सो ऽपि यस्य सत्यं स खाङ्कुरः ॥

6.37.10

वस्तुबोधे ऽत्र सम्पन्ने तवालं वाग्विकल्पितैः ।
व्यवच्छेदादि दुश्छेदं वचो वाक्त्वात् किल द्विज ॥

6.37.11

ब्रह्मणस् सर्वशक्तित्वं तत्त्वतो न विभिद्यते ।
स्वम् अङ्ग कणकल्लोलजालाद्य् अम्बुधिवारिणः ॥

6.37.12

पुष्पपल्लवपत्त्रादि लताया नेतरद् यथा ।
द्वित्वैकत्वे जगत्त्वादि त्वत्ताहन्त्वं तथा चितेः ॥

6.37.13

देशकालविकारादिभेदश् चिद्रचितस् तु यत् ।
तच् चिद् एवेति ते प्रोक्तं न प्रश्नो ऽत्र तवोचितः ॥

6.37.14

देशकालक्रियासत्तानियत्याद्याश् च शक्तयः ।
चिदात्मिका एव चितेस् सत्त्वात् सम्पतितास् स्वतः ॥

6.37.15

चिच् च चर्चितचेत्येह चिद् ब्रह्माद्यभिधा स्मृता ।
यथा वीच्यभिधार्हत्वे स्थितम् अम्बु तरङ्गितम् ॥

6.37.16

अहम्भावतरङ्गस्य चिद्विलासमहाम्बुधेः ।
तरङ्गितत्वम् इव यन् न तावच् चेत्यतां गतम् ॥

6.37.17

तद् एतत् परमं ब्रह्म सत्येश्वरशिवादिभिः ।
शून्यैकपरमात्मादिनामभिः परिगीयते ॥

6.37.18

एवंरूपपदातीतं यद् रूपं परमात्मनः ।
तन् न नामार्हम् अमलं विषयो न गिरां च तत् ॥

6.37.19

यद् इदं दृश्यते तस्यास् तल् लताया महाचितेः ।
फलपल्लवपुष्पादि न भिन्नं तन्मयं यतः ॥

6.37.20

महाचिच्चेत्यचयनाच् चिद् भवत्य् अभिधावती ।
सा जीवत्वं स बाह्यत्वं तद् अद्वि द्वीव पश्यति ॥

6.37.21

स्वयम् अन्येयम् अस्मीति भावयित्वा स्वभावतः ।
अन्यताम् इव संयाति स्वसङ्कल्पात्मिकां स्वताम् ॥

6.37.22

अकलङ्केन रूपेण रूपं यत् स्वकलङ्कवत् ।
संसारपतितं प्राप्य चेतनेनैव चेतितम् ॥

6.37.23

चिद्वपुस् स्वयम् एवैतद् एकतो याति जीवताम् ।
चित्तत्त्वस्यावभासेन जीवो जीवति तन्मयः ॥

6.37.24

आतिवाहिकदेहा चिज् जीवतां समुपागता ।
भावनात् पञ्चकीभूता द्रव्यम् अस्मीति वेत्त्य् अलम् ॥

6.37.25

तद् द्रव्यं प्राणिना भुक्तम् आशु गच्छति वीर्यताम् ।
ततो ऽहं प्राणवाञ् जातो वेत्तीत्य् अनुभवात्मकम् ॥

6.37.26

अहन्तादिक्रमेणाशु पञ्चकानुभवक्रमात् ।
स्थावरं जङ्गमं यद् यद् वेत्ति तत् तद् भवत्य् अलम् ॥

6.37.27

काकतालीययोगेन दृढाभ्यासक्षयेण च ।
वासनान्तरसंश्लेषात् पूर्वम् आकारम् उज्झति ॥

6.37.28

द्वित्वस्वसंविदा द्वित्वम् एकस्यैव प्रवर्तते ।
पुंसो वेतालसम्पर्काद् वेताल इव भासुरः ॥

6.37.29

अद्वित्ववेदनाद् द्वित्वम् आत्मनो विनिवर्तते ।
न करोमीति सङ्कल्पात् पुरुषस्येव कर्तृता ॥

6.37.30

परमार्थतया द्वित्वं न किलात्मनि विद्यते ।
अविकारादिमत्त्वेन सर्वगत्वेन सर्वदा ॥

6.37.31

यत् स्वसङ्कल्परचितम् असङ्कल्पक्षयं हि तत् ।
यथा मुने मनोराज्यं गन्धर्वनगरं यथा ॥

6.37.32

सङ्कल्परचनं क्लेशो न सङ्कल्पविनाशनम् ।
सङ्कल्पयत्नो गन्धर्वपुर्यास् सृष्टौ न तु क्षये ॥

6.37.33

पुष्टसङ्कल्पमात्रेण यद् इदं दुःखम् आगतम् ।
तद् असङ्कल्पमात्रेण क्षयि कात्र कदर्थना ॥

6.37.34

यत् किञ्चिद् अपि सङ्कल्प्य नरो दुःखे निमज्जति ।
न किञ्चिद् अपि सङ्कल्प्य सुखम् अक्षयम् अश्नुते ॥

6.37.35

सङ्कल्पव्यालनिर्मुक्तं स्थितं चेत् तव चेतनम् ।
तदानन्दवनोद्याने त्वम् उच्चैः परिराजसे ॥

6.37.36

स्वविवेकानिलैः कृत्वा सङ्कल्पजलदक्षयम् ।
परां निर्मलताम् एहि शरदीव नभोऽन्तरम् ॥

6.37.37

सङ्कल्पसरितं मत्तां मतियन्त्रेण शोषयन् ।
तत्रोह्यमानम् आत्मानं समाश्वास्य भवामनाः ॥

6.37.38

सङ्कल्पानिलनिर्धूतं भ्रान्तं पर्णतृणांशवत् ।
भूताकाशे त्वम् आत्मानम् अवलम्ब्यावलोकय ॥

6.37.39

स्वसङ्कल्पककालुष्यं विनिवार्यात्मनात्मनः ।
परं प्रसादम् आसाद्य परमानन्दवान् भव ॥

6.37.40

सर्वशक्तितयेहात्मा यद् यथा भावयत्य् अलम् ।
तत् तथा पश्यति तदा स्वसङ्कल्पविजृम्भितम् ॥

6.37.41

सङ्कल्पमात्रम् एवेदं जगन् मिथ्या समुत्थितम् ।
असङ्कल्पनमात्रेण ब्रह्मन् क्वापि विलीयते ॥

6.37.42

सङ्कल्पवातवलितं जन्मज्वालाकदम्बकम् ।
असङ्कल्पानिलस्पर्शाद् दीपवत् परिशाम्यति ॥

6.37.43

तृष्णाकरञ्जलतिकाम् इमां रूढिम् उपागताम् ।
सङ्कल्पमूलोद्धरणात् परिशोषवतीं कुरु ॥

6.37.44

प्रतिभाससमुत्थानं प्रतिभासपरिक्षयम् ।
यथा गन्धर्वनगरं तथा संसृतिविभ्रमः ॥

6.37.45

प्राकृतो ऽस्मीति विस्मृत्या तावच् छोचति भूमिपः ।
भूमिपो ऽस्मीति सञ्जाता यावन् नास्य हृदि स्मृतिः ॥

6.37.46

नश्यते जातया ब्रह्मन् प्राक्स्मृतिर् वर्तमानया ।
शरदेवोपगतया प्रावृड् जाड्यविकारिणी ॥

6.37.47

घनप्रवाहा यैव स्याच् चित्तेहा सैव वर्धते ।
य एवोच्चैस् स्वरस् तन्त्र्यास् स एवाक्रामति श्रुतिम् ॥

6.37.48

अहम् एको ऽहम् आत्मा त्व् इत्य् एकां भावय भावनाम् ।
तया भावनया युक्तस् स एव त्वं भवस्य् अलम् ॥

6.37.49

एवं ह्य् असम्भवद् इदं त्व् अविभागभास्वद् ब्रह्मत्वम् उत्तमपदं परम् एव देवः ।
पूजांशपूजनसुपूजकपूज्यरूपं किञ्चिन् नकिञ्चिद् इव चित्तपनैकमूर्तिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc