मोक्षोपाय · अध्याय 6.35
चिनोत्य् अलीकम् एवैवं दुःखितास्मीति भावनात् ।
चिद् वधूः क्षीवसुप्तैव पतितास्मीत्य् अलं यथा ॥
अमृतैव मृतास्मीति विपर्यस्तमतिर् वधूः ।
यथा रोदित्य् अनष्टैव नष्टास्मीति तथैव चित् ॥
अकारणविपर्यस्तमतिर् भ्रान्तम् अपि स्थिरम् ।
यथा जगत् पश्यतीदं तथाहन्ताभ्रमं चितिः ॥
चित्त्वं हि कारणं तस्यास् संसारानुभवे चितेः ।
न च तत्कारणं किञ्चिच् चित्त्वान्यत्वात्यसम्भवात् ॥
एवं हि कारणाभावाच् चेत्यस्यासम्भवाद् अपि ।
नासौ चिन् न च तच् चेत्यं न च तच् चेत्यते तया ॥
न दृश्यदर्शनद्रष्टृरूपं तैलम् इवोपले ।
न कर्तृकर्मकरणदृग् इन्दाव् इव कृष्णता ॥
न मनोमेयमानानि नभसीव नवाङ्कुरः ।
न चिच्चेतनचेत्यादि नन्दने खदिरो यथा ॥
नाहन्त्वत्वत्त्वतत्त्वादि पर्वतत्वम् इवाम्बरे ।
न चेहत्वान्यदेशत्वे शङ्खत्वक्ष्व् इव कज्जलम् ॥
नानानाना न चाप्य् अन्तर् अणाव् इव सुमेरवः ।
न च शब्दार्थशब्दश्रीर् महोषरलता यथा ॥
नेति नेति न चैवार्कमण्डले रजनी यथा ।
न वस्तुतावस्तुते च तुषारेषु यथोष्णता ॥
न शून्यताशून्यते च शिलाकोश इव द्रुमः ।
शून्यताशून्यता नापि महती ख इवाखता ॥
केवलं केवलीभावस् स्वस्थतैवावशिष्यते ।
न कश्चित् कस्यचिद् दोषो ज्ञतयैतद् अवाप्यते ॥
नञर्थाभावनामात्रेणानर्थः प्रसृतश् चितेः ।
नञर्थभावनामात्रेणानर्थ उपशाम्यति ॥
नञर्थभावनामात्राद् ऋते ऽत्राङ्गोपयुज्यते ।
न तृणं न च त्रैलोक्यम् इति स्वायत्ततात्र ते ॥
स्वायत्त एव ह्य् एषो ऽर्थो दुस्साधो ऽभावनात् स्थितः ।
यद् यन् न साध्यते पुंसा तत् कथं किल लभ्यते ॥
निर्विकल्पाद्वितीया चिद् यासौ सकलगा सती ।
परमैका परा साच्छा दीपिका तेजसाम् अपि ॥
सैषावभासनकरी सर्वगा नित्यनिर्मला ।
नित्योदिता निर्मनस्का निर्विकारा निरञ्जना ॥
घटे पटे वटे कुड्ये शकटे वानरे सुरे ।
असुरे सागरे भूते नरे नागे च संस्थिता ॥
साक्षिवत् तिष्ठति सती स्पन्दते च न कुत्रचित् ।
दीपः प्रकाशनायैव करोति न पुनः क्रियाम् ॥
मलिनाप्य् अमलैषा सा विकल्पाढ्याविकल्पिनी ।
जडैवाजडतासारा नसर्वा सर्वम् एव च ॥
निर्विकल्पा परा सूक्ष्मा चिच् चिनोति स्वसंविदम् ।
वात एवाङ्गमर्मादि यथा यन्त्रादि चेष्टते ॥
रूपालोकमनस्कारवलिता चिद् अबोधतः ।
बोधतस् सैव भवति नैषा सदसती यतः ॥
सा परैव चिद् अत्यच्छा चिन्ताम् आयाति चेतनात् ।
साधुर् एव यथासाधुसंवित्तेर् दुर्जनैषणाम् ॥
सतमस् स्वर्णम् आयाति ताम्रतां मलमार्जनात् ।
पुनः कनकताम् एति यथा चित् परमा तथा ॥
श्वासोपशान्ताव् आदर्शो यथैति प्रथमां स्थितिम् ।
तथा सर्गम् इहागत्य बोधात् स्वं याति चित् पदम् ॥
स्वभावावेदनाद् अस्यास् संसारस् सम्प्रवर्तते ।
स्वभाववेदनाद् एष त्व् असन्न् एवोपशाम्यति ॥
यदा चित्त्वाच् चिनोत्य् अन्तर् अन्यताम् असतीं तदा ।
अहन्ताम् इव सम्प्राप्य नश्यतीवाप्य् अनाशिनी ॥
ईषत्स्पन्दाद् अधो याति शृङ्गप्रान्तातलोपलः ।
यथा तथैव संवित्तेर् अधःपातो महाचितः ॥
रूपादीनां तु सत्तैषा चेत्यम् एवामलैव चित् ।
द्वित्वैकत्वे त्व् अबोधोत्थे बोधेन विलयं गते ॥
सत्तामात्रेण चित्त्वस्य बोधश् चित्तेन्द्रियादिषु ।
आलोकसत्तामात्रेण व्यवहारः क्रियास्व् इव ॥
वातात् कनीनिकास्पन्दस् तद्दीप्तिर् दृष्टिर् उच्यते ।
तद्बाह्यपातिता रूपं रूपबोधस् तु चित् परा ॥
त्वङ्मारुतौ जडौ तुच्छौ तत्सङ्गस् स्पर्श उच्यते ।
मननं स्पर्शसंवित्तिस् तत्संवित्तिस् तु चित् परा ॥
गन्धतन्मात्रपवनसम्बन्धो गन्धसंविदः ।
आसां तु मनसा हीनं वेदनं परमैव चित् ॥
शब्दतन्मात्रश्रवणशक्तेस् सङ्गान् मनो विना ।
सुषुप्तसदृशी संवित् परमा चिद् उदाहृता ॥
क्रियोन्मुखत्वं सङ्कल्पात् सङ्कल्पो मननक्रमः ।
मननं चित्स्वकालुष्यम् आत्मा चिन् निर्मला भवेत् ॥
चित् प्रकाशात्मिका नित्या स्वात्मन्य् एव च संस्थिता ।
इदम् अन्तर् जगद् धत्ते सन्निवेशं यथा शिला ॥
अद्वितीयं दधानेदं विकारादिविवर्जिता ।
नास्तम् एति न चोदेति स्पन्दते नो न वर्धते ॥
सङ्कल्पाज् जीवताम् एत्य निस्सङ्कल्पात्मनात्मना ।
चिज् जडं चाजडं भावं भावयन्ती स्वयं स्थिता ॥
रथस् त्व् अस्यास् स्मृतो जीवो जीवस्याहङ्कृती रथः ।
अहङ्कृते रथो बुद्धिस् तथा बुद्धेर् मनो रथः ॥
मनसस् तु रथः प्राणः प्राणस्याक्षगणो रथः ।
अक्षौघस्य रथो देहो देहस्य स्पन्दनं रथः ॥
स्पन्दनं कर्म संसारो जरामरणपञ्जरम् ।
एवं प्रवर्तितं चक्रम् इदम् आधिविभूतिजम् ॥
प्रतिभासत एवात्मन्य् असत्स्वप्न इवाततः ।
मनाग् अपि न सत्यात्म मृगतृष्णाम्बुवत् स्थितम् ॥
रथस् त्व् अस्यास् स्मृतः प्राणः कलनाया मुनीश्वर ।
यत्र प्राणमरुत् तत्र मननं परितिष्ठति ॥
यत्र स्थितैषा कलना तद् एव परिचोपति ।
यत् प्रयाति वनं वात्या तद् एव परिघूर्णते ॥
मनस्य् आकाशसंलीने न प्राणः परिचोपति ।
तेजस्य् असत्ताम् आयाते न रूपम् इव राजते ॥
प्राणे प्रशान्ते मनुते न मनो ऽन्तर् मनाग् अपि ।
वात्यायाम् उपशान्तायां न रजो हि विकम्पते ॥
यत्र प्राणमरुद् याति मनस् तत्रैव तिष्ठति ।
यत्र यत्रानुसरति रथस् तत्रैव सारथिः ॥
प्राणसम्प्रेरितं चित्तं याति देशान्तरं क्षणात् ।
क्षेपणोन्मुक्तपाषाण इव तन् नान्यथा जवि ॥
यत्र पुष्पं तत्र गन्धो यत्राग्निस् तत्र चोष्णता ।
यत्र प्राणो मनस् तत्र यत्रेन्दुस् तत्र तद्रुचिः ॥
संवित्तिः पवनस्पन्दान् नाडीसंस्पर्शतस् स्वतः ।
संवित्तेस् स्फारता चित्तम् अतस् तत् प्राणकोटरे ॥
सर्वत्र विद्यते संविद् व्योमस्वच्छा जडाजडे ।
क्षुभ्यतीव तु सा प्राणस्पन्दाद् इत्य् अनुभूयते ॥
सत्तामात्रस्वरूपेण जडेषु समवस्थिता ।
प्राणसम्बोधितोदेति वेदनात्मतयाजडे ॥
नानास्फारसमुल्लासैर् यः पूर्वं परिवल्गितः ।
प्राणो ऽतीते तु मनने स एवाशु न चोपति ॥
पुर्यष्टके चित् परमा स्वे मुने प्रतिबिम्बति ।
आदर्श एव प्रतिमा दृश्यते नोपलादिषु ॥
मनः पुर्यष्टकं विद्धि सर्वकार्यैककारणम् ।
तद् एव भेदैः कथितम् अन्यैस् स्वाशयकल्पितैः ॥
यस्माद् उदेति फलम् आकुलदृश्यजालं तत् तन् न वस्त्वितरद् इत्य् अनुभूतम् उच्चैः ।
तस्मान् मनो विपरिवर्ति हि देहदृष्ट्या सर्वं तु तत्परम् अवस्त्व् इति विद्धि तत् त्वम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0