भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.34

6.34.1

एवं सर्वम् इदं विश्वं परमात्मैव केवलम् ।
ब्रह्मैव परमाकाश एष देवः परस् स्मृतः ॥

6.34.2

तद् एतत्पूजनं श्रेयस् तस्मात् सर्वम् अवाप्यते ।
स देवस् सर्वगस् सर्वस् सर्वं तस्मिन् प्रतिष्ठितम् ॥

6.34.3

अकृत्रिमम् अनाद्यन्तम् अद्वितीयम् अखण्डितम् ।
अबहिस्साधनासाध्यं सुखं तस्माद् अवाप्यते ॥

6.34.4

प्रबुद्धस् त्वं मुनिश्रेष्ठ तेनेदं तव वर्ण्यते ।
नासि देवार्चने योग्यः पुष्पधूपमये महान् ॥

6.34.5

अव्युत्पन्नधियो ये हि बालाः पेलवचेतसः ।
कृत्रिमार्चामयं तेषां देवार्चनम् उदाहृतम् ॥

6.34.6

गन्धाक्षतैश् च दीपैश् च पुष्पाद्यैः पूजयन्ति हि ।
मिथ्यैव कल्पितैर् देवम् आकारे कल्पितात्मकम् ॥

6.34.7

स्वसङ्कल्पकृतैः कृत्वा क्रमैर् अर्चनम् आदृताः ।
बालास् सन्तापम् आयान्ति पुष्पधूपलवार्चनैः ॥

6.34.8

स्वसङ्कल्पकृतैर् अर्थैः कृत्वा देवार्चनं मुधा ।
यतः कुतश्चिन् मिथ्यात्म फलम् अत्रार्पयन्ति ते ॥

6.34.9

पुष्पधूपार्चनं ब्रह्मन् कल्पितं बालबुद्धिषु ।
यत् स्याद् भवादृशे ऽयोग्यम् अर्चनं तद् वदाम्य् अहम् ॥

6.34.10

अस्मदादिस् तु नो कश्चिद् देवो मतिमतां वर ।
देवस् त्रिभुवनाधारः परमात्मैव नेतरः ॥

6.34.11

शिवस् सर्वपदातीतस् सर्वसङ्कल्पनातिगः ।
सर्वसङ्कल्पवलितो न सर्वी न च सार्विकः ॥

6.34.12

दिक्कालाद्यनवच्छिन्नस् सर्वारम्भप्रकारकृत् ।
चिन्मात्रमूर्तिर् अमलो देव इत्य् उच्यते मुने ॥

6.34.13

संवित् सर्वकलातीता सर्वभावान्तरस्थिता ।
सर्वसत्ताप्रदा देवी सर्वसन्तापहारिणी ॥

6.34.14

ब्रह्म ब्रह्मन् सदसतोर् मध्यं तद् देव उच्यते ।
परमात्मापराभिख्यं तत् सद् ओम् इत्य् उदाहृतम् ॥

6.34.15

महासत्तास्वभावेन सर्वत्र समतां गतम् ।
महाचिद् इति च प्रोक्तं परमार्थ इति श्रुतम् ॥

6.34.16

स्थितं सर्वत्र सर्वर्तु लतास्व् अन्तर् यथा रसः ।
सत्तासामान्यरूपेण महाचित्त्वात्मनापि च ॥

6.34.17

यच् चित्तत्त्वम् अरुन्धत्या यच् चित्तत्त्वं तवानघ ।
यच् चित्तत्त्वं च पार्वत्या यच् चित्तत्त्वं गणेषु च ॥

6.34.18

चित्तत्त्वं यन् ममेदं च चित्तत्त्वं यज् जगत्त्रये ।
तद् देव इति तत्त्वज्ञा विदुर् उत्तमबुद्धयः ॥

6.34.19

पादपाण्यादिमान् अन्यो यो वा देवः प्रकल्प्यते ।
स चिन्मात्राद् ऋते ब्रह्मन् किंसारः किल कथ्यताम् ॥

6.34.20

न स दूरे स्थितो ब्रह्मन् न दुष्प्रापस् स कस्यचित् ।
स संस्थितस् सदा देहे सर्वत्रैव च खे तथा ॥

6.34.21

स करोति स चाश्नाति स बिभर्ति प्रयाति च ।
स निश्श्वसति संवेत्ता सो ऽङ्गान्य् अङ्गानि वेत्ति ते ॥

6.34.22

सो ऽस्यां विचित्रचेष्टायां प्रकाशायां च तद्वशात् ।
तत्स्वरूपनिबद्धायां पुर्याम् अङ्गपुरीश्वरः ॥

6.34.23

शरीरपर्वतस्थायां चलायां तत्प्रसादतः ।
सो ऽस्यां गहनकोशायां हृद्गुहायां गुहेश्वरः ॥

6.34.24

मनष्षष्ठेन्द्रियाचारसत्तातीतामलात्मनः ।
तस्य संव्यवहारार्थं सञ्ज्ञा चिद् इति कल्पिता ॥

6.34.25

स एष चिन्मयस् सूक्ष्मस् सर्वव्यापी निरञ्जनः ।
इमं भासुरम् आभासं करोति न करोति च ॥

6.34.26

सा चिद् अत्यन्तविमला जगदर्थां जगत्क्रियाम् ।
इमां रञ्जयति प्राज्ञ रसेनेव मधुर् लताम् ॥

6.34.27

चारवो ये चमत्काराश् चितश् चिति यथास्थितम् ।
चमत्कुर्वन्ति किल ते एते केचिन् नभोऽभिधाः ॥

6.34.28

केचिज् जीवाभिधानाश् च केचिच् चित्ताभिधानकाः ।
केचित् कालाभिधानाश् च केचिद् देशाभिधानकाः ॥

6.34.29

केचित् क्रियाभिधानाश् च केचिद् द्रव्याभिधानकाः ।
केचिद् भावविकारादिजाड्यचित्त्वाभिधानकाः ॥

6.34.30

प्राकाश्याद्यभिधाः केचित् केचिच् चैव तमोऽभिधाः ।
अर्केन्द्वाद्यभिधाः केचित् केचिद् यक्षाभिधानकाः ॥

6.34.31

निरिच्छस्वस्वभावेन वसन्तेन यथाङ्कुरः ।
जन्यते तद्वद् एवेयं जगल्लक्ष्मीश् चिदात्मना ॥

6.34.32

चिद् इमासु समग्रासु सर्वदैवैकिकैव हि ।
त्रैलोक्याम्बुधिसंस्थासु शरीरजलजालिका ॥

6.34.33

शरीरपङ्कजभ्रान्तमनोभ्रमरसम्भृतम् ।
आस्वादयति सङ्कल्पमधु मत्ता चिदीश्वरी ॥

6.34.34

ससुरासुरगन्धर्वं सशैलार्णवकं जगत् ।
चिति स्थिरं प्रवहति जलावर्ते तृणं यथा ॥

6.34.35

चञ्चच्चित्तमयाचारचारचञ्चुरचक्रिकम् ।
संसारचक्रं चिच्चक्रे भ्राम्यति भ्रमभाजनम् ॥

6.34.36

चिच् चतुर्भुजरूपेण जघानासुरमण्डलम् ।
कालो जलदखण्डेन सायुधेन यथातपम् ॥

6.34.37

चित् त्रिनेत्रतया ब्रह्मन् वृषशीतांशुचिह्नया ।
गौरीकमलिनीवक्त्रपद्मषण्डालितां गता ॥

6.34.38

विष्णोः पद्मालिताम् एत्य चिद् ध्यानाधीनमानसीम् ।
त्रयीनलिन्यास् सरसीं धत्ते पैतामहीं स्थितिम् ॥

6.34.39

चितो ब्रह्मन् विचित्राणि शरीराणीह भूरिशः ।
पत्त्राणीव तरोर् हेम्नि केयूरादिक्रियेव वा ॥

6.34.40

चित् समस्तसुरानीकपरिवन्दितपादया ।
त्रैलोक्यचूडामणितां धत्ते वासवलीलया ॥

6.34.41

चित् सुरासुरताम् एत्य त्रैलोक्योदरडम्बरे ।
पतत्य् उदेति संयाति स्वात्मनैवाब्धिवारिवत् ॥

6.34.42

चिच्चन्द्रिका चतुर्दिक्कम् एवाभासं वितन्वती ।
विकासयति निश्शेषभूतसत्ताकुमुद्वतीम् ॥

6.34.43

चिद्दर्पणमहालक्ष्मीस् त्रिजगत् प्रतिबिम्बितम् ।
गृह्णात्य् अनुग्रहेणान्तस् स्वगर्भम् इव गर्भिणी ॥

6.34.44

चिच् चतुर्दशभूतानां मण्डलानि महान्ति च ।
भूतीकरोति वारिश्रीस् समुद्रत्वम् इवाम्बुधेः ॥

6.34.45

विचित्रालोककुसुमा घनसङ्कल्पपल्लवा ।
व्योमकेदारिकारूढा सत्तौघफलशालिनी ॥

6.34.46

जीवजालरजःपुञ्जा वासनारसरञ्जिता ।
संवेदनत्वग्वलिता चित्रेहाकलिकाकुला ॥

6.34.47

अतीतासङ्ख्यत्रिजगत्केसरोज्ज्वलरूपिणी ।
अनारतस्पन्दमहाविलासोल्लासहासिनी ॥

6.34.48

सर्वर्तुपर्वपरुषा जडशैलादिगुम्फिता ।
विहगग्रन्थिवलिता मूलाग्रपरिवर्जिता ॥

6.34.49

चिल्लतेयं विकसिता पेलवं सदसद्वपुः ।
विचित्रं दृश्यकुसुमं परामर्शासहं बहु ॥

6.34.50

अनयेह हि सर्वत्र च्छायाच्छापि विजन्यते ।
मन्यते तन्यते वस्तु गीयते क्रियते ऽपि च ॥

6.34.51

महाचितानया नित्यं भासन्ते भास्करादयः ।
देहास् स्वदन्ते च मिथस् त्वन्मच्चिज्जडविभ्रमैः ॥

6.34.52

विततावर्तवर्तन्या चिद्वात्येयं प्रनृत्यति ।
जगज्जालरजोलेखा तत्सत्ता दृश्यदेहिनी ॥

6.34.53

चित् सर्वं जगदारम्भम् इमं प्रकटयत्य् अलम् ।
त्रैलोक्यदीपकशिखा दीपो वर्णश्रियं यथा ॥

6.34.54

चिच्चन्द्रबिम्बे विमले शशवत् प्राप्य सङ्गमम् ।
सर्वत्र लक्ष्यताम् एति पदार्थश्रीर् जगद्गता ॥

6.34.55

चिद्रसायनसेकेन पदार्थपटलावली ।
रूपम् एति फलं चैव प्रावृट्सिक्तेव सल्लता ॥

6.34.56

चिच्छाययैव सर्वस्य जाड्यं शाम्यत्य् उदेति वा ।
शवस्यास्य शरीरस्य गृहस्येव तमस् त्विषा ॥

6.34.57

चिच्चमत्कृतयो देहे न भवेयुर् इमा यदि ।
त्रैलोक्यदेहास् तत् के ते कान् स्पृशेयुः किमाकृतीन् ॥

6.34.58

चिदालोकप्रकाशे ऽस्मिन् सङ्कल्पशिशुधारिणी ।
क्रियाकुलवधूर् देहगेहे स्फुरति चञ्चला ॥

6.34.59

चिदालोकं विना कस्य रसनाग्रे स्फुरन्न् अपि ।
कथं कदा प्रकटताम् एति कीदृक् च वा रसः ॥

6.34.60

सुस्कन्धस् स्वङ्गशाखो ऽपि कुन्तलालिवृतो ऽप्य् अलम् ।
चिन्मञ्जरीं विना देहवृक्षः क इव राजते ॥

6.34.61

वर्धते ऽभिलषत्य् अत्ति चिच् चराचरकारिणी ।
चिद् एवास्तीतरन् नास्ति चिन्मात्रम् इदम् उत्थितम् ॥

6.34.62

इत्य् उक्तवान् अथ त्र्यक्षस् सुधास्यन्दाच्छया गिरा ।
पुनः पृष्टो मया राम विनयप्रश्रयोज्ज्वलम् ॥

6.34.63

यदि सर्वगता देव चिद् अस्त्य् एका ततात्मिका ।
तद् अयं चेतति स्फारम् अयं चैव न चेतति ॥

6.34.64

अयं चिद्वान् पुरा भूत्वा चिद्धीनस् सम्प्रति स्थितः ।
इतीयं कल्पना लोके प्रत्यक्षानुभवा कथम् ॥

6.34.65

शृण्व् एतद् अखिलं ब्रह्मन् यथापृष्टम् वदामि ते ।
महान् अयं कृतः प्रश्नस् त्वया ब्रह्मविदां वर ॥

6.34.66

चिद् अस्ति द्विशरीरेह सर्वभूतमयात्मिका ।
चेत्योन्मुखात्मिकैका तु निर्विकल्पा परा स्मृता ॥

6.34.67

सङ्कल्पबद्धात्मैवान्तस् स्वयम् अन्येव संस्थिता ।
सङ्कल्पितेतरवरा दौश्शील्यं स्त्री यथा गता ॥

6.34.68

स एव हि पुमान् कोपाद् यथेहान्य इव क्षणात् ।
भवत्य् एवं विकल्पाङ्का चित् स्वरूपान्यतां गता ॥

6.34.69

विकल्पकलिता ब्रह्मंश् चित् स्वरूपपरिच्युता ।
जाड्यं क्रमाद् भावयन्ती प्रयाति कलनापदम् ॥

6.34.70

चित् स्वयं चेत्यताम् एति साकाशपरमाणुताम् ।
शब्दबीजात्मिकां पश्चाद् वाततन्मात्रभावनीम् ॥

6.34.71

देशकालविभागा तु तन्मात्रवलिता क्रमात् ।
जीवो भूत्वा भवत्य् आशु बुद्धिः पश्चाद् अहं मनः ॥

6.34.72

मनस्त्वं समुपायाता संसारम् अवलम्बते ।
चण्डालो ऽस्मीति मननाच् चण्डालत्वम् इव द्विजः ॥

6.34.73

सङ्कल्पिताप्रबोधेन जाड्याच् चित् स्वप्रबोधिनी ।
शबलं रूपम् आसाद्य सङ्कल्पान् यात्य् अनारतम् ॥

6.34.74

अनन्तसङ्कल्पमयी जाड्यसङ्कल्पपीवरी ।
चिज् जाड्याद् देहम् आयाति पयः पाषाणताम् इव ॥

6.34.75

ततश् चित्तमनोमोहमायेति विहिताभिधा ।
जाड्यं निपुणम् आश्रित्य संसारे जायते मुने ॥

6.34.76

मोहसात्म्यम् उपायाता तृष्णानिगडपीडिता ।
कामकोपभयोपेता भावाभावातिपातिनी ॥

6.34.77

त्यक्तानन्तनिजाभोगा व्यवच्छेदविकारिणी ।
दुःखदावानलातप्ता शोकाशनिकृशाशया ॥

6.34.78

इयम् अस्मीति भावेन शून्येन विकलीकृता ।
भेदमात्रगृहीतास्था परं दैन्यम् उपागता ॥

6.34.79

मग्ना मोहमहापङ्के पङ्के जीर्णेव दन्तिनी ।
भावाभावलतादोलापरिलोलशरीरका ॥

6.34.80

असारावरसंसारविकारव्यवहारिणी ।
तापोपतप्तहृदया रागरोगानुसारिणी ॥

6.34.81

निजयूथपरिभ्रष्टा मृगीवावशतां गता ।
आविर्भावोदिताकारा तिरोभावे ऽस्तम् आगता ॥

6.34.82

स्वसङ्कल्पोपयातासु भीता सम्भ्रमदृष्टिषु ।
पलायते ऽप्य् असत्यासु वेतालीष्व् इव बालिका ॥

6.34.83

उष्ट्रीव मधुनो बिन्दुं वाञ्छते भावितं सुखम् ।
अवान्तरपरिभ्रष्टा दोषाद् दोषं पतत्य् अधः ॥

6.34.84

परं वैवश्यम् आयाति सङ्कटात् सङ्कटं गता ।
दुःखाद् दुःखे निपतिता विपदो विपदि स्थिता ॥

6.34.85

नानानर्थगणोपेता चेष्टापरवशाशया ।
कष्टात् कष्टम् अनुप्राप्ता परितापानुतापिनी ॥

6.34.86

क्रमान् नवे नवे बन्धे ऽवैदग्ध्यं समुपागता ।
विचित्रबन्धनिर्माणपरा क्रिमिपदं गता ॥

6.34.87

सर्वतश्शङ्करे भीता प्राणात्ययम् उपागता ।
क्षीणतोयेव शफरी विवर्तनपरायणा ॥

6.34.88

बाल्ये विवशसर्वार्था यौवने चिन्तयाहृता ।
वार्द्धके मृतिदुःखात्ता मृता कर्मवशीकृता ॥

6.34.89

जायते दुःखशबला म्रियते जननोन्मुखी ।
करोत्य् आवेशविवशा निगिरत्य् आर्तिधारिणी ॥

6.34.90

गच्छति श्रमसन्तप्ता भवत्य् अम्बुदभङ्गुरा ।
रोदित्य् आक्रान्तहृदया पराक्रन्दति तापिता ॥

6.34.91

अप्सरास् स्वर्गनगरे नागी पातालकोटरे ।
असुरी दैत्यविवरे नरस्त्री वसुधातले ॥

6.34.92

राक्षसी राक्षसाधारे वानरी वनकोटरे ।
सिंही गिरीन्द्रशिखरे किन्नरी कुलपर्वते ॥

6.34.93

विद्याधरी देवगिरौ व्याली चावनिगर्तके ।
लता तरौ खगी नीडे वीरुत् सानौ वने मृगी ॥

6.34.94

शेते नारायणो ऽम्भोधौ ध्यानी ब्रह्मपुरे ऽब्जजः ।
कान्तासखो हरश् शैले स्वर्गे सुरवरो हरिः ॥

6.34.95

दिनं करोति तीक्ष्णांशुर् वर्षत्य् अम्बुधरो जलम् ।
करोति रजनीम् इन्दुर् धत्ते नीरं महोदधिः ॥

6.34.96

ऋतुचक्रं प्रवहति सहकालर्क्षमण्डलम् ।
दिनरात्रितयोदेति तेजस्तिमिरता क्वचित् ॥

6.34.97

क्वचिद् बीजरसोल्लासः क्वचित् पाषाणमौनिनी ।
क्वचिन् नदी रसवहा क्वचित् कुसुमविस्तृतिः ॥

6.34.98

क्वचित् फलावलीपाकः क्वचित् क्वाथो ऽनलादिभिः ।
क्वचिच् छैत्यं हिमेन्द्वादि क्वचित् खादि नकिञ्चन ॥

6.34.99

क्वचिद् उज्ज्वलिताकारा क्वचित् कृष्णा क्वचित् सिता ।
क्वचिन् नीलाथ हरिता क्वचिद् अग्निः क्वचिन् मही ॥

6.34.100

सर्वात्मत्वात् सर्वगत्वात् सर्वशक्तितयेद्धया ।
सर्वत्वाद् एकरूपैव खाद् अप्य् अच्छैव सा परा ॥

6.34.101

चिच् चिनोति यथात्मानं येन यत्र यथा यदा ।
तत् तथाशु भवत्य् अम्बुरयाद् वीच्यादिता यथा ॥

6.34.102

हंसी क्रौञ्ची बकी काकी सरसीसारसी वृकी ।
पिकी बलाका हरिणी वानरी करिणी शुनी ॥

6.34.103

चटिका वञ्जुली शारी मक्षिका षट्पदी शुकी ।
धीश् श्रीर् ह्रीः प्रीतिर् आर्तिश् च शवरी शर्वरी शशी ॥

6.34.104

एतास्व् अन्यासु चान्यासु परिभ्रमति योनिषु ।
विवर्तमाना संसारे जलावर्ते तृणं यथा ॥

6.34.105

बिभेत्य् एषा स्वसङ्कल्पात् स्वशब्दाद् इव गर्दभी ।
नानया सदृग् अन्यास्ति मुग्धा बालाबला चला ॥

6.34.106

एषा सा कथिता तुभ्यं जीवशक्तिर् मया मुने ।
प्राकृताचारविवशा वराकी पशुधर्मिणी ॥

6.34.107

कर्मात्मेत्य् अभिधां प्राप्ता शोच्यास्य परमात्मनः ।
अनन्तदुःखबहलं स्वयं सम्भ्रमम् आश्रिता ॥

6.34.108

असद् एवानयाक्रान्तं विनाशि सहजं मलम् ।
तण्डुलेनेव कम्बूकम् अनन्यच् चान्यवत् स्थितम् ॥

6.34.109

अनन्तविभवभ्रष्टा दौर्भाग्यपरितापिनी ।
शोचति प्राप्य जीवत्वं भर्तृहीनेव नायिका ॥

6.34.110

जडरतेर् अवलोकय शक्ततां निजपदस्मरणेन विनेह यत् ।
व्रजति पृष्ठम् अधःपतनाय खाद् दुररघट्टघटीपुटपीठवत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc