भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.38

6.38.1

इत्थं स्थितम् इदं विश्वं सदसद् देवरूपि च ।
द्वैतैक्यपदनिर्मुक्तं मुक्तद्वैतैक्यम् अप्य् उत ॥

6.38.2

चितेः कलङ्कवद् रूपम् इति संसारितां गतम् ।
अकलङ्कम् असंसारि तच् चाभिन्नं द्वयात्मकम् ॥

6.38.3

इयम् अस्मीति सम्प्राप्तकलङ्का चिन् निबध्यते ।
एताम् एव कलां बुद्ध्वा स्वत्वाभिन्नां विमुच्यते ॥

6.38.4

चिद् अर्थाकारताभावाद् द्वित्वात् सत्त्वं समुज्झती ।
सुखदुःखादितां धत्ते नसत्यां सद् इति क्षणात् ॥

6.38.5

शुद्धा निरंशा सत्यैका सत्ता चेत्येवमादिभिः ।
विमुक्ता नामशब्दार्थैस् सर्वैस् सर्वात्मिकापि खम् ॥

6.38.6

सर्वं निरुपमं शान्तं मनसो ऽन्ते त्रिमार्गगम् ।
ब्रह्मेदं बृंहितं ब्राह्म्या शक्त्याकाशनिकाशया ॥

6.38.7

मनसा मनसि च्छिन्ने सर्वाक्षप्रसवात्मनि ।
द्वितीये ऽथ तृतीये वा पदे किम् अवशिष्यते ॥

6.38.8

यावत् किलात्मनस् सत्ता महासत्तैव तावती ।
समस्तास्तमये जाते सत्ता केव कुतश् च का ॥

6.38.9

मनसा मनसि च्छिन्ने स्वेन्द्रियावयवात्मनि ।
विचारेण समाधानात् प्रयोगेण जयेन वा ॥

6.38.10

द्वैतैक्यकलनाभेदे गलिते कलितात्मनि ।
सत्यालोके जगज्जाले प्रोच्छूने विलयं गते ॥

6.38.11

शिष्यते शीर्णसंसारकलनाकलनात्मिका ।
भृष्टबीजोपमा सत्ता जीवस्य चितिनामिका ॥

6.38.12

पश्यन्तीनामकलिता त्यजन्ती चेत्यचर्वणम् ।
मनोमहाभ्रनिर्मुक्तशरदाकाशकोशवत् ॥

6.38.13

शुद्धा चिद् भावमात्रस्था चेत्यचिच्चापलाद् गता ।
अदूरविप्रकृष्टेशा पदोपनतिपावनी ॥

6.38.14

चिद् व्योमात्मेति कलिता गलिताखिलकल्पना ।
समस्तसामान्यवती नावतीर्णभवार्णवा ॥

6.38.15

अपुनर्बोधसौषुप्तपदपाण्डित्यपीवरी ।
पारम् आसाद्य विश्रान्ता चिरश्रान्ता तते पदे ॥

6.38.16

एतत् ते मनसि क्षीणे कथितं प्रथमं पदम् ।
द्वितीयं शृणु विप्रेन्द्र शक्तेर् अस्यास् सुपावनम् ॥

6.38.17

एषैव मननोन्मुक्ता चिच्छक्तिश् शान्तिशालिनी ।
सर्वज्योतिस्तमोमुक्तवितताकाशसुन्दरी ॥

6.38.18

घनसौषुप्तलेखावच्छिलान्तस्सन्निवेशवत् ।
सैन्धवान्तस्स्थरसवद् वातान्तस्स्पन्दशक्तिवत् ॥

6.38.19

कालेनायाति तत्रैव परां परिणतिं यदा ।
शब्दशक्तिर् इवाकाशे परमाकाशगा तदा ॥

6.38.20

चेत्यांशोन्मुखतां नूनं त्यजन्त्य् अम्ब्व् इव चापलम् ।
वातलेखेव चलनं पुष्पलेखेव सौरभम् ॥

6.38.21

कालताकाशते त्यक्त्वा सकले चापले ऽमला ।
न जडां नाजडां स्फारां धत्ते सत्ताम् अनामिकाम् ॥

6.38.22

दिक्कालाद्यनवच्छिन्नां महासत्तापदाद् गताम् ।
तुर्यतुर्यांशकलिताम् अकलङ्काम् अनामयाम् ॥

6.38.23

काञ्चिद् एव विशालाक्षसाक्षिवत् समवस्थिताम् ।
सर्वतस् सर्वदा सर्वप्रकारास्वादतत्पराम् ॥

6.38.24

एषा द्वितीया पदता कथिता तव सुव्रत ।
तृतीयं शृणु वक्ष्यामि पदं पदविदां वर ॥

6.38.25

एषा दृक् चेत्यगलनाद् अनामार्थपदं गता ।
ब्रह्मात्मत्वादिशब्दार्थाद् अतीतोदेति केवलम् ॥

6.38.26

स्थैर्येण कालतस् स्वाच्छ्यान् निष्कलङ्कपदात्मना ।
तुर्यातीतादिनामत्वाद् अपि याति परं पदम् ॥

6.38.27

सा परात् परमा काष्ठा प्रधानं शिवभावतः ।
नित्यैका निरवच्छेद्या तृतीया पावनी स्थितिः ॥

6.38.28

चिरम् अस्यां प्रतिष्ठायां सर्वाशाध्वानदूरगा ।
सा ममाप्य् अङ्ग वचसां न समायाति गोचरम् ॥

6.38.29

त्रिमार्गकलनातीतम् इति ते कथितं मुने ।
तिष्ठैतस्मिन् पदे नित्यम् इति देवस् सनातनः ॥

6.38.30

एतन्मयम् इदं विश्वं मुने तन्मयवेदनात् ।
सत्यसंवेदनान् नेदं न च नेदं मुनीश्वर ॥

6.38.31

नेदं प्रवर्तते किञ्चिन् नेदं किञ्चित् निवर्तते ।
शान्तं समसमाभासम् अखम् एव खकोशवत् ॥

6.38.32

अद्वैतैक्याद् असङ्क्षोभाद् घनाघनतया तथा ।
अविकारादिमत्त्वाच् च नित्यानित्यतया चिरम् ॥

6.38.33

चिद्घनात्मतया शैलकोशानां जगताम् अपि ।
मनाग् अपि न भेदो ऽस्ति सताम् अप्य् असताम् इव ॥

6.38.34

समस्तं सच् छिवं शान्तम् अतीतं वाग्विलासतः ।
ओम् इत्य् अस्य च तन्मात्रात् तुर्यांशात् परम् ओम् इति ॥

6.38.35

इत्य् उक्तवान् अमलदृक् परिणामतो ऽस्मिन् स्फारे पदे समुपशान्तरवाभिरामः ।
तूष्णीम् अतिष्ठद् अमुना मुनिना च सार्धं संशान्तवृत्तिर् अथ तत्र मुहूर्तम् ईशः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc