भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.32

6.32.1

एतस्मिन् समये तत्र यामार्धे प्रथमे गते ।
समाधिं तनुतां नीत्वा स्थितो ऽहं बाह्यलग्नदृक् ॥

6.32.2

अपश्यं कानने तेजो झगित्य् एव समुत्थितम् ।
मन्दराहननोद्धूतक्षुब्धक्षीरोदभासुरम् ॥

6.32.3

शुभ्राभ्रशतसङ्काशं नृत्यदिन्दुगणोपमम् ।
चण्डानिलबलोद्धूतं हिमराशिम् इवाचलम् ॥

6.32.4

युगान्ततापगलितं सुस्फाटिकम् इवाचलम् ।
नावनीतम् इवाम्भोदं केतकौघम् इवोत्थितम् ॥

6.32.5

शङ्खशौक्ल्यम् इवोड्डीनं शुभ्राभ्रम् इव सम्भृतम् ।
क्षीरफेनम् इवोत्फालं मुक्तासारम् इवोद्धतम् ॥

6.32.6

गङ्गातरङ्गभरवत् प्रविष्टं कन्दरान्तरम् ।
पिण्डहार्यं सुदधिवच् छार्वं हासम् इवाततम् ॥

6.32.7

प्रकटीकृतदिक् तेजस् तद् आलोक्य मया स्मयात् ।
अन्तःप्रकाशशालिन्या बुद्धिदृष्ट्यावलोकितम् ॥

6.32.8

यावत् पश्यामि तं सानुं लीलयैव यदृच्छया ।
विहरन् स्वगिरौ हृद्ये तावच् चन्द्रकलाधरः ॥

6.32.9

पाश्चात्यगुल्मान्तरितगणजालोपमालितः ।
गौरीकरार्पितकरो नन्दिप्रोत्सारिताग्रगः ॥

6.32.10

पश्चात्परिक्रान्तवृषस् सर्वरात्रिचरावृतः ।
कल्हारदामवलितो मन्दारकृतशेखरः ॥

6.32.11

जटामौलीन्दुकलिको भोगीन्द्रकृतकुण्डलः ।
चलत्तुषारशैलाभस् सर्वसङ्कल्पितार्थदः ॥

6.32.12

मनोदृष्टस् स भगवान् मनसैव ततो मया ।
दत्तमन्दारपुष्पेण प्रणतेनाभिवन्दितः ॥

6.32.13

इति कृत्वा मया देहः पर्यङ्कशयनाद् अयम् ।
क्षणाद् उत्थापितस् तस्माद् भूतेनेव महाशवः ॥

6.32.14

शिष्यान् उद्बोध्य तत्रस्थान् गृहीत्वार्घं सुसंयतः ।
अगमं लोकनाथस्य दृष्टिपूतम् अहं पुरः ॥

6.32.15

तत्र पुष्पाञ्जलिं दत्त्वा दूराद् एव त्रिलोचनः ।
दत्तार्घेण मया देवस् स प्रणम्याभिवन्दितः ॥

6.32.16

ततश् चन्द्रप्रभामृद्व्या ऋज्व्या शीतलया तया ।
दृशा सर्वार्तिहारिण्या सरण्या शाश्वते पदे ॥

6.32.17

अहम् आलोक्य देवेन चन्द्रार्धकृतमौलिना ।
पुष्पसानूपविष्टेन प्रोक्तस् स्मितसिताक्षरम् ॥

6.32.18

आनयार्घ्यं तथा पाद्यं ब्रह्मन् स्वागतम् अस्तु ते ।
आश्रमातिथयः प्राप्ता वयम् अद्य तवानघ ॥

6.32.19

घनाभिरामशालिन्या सततं शमशान्तया ।
मुदितोदारया ब्रह्मंस् तपोलक्ष्म्या विराजसे ॥

6.32.20

आगच्छोपविशास्मिंस् त्वम् अकृत्रिमदलासने ।
मृदौ सानुसमुद्भूते पुण्यसञ्चयपावने ॥

6.32.21

इति प्रोक्तवते तस्मै निशेशार्धार्धधारिणे ।
अर्घं पुष्पं तथा पाद्यं समुपेत्यार्पितं मया ॥

6.32.22

पादयोर् हस्तयोश् चैव तन्वां चास्य स्वयम्भुवः ।
मन्दारपुष्पावलयो विकीर्णा बहवः पुरः ॥

6.32.23

ततो भगवती गौरी तादृश्यैव सपर्यया ।
सम्पूजिता सखीयुक्ता गणमण्डलिका तथा ॥

6.32.24

गृहीतवन्तौ तौ तां मे सपर्याम् आदरात् प्रभू ।
भक्तिप्रणयिनो राम पार्वतीपरमेश्वरौ ॥

6.32.25

पूजान्ते पूर्णशीतांशुरश्मिशीतलया गिरा ।
तत्रोपविष्टं प्रोवाच माम् अथेन्दुकलाधरः ॥

6.32.26

ब्रह्मन् प्रशमशालिन्यः प्राप्तविश्रान्तयः परे ।
कच्चित् कल्याणकारिण्यस् संविदस् ते स्थिताः पदे ॥

6.32.27

कच्चित् कमलकल्हारकुमुदानयनक्षमाः ।
तवान्तेवासिनो ब्रह्मन् नीरुजस् त्वदनुव्रताः ॥

6.32.28

बलिभागभुजां कच्चिद् भगवन् भवदाश्रमे ।
कुशलं मुग्धमुग्धानां मृगाणां मत्प्रियादृशाम् ॥

6.32.29

कच्चिन् मन्दारकुसुमान्य् एते मन्दारपादपाः ।
तवास्मदादिपूजार्थं सम्प्रयच्छन्ति सून्नताः ॥

6.32.30

कच्चिन् मन्दाकिनी पुण्यं तव स्नानोपयोगिकम् ।
एकया वाहलतया ददात्य् उत्पलपङ्कजम् ॥

6.32.31

असमञ्जसचेष्टासु नित्यं चेष्टासु मे ऽनघ ।
अपि मद्गणलीलासु मुनिनाथ न खिद्यसे ॥

6.32.32

तिष्ठन्तम् इह शैलेन्द्रे विपिनारण्यवासिनः ।
अपि नोद्वेजयन्ति त्वां धनेशानुचरा मुने ॥

6.32.33

दुर्वृत्तघनयक्षौघे विप्र लोलनिशाचरे ।
वसतो ऽस्मिन् गिरेः कुक्षाव् अप्य् अनुद्वेगितास्ति ते ॥

6.32.34

एवंवादिनि देवेशे सर्वलोकैककारणे ।
गिरानुनयशालिन्या मयोक्तं रघुनन्दन ॥

6.32.35

त्र्यक्षानुस्मृतिकल्याणवताम् इह महेश्वर ।
न किञ्चिद् अपि दुष्प्रापं न च काश्चन भीतयः ॥

6.32.36

त्वदनुस्मरणानन्दपरिपूर्णितचेतसः ।
न ते सन्ति जगत्कोशे प्रणतिं ये न बिभ्रति ॥

6.32.37

ते देशास् ते जनपदास् ता दिशस् ते च पर्वताः ।
त्वदनुस्मरणैकान्तधियो यत्र नरास् स्थिताः ॥

6.32.38

फलं भूतस्य पुण्यस्य वर्तमानस्य सेचनम् ।
तरोर् इवैष्यतो बीजं त्वदनुस्मरणं प्रभो ॥

6.32.39

भूतं भव्यं भविष्यच् च सफलं येन नाम तत् ।
कालत्रितयकल्याणं त्वदनुस्मरणं प्रभो ॥

6.32.40

परमं मनसो मित्रं सर्वापत्प्रसरापहम् ।
सर्वसम्पल्लतासेकस् त्वदनुस्मरणं प्रभो ॥

6.32.41

महामहिम्नां महतां महितानां च कर्मणाम् ।
कारणं कारणानां वै त्वदनुस्मरणं प्रभो ॥

6.32.42

विवेकपयसाम् अब्धिः पुण्यरत्नाकरः परः ।
अज्ञानतिमिरार्कौघस् त्वदनुस्मरणं प्रभो ॥

6.32.43

ज्ञानामृतौघकलशो धृतिज्योत्स्नानिशाकरः ।
अपवर्गपुरद्वारं त्वदनुस्मरणं प्रभो ॥

6.32.44

तृष्णालतायाः परशुर् धैर्याम्भोधरपर्वतः ।
दैन्यदुर्वनदावाग्निस् त्वदनुस्मरणं प्रभो ॥

6.32.45

जयत्य् आभासिताशेषचित्तसंसारमण्डपः ।
अपूर्वः परमो दीपस् त्वदनुस्मरणं प्रभो ॥

6.32.46

त्वदनुस्मरणोदारचिन्तामणिमता मया ।
सर्वासाम् आपदां मूर्ध्नि दत्तं भूतपते पदम् ॥

6.32.47

सकलदुःखभयापहर प्रभो क्षणम् अपीह मयासि न चेतसा ।
वरद वीर महेश्वर विस्मृतस् सुखम् अतो निवसामि भवान् इव ॥

6.32.48

इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc