भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.36

6.36.1

मुने शृणु कथं कार्यकारिणी स्पन्दशालिनी ।
पतन्तीव चितिः पुंसाम् उपैति मरणाभिधाम् ॥

6.36.2

प्राक्तनैस् तैर् इहान्यैश् च स्वैर् मनोमननेहितैः ।
कर्मवातैर् विचित्रेहैः परिपीवरतां गतैः ॥

6.36.3

मनस्त्वं या गता शक्तिस् सुजडेव मुने चितेः ।
सा स्फुरत्य् अनया ब्रह्मन् स्वचिता साक्षिभूतया ॥

6.36.4

अस्याः प्रसादाद् इह सा चित् कलङ्कवती मुने ।
जगद्गन्धर्वनगरं करोति न करोति च ॥

6.36.5

विनात्मसत्तया जीवो मूकस् तिष्ठति कुड्यवत् ।
तत्सत्तया प्रस्फुरति नभस्सम्प्रेरिताश्मवत् ॥

6.36.6

यथा स्फुरत्य् अतिजडम् अयो ऽयस्कान्तसन्निधौ ।
तथा स्फुरति जीवो ऽयं सति सर्वगते परे ॥

6.36.7

सर्वस्थयात्मशक्त्यैव जीव एष स्फुरत्य् अलम् ।
मकुरो बिम्बम् आदत्ते द्रव्यान् नान्तस्स्थिताद् अपि ॥

6.36.8

सुविस्मृतस्वभावत्वाच् जीवो ऽयं जडतां गतः ।
मोहाद् विस्मृतभावत्वाच् छूद्रताम् इव सद्द्विजः ॥

6.36.9

प्रविस्मृतस्वभावा हि चिच् चित्तत्वम् उपागता ।
मोहोपहतचित्तत्वात् सुमहान् इव दीनताम् ॥

6.36.10

जडयावशया देहो वातशक्तिसमानया ।
सञ्चाल्यते कलनया पत्त्रं वा वीचिमालया ॥

6.36.11

कर्मात्मना वराकेण जीवेन मनसामुना ।
चाल्यन्ते देहयन्त्राणि पाषाणा इव वायुना ॥

6.36.12

शरीरशकटानां हि कर्षणे परमात्मना ।
मनःप्राणोदयौ ब्रह्मन् कृतौ कर्मकरौ दृढौ ॥

6.36.13

चिज् जडं तूररीकृत्य रूपं जीवत्वम् एव च ।
मनोरथम् उपारुह्य वहत्प्राणतुरङ्गमम् ॥

6.36.14

क्वचिज् जातपदार्थत्वं क्वचिन् नष्टपदार्थताम् ।
क्वचिद् बहुपदार्थत्वं क्वचिन् नानापदार्थतां ॥

6.36.15

गतेव भिन्नेवास्तेच्छम् अत्यजन्ती निजं पदम् ।
जलतेव तरङ्गत्वं सैवासेव सदोदिता ॥

6.36.16

उपजीव्यात्मनो रूपं परं स्फुरति वृत्तिषु ।
आलोकम् उपजीव्येमं रूपश्रीर् द्रव्यगा यथा ॥

6.36.17

परमात्मनि चित्तत्त्वे स्थिते सति निरामये ।
जीवो जीवति सालोकं दीपे सति गृहं यथा ॥

6.36.18

आधयो व्याधयश् चैव प्रयान्त्य् अस्याः प्रपीनताम् ।
अपाम् इव तरङ्गत्वं वीचित्वस्येव फेनता ॥

6.36.19

आधिव्याधिभिर् आकीर्णश् शरीराम्भोजषट्पदः ।
जीवो वैवश्यम् आयाति तरङ्गत्वं यथा पयः ॥

6.36.20

चिच्छक्तिस् सर्वशक्तित्वान् नाहं चिद् इति भावनात् ।
स्ववशैवैति वैवश्यं सूर्यदीप्तिर् इवाम्बुदैः ॥

6.36.21

वैवश्याशावती मौढ्यान् न विन्दत्य् आत्मसंविदम् ।
घनजाड्यपराभूतस् स्वाङ्गावदलनं यथा ॥

6.36.22

प्राणवाय्वनुसन्धानम् अस्या मोहाद् विनश्यति ।
घनमोहवतो जन्तोस् स्वकार्यस्मरणं यथा ॥

6.36.23

अथाङ्गसंविदो वातस् स्पन्दशक्तेश् च मोहतः ।
न करोत्य् अनुसन्धानं कुष्ठी स्पन्दैषणं यथा ॥

6.36.24

असंवित्स्पन्दने देहे पद्मपत्त्रं हृदि स्थितम् ।
न स्फुरत्य् अपरामृष्टं दारुपत्त्रं यथा बहिः ॥

6.36.25

निस्स्पन्दे पद्मपत्त्रे ऽन्तः प्राणाश् शान्तिं प्रयान्त्य् अमी ।
तालवृन्ते यथास्पन्दे बहिः पवनशक्तयः ॥

6.36.26

प्राणे शान्ते ऽन्तर् अस्पर्शाज् जीवो निपुणमूकताम् ।
याति शान्ते नभोवायाव् अदृश्यत्वं यथा रजः ॥

6.36.27

विरथं विगताधारं मनोमात्रं हि दृश्यते ।
तिष्ठत्य् आत्मन्य् अलब्धोर्वीजलादितरुबीजवत् ॥

6.36.28

इति वैकल्यम् आयाते करणौघे समन्ततः ।
नाशं पुर्यष्टके याते देहः पतति निश्चलः ॥

6.36.29

चिच्चेत्यचेतनान् मोहात् स्पन्दम् आयाति वासना ।
उदीरिता स्मरत्य् अन्यद् अन्यद् विस्मरति स्वयम् ॥

6.36.30

हृत्पद्मयन्त्रस्फुरणात् स्फुटं पुर्यष्टकं भवेत् ।
हृत्पद्मयन्त्रे वहनाद् रुद्धे पुर्यष्टकं क्षयि ॥

6.36.31

देहे पुर्यष्टकं यावद् अस्ति तावत् स जीवति ।
शान्ते पुर्यष्टके देहो मृत इत्य् उच्यते द्विज ॥

6.36.32

विरुद्धमलसंरोधाच् छेदभेददशावशात् ।
न प्रस्फुरति हृत्पद्मयन्त्रम् अभ्यन्तरे यदा ॥

6.36.33

तदा पुर्यष्टकं शान्तिम् उपैति गगने शनैः ।
संरोधिते वातयन्त्रे यथा पवनसन्ततिः ॥

6.36.34

स्वासंवित्तिवशाज् जीवो वैवश्यम् उपगच्छति ।
पद्मयन्त्रं शरीरस्थं न वाहयति निस्सहः ॥

6.36.35

वासना विमला येषां हृदयान् नापसर्पति ।
स्थिरैकरूपजीवास् ते जीवन्मुक्ताश् चिरायुषः ॥

6.36.36

संरुद्धे पद्मयन्त्रे हि प्राणे शान्तिम् उपागते ।
देहः पतत्य् अधैर्यो ऽयं काष्ठलोष्टसमः क्षितौ ॥

6.36.37

यथैव व्योममरुति लीनं पुर्यष्टकं भवेत् ।
तथैव तत्रैव तदा लयम् एति मनो मुने ॥

6.36.38

सुचिराभ्यस्तभावस्थवासनानुचितं मनः ।
यत्र तत्र भ्रमं स्वर्गनरकादिं प्रपश्यति ॥

6.36.39

शरीरं शवताम् एति मनोमारुतवर्जितम् ।
गते गृहजने दूरं गृहं संशून्यताम् इव ॥

6.36.40

सर्वगा चिच् चेतनतो जीवीभूय मनस्स्थिता ।
पुर्यष्टकवपुर् भूत्वैवातिवाहिकदेहिनी ॥

6.36.41

तन्मात्रपञ्चकं चित्त्वं क्रोडीकृत्य व्यवस्थिता ।
स्वप्नभ्रमवद् आकारं भावात् स्थूलं प्रपश्यति ॥

6.36.42

दृढभावनया पश्चात् तत्रैव रसशालिनी ।
आतिवाहिकदेहत्वं विस्मरत्य् अखिलं क्षणात् ॥

6.36.43

असत्य् एव शरीरे ऽस्मिन् कृता कृत्रिमभावना ।
नयत्य् असत्यं सत्यत्वं सत्यं चासत्यताम् अपि ॥

6.36.44

सर्वगा हि चिद् अंशेन जीवीभूय भवेन् मनः ।
मनः पुर्यष्टकरथम् आक्रामति ततो जगत् ॥

6.36.45

पुर्यष्टकं वातमयं देहम् उत्थापयत्य् अलम् ।
हृत्स्थं हि वेताल इव जीव इत्य् उच्यते तदा ॥

6.36.46

क्षीणे पुर्यष्टके चित्तं यदा व्योमनि लीयते ।
तदा स्फुरति नो देहो मृत इत्य् उच्यते ऽपि च ॥

6.36.47

स्वभाववशतो जीवो विस्मृत्याशक्तिम् ऋच्छति ।
वैरस्यात् कालवशतः पर्णं जर्जरताम् इव ॥

6.36.48

जीवशक्त्यापरामृष्टे निरुद्धे पद्मयन्त्रके ।
प्राणे संरोधम् आयाते म्रियते मानवो मुने ॥

6.36.49

यथा जातानि जातानि तान्य् अथान्यानि कालतः ।
वृक्षात् पर्णानि शीर्यन्ते शरीराणि तथा नृणाम् ॥

6.36.50

जायन्ते च म्रियन्ते च शरीराणि शरीरिणाम् ।
पादपानां च पर्णानि का तत्र परिदेवना ॥

6.36.51

चिदम्बुधौ स्फुरन्त्य् एता देहबुद्बुदपङ्क्तयः ।
इतश् चान्या इतश् चान्या एतास्व् आस्था न धीमतः ॥

6.36.52

सर्वगापि चिद् एतस्मिंश् चेतसि प्रतिबिम्बते ।
पदार्थम् अन्तर् आदत्ते नान्यो हि मकुराद् ऋते ॥

6.36.53

चिदमलनभसि प्रसन्नरूपाः परिवितते तदतन्मये स्फुरन्ति ।
कलकलमुखरास् स्फुटाभिरामा विविधशरीरविमोहतापनद्यः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc