भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.33

6.33.1

इत्य् उक्तवन्तम् अत्रासौ गौरी भगवती गिरम् ।
माम् उवाच जगन्माता मातेव तनयं प्रियम् ॥

6.33.2

भगवन् भवता ब्रूहि भूरिसौभाग्यभागिनी ।
पतिव्रतानां प्रथमा क्व कृतारुन्धती प्रिया ॥

6.33.3

उत्तिष्ठानय ताम् अस्माद् आश्रमान् मच्छ्रमापहात् ।
तया सह कथाश् चित्राः करोम्य् एकवयस्यया ॥

6.33.4

इत्य् उक्ते तत्र पार्वत्या मया सा गृहिणी स्वयम् ।
गत्वोद्देशं तम् एवाशु समानीता समाशया ॥

6.33.5

अरुन्धत्या समं कृत्वा ललनाचारम् अक्षतम् ।
स्वकार्यैकपरा गौरी बभूव परिनिर्वृता ॥

6.33.6

अहम् अस्मिन् क्षणे बुद्ध्या राम चिन्तितवान् इदम् ।
अव्यग्रो मत्प्रसन्नश् च लब्धो ऽयं भगवान् मया ॥

6.33.7

कम् एनं परमेशानं सर्वज्ञानमहार्णवम् ।
परिपृच्छामि सन्देहम् इन्दुभूषितशेखरम् ॥

6.33.8

इति सञ्चिन्त्य स गुरुर् इदं पृष्टो मयानघ ।
शृणु वक्ष्यामि ते सर्वं यद् उक्तं चन्द्रमौलिना ॥

6.33.9

भगवन् भूतभव्येश सर्वकारणकारण ।
भवत्प्रसादेनेदं मे धार्ष्ट्यम् अभ्यागतं स्फुटम् ॥

6.33.10

पृच्छामि त्वा महादेव यद् अहं तत् त्वम् आशु मे ।
ब्रूहि प्रसन्नया बुद्ध्या त्यक्तोद्वेगम् अनामय ॥

6.33.11

सर्वपापक्षयकरं सर्वकल्याणवर्धनम् ।
देवार्चनविधानं मे सत्यं ब्रूहि महेश्वर ॥

6.33.12

शृणु ब्रह्मन् वरम् इदं देवार्चनम् अनुत्तमम् ।
वदामि मुच्यसे येन कृतेन सकृद् एव हि ॥

6.33.13

कच्चित् वेत्सि महादेवो देवः कस् स्याद् इति द्विज ।
न देवः पुण्डरीकाक्षो न च देवस् त्रिलोचनः ॥

6.33.14

न देवः कमलोद्भूतो न देवस् त्रिदशेश्वरः ।
न देवः पवनो नार्को नानलो न निशाकरः ॥

6.33.15

न ब्राह्मणो नावनिपो नाहं न त्वं द्विजोत्तम ।
न देवो देहरूपो ऽस्ति न देवश् चित्ररूपधृत् ॥

6.33.16

न देवः कलनारूपी नापि देवो भवेन् मतिः ।
अकृत्रिमम् अनाद्यन्तं वेदनं देव उच्यते ॥

6.33.17

आकारादिपरिच्छिन्नम् इति वस्तुनि तत् कुतः ।
अकृत्रिमम् अनाद्यन्तं वेदनं चिच्छिवं विदुः ॥

6.33.18

तद् एव देवशब्देन कथ्यते तत् प्रपूजयेत् ।
तद् एवास्ति यतस् सर्वं सत्तासत्तात्मरूपधृत् ॥

6.33.19

अज्ञातशिवतत्त्वानाम् आकाराद्यर्चनं कृतम् ।
योजनाध्वन्य् अशक्तस्य क्रोशाध्वा परिकल्प्यते ॥

6.33.20

इयत्तादिपरिच्छिन्नं रुद्रादेः प्राप्यते फलम् ।
अकृत्रिमम् अनाद्यन्तं फलम् आनन्द आत्मनः ॥

6.33.21

अकृत्रिमफलं त्यक्त्वा यः कृत्रिमफलं व्रजेत् ।
स त्यक्तमन्दारवनः कारञ्जं याति काननम् ॥

6.33.22

बोधस् साम्यं शम इति पुष्पाण्य् अग्र्याणि तत्र वै ।
शिवं चिन्मात्रम् अकलम् आत्मानम् अमलं विदुः ॥

6.33.23

शमबोधादिभिः पुष्पैर् देव आत्मा यद् अर्च्यते ।
तत् तद्देवार्चनं विद्धि नाकारार्चनम् अर्चनम् ॥

6.33.24

आत्मसंवित्तिरूपं तु त्यक्त्वा देवार्चनं जनाः ।
कृत्रिमार्चासु ये सक्ताश् चिरं क्लेशं भजन्ति ते ॥

6.33.25

ज्ञातज्ञेया हि ये सन्तो बालक्रीडोपमं न ते ।
आत्मध्यानाद् ऋते ब्रह्मन् कुर्वते देवपूजनम् ॥

6.33.26

आत्मैव देवो भगवाञ् शिवः परमकारणम् ।
ज्ञानार्चनेनाविरतं पूजनीयस् स सर्वदा ॥

6.33.27

त्वम् एतच् चेतनाकाशम् आत्मानं जीवम् अव्ययम् ।
स्वभावं विद्धि न त्व् अन्यत् पूज्यपूजात्मपूजनम् ॥

6.33.28

चेतनाकाशमात्रात्म यथा जगद् इदं प्रभो ।
यथा च चेतनस्यैव जीवादित्वं तद् उच्यताम् ॥

6.33.29

चिद्व्योमैव किलास्तीह पारावारविवर्जितम् ।
सर्वत्रासम्भवच्चेत्यं यत् कल्पान्तेषु शिष्यते ॥

6.33.30

तद् यत् स्वयं प्रकचति तस्य स्वकचनस्य तु ।
स्वयं संविदितं नाम तेनेदं जगद् इत्य् अलम् ॥

6.33.31

इत्य् एवं स्वप्नपुरवज् जगद् भाति चिदात्मकम् ।
एवं चिद्व्योममात्रात्म जगद् अच्छं न भित्तिमत् ॥

6.33.32

अत्यन्तासम्भवच्चेत्यदृष्टि चिद्व्योममात्रकम् ।
चित्त्वात् कचति सर्गादौ यत् तज् जगद् इति स्मृतम् ॥

6.33.33

तस्मात् स्वप्नपुराकारं यद् इदं भासते जगत् ।
तत्र चिद्व्योममात्रात्मन्य् अन्यता नाम का कुतः ॥

6.33.34

चिन्मात्रम् एव गिरयश् चिन्मात्रं जगदम्बरम् ।
चिन्मात्रम् आत्मा जीवश् च चिन्मात्रं भूतसन्ततिः ॥

6.33.35

चिद्व्योममात्राद् इतरत् सर्गादौ सर्गवेदने ।
भिन्नं स्वप्नपुरे चाङ्ग किं सम्भवति कथ्यताम् ॥

6.33.36

आकाशं परमाकाशं ब्रह्माकाशं जगच् चितिः ।
इति पर्यायनामानि तरुपादपवृक्षवत् ॥

6.33.37

एतच् च स्वप्नसङ्कल्पमायादिष्व् अनुभूयते ।
तदा किल चिदाकाशम् एव भाति जगत्तया ॥

6.33.38

यथैतत् संविदाकाशं स्वप्ने भाति जगद्वपुः ।
तथेदं जाग्रदाख्ये ऽपि स्वप्ने भाति तद् एव नः ॥

6.33.39

यथा स्वप्नपुरे चित्खं वर्जयित्वेतरत् क्वचित् ।
न किञ्चित् सम्भवत्य् अङ्ग जगत्य् एवम् इहादितः ॥

6.33.40

यतो न सम्भवत्य् अन्यच् चेदं किञ्चित् ततो ऽखिलम् ।
चित्त्वं सचेत्यम् अप्य् एतद् अचेत्यं सज् जगत् स्थितम् ॥

6.33.41

यथा चिद्व्योममात्रात्म स्वप्ने घटपटादिकम् ।
सर्गादाव् एव सर्गो ऽयं तथा चिद्व्योममात्रकम् ॥

6.33.42

शुद्धसंवित्तिमात्रत्वाद् ऋते ऽन्यत् स्वप्नपत्तने ।
यथा न विद्यते किञ्चित् तथास्मिन् भुवनत्रये ॥

6.33.43

याः काश्चन दृशो ये ये भावाभावाः किलागमाः ।
सदेशकालचित्तास् तत् सर्वं चिद्व्योममात्रकम् ॥

6.33.44

स एष देवः कथितो यः परः परमार्थतः ।
यस् त्वं यो ऽहम् अशेषं वा जगद् एव च यो ऽखिलम् ॥

6.33.45

सर्वस्य भूतजातस्य जगतो ऽन्यस्य ते मम ।
देहो हि चेतनाकाशं परमात्मैव नेतरत् ॥

6.33.46

सङ्कल्पने स्वप्नपुरे शरीरं चिद्व्योमतो ऽन्यन् न यथास्ति किञ्चित् ।
तथेह सर्गे प्रथमैकसर्गान् मुने प्रभृत्य् अस्ति न रूपम् अन्यत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc