भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.30

6.30.1

इत्य् आकर्णयति स्वच्छसमचेतसि राघवे ।
विश्रान्ते स्वात्मनि स्वैरं परमानन्दम् आगते ॥

6.30.2

तत्रस्थेषु च सर्वेषु तेषूपशमशालिषु ।
अपरिक्षुब्धचित्तेषु स्थितेष्व् अभ्युदितात्मसु ॥

6.30.3

संशान्तसकलस्पन्दशब्दसंव्यवहारिणि ।
सभाभोगे स्थिते सोम्ये रात्राव् इव महीतले ॥

6.30.4

प्रमूकमुग्धघण्टासु निषण्णासु नभस्तले ।
शृण्वन्तीष्व् इव शुद्धासु पताकासु वचो मुनेः ॥

6.30.5

शान्तसञ्चारसङ्क्रान्तनिश्चलास्येषु पक्षिषु ।
स्वपत्स्व् अन्तःपुराणां च पञ्जरेष्व् आलयेषु च ॥

6.30.6

विचारयत्सु तत्त्वार्थं बुद्ध्या प्राप्तविकासया ।
सुतत्त्वज्ञेषु सभ्येषु सहजानन्दशालिषु ॥

6.30.7

परोपशमशालिन्या तया सद्वाक्यमालया ।
विनयावनतिस्थेषु क्रीडामर्कटकेष्व् अपि ॥

6.30.8

राघवस्यात्मविश्रान्तिस्थित्यर्थं वचनौघतः ।
विरराम मुनिर् वारि ससेत्व् आत्मरयाद् इव ॥

6.30.9

अथ याते मुहूर्तार्धे राघवे प्रतिबोधिते ।
पुनर् आह तम् एवार्थं वसिष्ठो वदतां वरः ॥

6.30.10

राम सम्यक्प्रबुद्धो ऽसि स्वात्मानम् असि लब्धवान् ।
एतम् एवावलम्ब्यान्तस् तिष्ठ मेह मदं कृथाः ॥

6.30.11

इदं संसारचक्रं हि नाभौ सङ्कल्पमात्रके ।
संरोधितायां वहनाद् रघुनन्दन रुध्यते ॥

6.30.12

बोधितायां मनोनाभ्याम् इदं संसारचक्रकम् ।
प्रयत्नाद् रोधितम् अपि प्रवहत्य् एव वेगतः ॥

6.30.13

परं पौरुषम् आश्रित्य बलं प्रज्ञां च युक्तितः ।
नाभिं संसारचक्रस्य चित्तम् एव निरोधयेत् ॥

6.30.14

प्रज्ञासौजन्ययुक्तेन शास्त्रसंवलितेन च ।
पौरुषेण न यत् प्राप्तं न तत् क्वचन लभ्यते ॥

6.30.15

दैवैकपरतां त्यक्त्वा बालबोधोपकल्पिताम् ।
निजं प्रयत्नम् आश्रित्य चित्तम् आदौ निरोधयेत् ॥

6.30.16

आ विरिञ्चात् प्रवृत्तेन भ्रमेणाज्ञानरूपिणा ।
असद् एव सदाभासम् इदम् आलक्ष्यते ऽनघ ॥

6.30.17

अज्ञानभ्रमविस्तारमिथ्यैकाकृतयो ऽनघ ।
इमे देहा भ्रमन्तीह सर्व एवासदुत्थिताः ॥

6.30.18

सङ्कल्पपुरुषस्येव देहस्यार्थे कदाचन ।
सुखदुःखविकारित्वं न कार्यं राम धीमता ॥

6.30.19

दुःखम्लानमुखक्लेदी प्रसन्नात् क्लेदवर्जितात् ।
अपि चित्रनराद् देहनरस् तुच्छतरस् स्मृतः ॥

6.30.20

आधिव्याधिपरिम्लाने स्वयं क्लेदिनि नाशिनि ।
न तथा स्थिरता देहे चित्रपुंसि यथा किल ॥

6.30.21

विनाशितो हि चित्रस्थो देहो नश्यति नान्यथा ।
अवश्यनाशो नाशात्मा स्वयं देहो विनश्यति ॥

6.30.22

पालितस् सुस्थिरां शोभाम् आदत्ते चित्रमानवः ।
देहस् तु पालितो ऽप्य् उच्चैर् नश्यत्य् एव न वर्धते ॥

6.30.23

तेन श्रेष्ठश् चित्रदेहो नायं सङ्कल्पदेहकः ।
ये गुणाश् चित्रदेहे हि न ते सङ्कल्पदेहके ॥

6.30.24

चित्रदेहाद् अपि जडाद् यो ऽयं तुच्छतरः किल ।
तस्मिन् मांसमये देहे केवास्था भवतो ऽनघ ॥

6.30.25

दीर्घसङ्कल्पदेहो ऽयम् अस्मिन् क्वास्था महामते ।
स्वल्पसङ्कल्पजाद् देहाद् अपि तुच्छतरो ह्य् अयम् ॥

6.30.26

स्वल्पसङ्कल्पजो दीर्घैस् सुखदुःखैर् न गृह्यते ।
दीर्घसङ्कल्पजश् चायं दीर्घदुःखेन दुःखितः ॥

6.30.27

देहो हि सङ्कल्पमयो नायम् अस्ति न नास्ति च ।
किं व्यर्थम् एतदर्थं हि मूढो ऽयं क्लेशभाग् जनः ॥

6.30.28

यथा चित्रमये पुंसि क्षते क्षीणे न वः क्षतिः ।
यथा सङ्कल्पपुरुषे क्षते क्षीणे न वः क्षतिः ॥

6.30.29

यथा मनोराज्यमये क्षते क्षीणे न वः क्षतिः ।
यथा द्वितीये शशिनि क्षते क्षीणे न वः क्षतिः ॥

6.30.30

यथा स्वप्नसमारम्भे क्षते क्षीणे न वः क्षतिः ।
यथा घनातपजले क्षते क्षीणे न वः क्षतिः ॥

6.30.31

सङ्कल्पमात्रकलिते प्रकृत्यैव विनाशिनि ।
तथा शरीरयन्त्रे ऽस्मिन् क्षते क्षीणे न वः क्षतिः ॥

6.30.32

दीर्घस्वप्नमये ह्य् अस्मिंश् चिरसङ्कल्पकल्पिते ।
भूषिते दूषिते देहे न हि किञ्चिच् चितः क्षतम् ॥

6.30.33

न चिद् अस्तम् उपायाति नात्मा चलति राघव ।
न ब्रह्म विकृतिं याति किं वो देहक्षये क्षतम् ॥

6.30.34

भ्रमच्चक्रोपरिस्थो हि त्यक्तचक्रो ऽपि चक्रवत् ।
यथा पश्यति दिक्चक्रं भ्रमद् अत्यन्तमोहितः ॥

6.30.35

अकस्माद् एव रूढेन मिथ्याज्ञानेन वल्गता ।
अभ्यस्तेन तथैवेदं दृश्यते देहचक्रकम् ॥

6.30.36

भ्रमितं च भ्रमद्रूपं पतद्रूपं च पातितम् ।
हतं च हन्यमानं च वपुर् दुर्वासनावशात् ॥

6.30.37

अज्ञानजं भ्रमं त्यक्त्वा सत्यां दृष्टिम् अवेक्ष्य च ।
धीरताम् अलम् आलम्ब्य घनं भ्रमम् इदं त्यजेत् ॥

6.30.38

सङ्कल्पेन कृतो देहो मिथ्याज्ञानेन सन् न सन् ।
असत्येन कृतं यत् स्यान् न तत् सत्यं कदाचन ॥

6.30.39

असदभ्युत्थितो देहो रज्ज्वाम् इव भुजङ्गमः ।
असत्याम् एव चेमां च करोति च जगत्क्रियाम् ॥

6.30.40

जडेन राम क्रियते यत् तन् न कृतम् उच्यते ।
कुर्वन्न् अपि ततो देहो न कर्ता क्वचिद् एव हि ॥

6.30.41

निरीहो हि जडो देहो नात्मनो ऽस्त्य् अभिवाञ्छितम् ।
कर्ता न कश्चिद् एवातो द्रष्टा केवलम् अस्य् अजः ॥

6.30.42

यथा दीपो निवातस्थस् स्वात्मन्य् एव हि तिष्ठति ।
साक्षिवत् सर्वभावेषु तथा तिष्ठ जगत्स्थितौ ॥

6.30.43

यथा दिवसकार्याणि भास्करस् स्वस्थ एव सन् ।
करोत्य् एवम् इमां राम कुरु पार्थिवसंस्थितिम् ॥

6.30.44

अस्मिन् ह्य् असन्मये देहगेहे शून्ये समुत्थिते ।
सत्ताम् उपगते मिथ्या बालकल्पितयक्षवत् ॥

6.30.45

कुतो ऽप्य् आगत्य निस्सारस् सर्वसज्जनवर्जितः ।
अहङ्कारकुवेतालः प्रविष्टश् चित्तनामभृत् ॥

6.30.46

भृत्यतां मास्य गच्छ त्वम् अहङ्कारस्य दुर्मतेः ।
अस्य भृत्यतया राम निरयः प्राप्यते फलम् ॥

6.30.47

स्वसङ्कल्पविलासेन देहगेहे निराकृतिः ।
उन्मत्तचित्तवेतालः परिवल्गति लीलया ॥

6.30.48

शून्यदेहगृहं प्राप्य चित्तयक्षेण तत् कृतम् ।
भीता येन महान्तो ऽपि समाधिनिरतास् स्थिताः ॥

6.30.49

चित्तवेतालम् उद्वास्य स्वशरीरैकमन्दिरात् ।
संसारशून्यनगरे न बिभेषि कदाचन ॥

6.30.50

चित्तभूताभिभूते ऽस्मिन् ये शरीरगृहे रताः ।
चित्रम् अद्यापि ते कस्माद् घट्टिता नाश्मवत् स्थिताः ॥

6.30.51

ग्रस्ते चित्तपिशाचेन देहवेश्मनि या धृतिः ।
पिशाचस्यैव सा बुद्धिर् नापिशाचस्य राघव ॥

6.30.52

अहङ्कारबृहद्यक्षे गृहे दग्धशरीरके ।
विहरानास्थया साधो न तवैतत् किल स्थिरम् ॥

6.30.53

अहङ्कारानुचरतां त्यक्त्वा विततया धिया ।
अहङ्कारमृतिं प्राप्य स्वात्मैवाश्व् अवलम्ब्यताम् ॥

6.30.54

अहङ्कारपिशाचेन ग्रस्ता ये निरयैषिणः ।
तेषां मोहामयान्धानां न मित्राणि न बन्धवः ॥

6.30.55

अहङ्कारोपहतया बुद्ध्या या क्रियते क्रिया ।
विषवल्ल्या इव फलं तस्यास् स्यान् मरणात्मकम् ॥

6.30.56

विवेकधैर्यहीनेन स्वाहङ्कारमहाशवम् ।
मूर्खेणालम्बितं येन नष्टम् एवाशु विद्धि तम् ॥

6.30.57

अहङ्कारपिशाचेन वराका ये वशीकृताः ।
त एते नरकाग्नीनां राघवेन्धनतां गताः ॥

6.30.58

अहङ्कारोरगो यस्य परिस्फुरति कोटरे ।
स देहपादपो धीरैर् अचिरेण निपात्यते ॥

6.30.59

अहङ्कारपिशाचो ऽस्मिन् देहे तिष्ठतु यातु वा ।
त्वम् एनम् आलोकय मा मनसा महतां वर ॥

6.30.60

अवधूतो ह्य् अवज्ञातश् चेतसैव तिरस्कृतः ।
अहङ्कारपिशाचस् ते नेह किञ्चित् करिष्यति ॥

6.30.61

देहालये स्फुरत्य् अस्मिन् राम चित्तपिशाचके ।
अस्यानन्तविलासस्य किम् इवागतम् आत्मनः ॥

6.30.62

चित्तयक्षाभिभूतानां याः पुंसां विततापदः ।
शक्यन्ते परिसङ्ख्यातुं न ता वर्षशतैर् अपि ॥

6.30.63

हतो मृतो ऽस्मि दग्धो ऽस्मीत्य् एता दुर्भगवृत्तयः ।
अहङ्कारपिशाचस्य शक्तयो ऽन्यस्य नानघ ॥

6.30.64

सर्वगो ऽपि यथाकाशस् सम्बद्धो नेह केनचित् ।
सर्वगो ऽपि तथैवात्मा नाहङ्कारेण सङ्गतः ॥

6.30.65

यत् करोति यद् आदत्ते देहयन्त्रम् इदं चलम् ।
वातरज्जुयुतं राम तद् अहङ्कारचेष्टितम् ॥

6.30.66

वृक्षोन्नतौ यथा हेतुर् अकर्त्र् अपि किलाम्बरम् ।
आत्मसंस्थस् तथेहात्मा चित्तचेष्टासु कारणम् ॥

6.30.67

आत्मसन्निधिमात्रेण कुड्यरूपम् इवामलम् ।
दीपसन्निधिमात्रेण स्फुरत्य् आत्तवपुर् मनः ॥

6.30.68

अतिविश्लिष्टयो राम नित्यम् एवात्मचित्तयोः ।
द्यावापृथिव्योर् इव कस् सम्बन्धः प्रकटान्धयोः ॥

6.30.69

चलनस्पन्दनेहाभिर् आत्मशक्तिभिर् आवृतम् ।
चित्तम् आत्मेति मौर्ख्येण दृश्यते रघुनन्दन ॥

6.30.70

आत्मा प्रकाशरूपो हि नित्यस् सर्वगतो विभुः ।
चित्तं शठम् अहङ्कारं विद्धि हार्दं बृहत्तमः ॥

6.30.71

आत्मासि रघुसर्वस्व जडा नासि मनोदृषत् ।
दूरीकुरु मनोमोहं किम् एतेनासि सङ्गतः ॥

6.30.72

पिशाचो हि मनोनामा शून्ये देहगृहे स्थितः ।
भाययत्य् एष दुष्टात्मा मैनम् उत्तम संस्पृश ॥

6.30.73

भयप्रदम् अकल्याणं धैर्यसर्वस्वहारिणम् ।
मनःपिशाचम् उत्सार्य यो ऽसि स त्वं स्थिरो भव ॥

6.30.74

चित्तयक्षदृढाक्रान्तं न शास्त्राणि न बन्धवः ।
शक्नुवन्ति परित्रातुं गुरवो न च मानवम् ॥

6.30.75

संशान्तचित्तवेतालं गुरुशास्त्रार्थबन्धवः ।
शक्नुवन्ति समुद्धर्तुं स्वल्पपङ्कान् मृगं यथा ॥

6.30.76

अस्मिञ् जगच्छून्यपुरे सर्वम् एव प्रदूषितम् ।
देहगेहं प्रमत्तेन चित्तयक्षेण वल्गता ॥

6.30.77

चित्तवेतालवलितसमस्तगृहषण्डका ।
इयं जगदरण्यानी शून्या कस्य न भीतये ॥

6.30.78

जगन्नगर्याम् अस्यां तु शान्तचित्तपिशाचकम् ।
देहगेहं कतिपयैस् सेव्यते सद्भिर् एव च ॥

6.30.79

इह संश्रीयते या या दिक् सैव रघुनन्दन ।
प्रमत्तमोहवेतालैः पूर्णा देहश्मशानकैः ॥

6.30.80

अस्यां जगदरण्यान्यां मुहूर्तं मुग्धबालवत् ।
स्वयम् आलम्ब्य धैर्यांशम् आत्मनात्मानम् उद्धर ॥

6.30.81

जगज्जरदरण्ये ऽस्मिंश् चरद्भूतमृगव्रजे ।
धृतिं तृणरसै राम मा गच्छ मृगपोतवत् ॥

6.30.82

अस्मिन् महीतलारण्ये चरन्नृमृगपोतके ।
त्वम् अज्ञानगजं भङ्क्त्वा सैंहीं वृत्तिम् उपाश्रय ॥

6.30.83

अन्ये नरमृगा मुग्धा जम्बुद्वीपे स्वजङ्गले ।
विहरन्ति यथा राम तथा मा विहरानघ ॥

6.30.84

अत्यल्पकालं शिशिरे कर्दमालेपदायिनि ।
न मङ्क्तव्यं वधूरूपे महिषेणेव पल्वले ॥

6.30.85

भोगाभोगा बहिष्कार्या आर्यस्यानुसरेत् पदम् ।
प्रविचार्य महार्यैस् स्वम् एकम् आत्मानम् आश्रयेत् ॥

6.30.86

अपवित्रस्य तुच्छस्य दुर्भगस्य दुराकृतेः ।
देहस्यार्थे न मङ्क्तव्यं चिन्ताचुण्टीषु चारुणा ॥

6.30.87

अन्येन रचितो देहो यक्षेणान्येन संश्रितः ।
दुःखम् अन्यस्य भोक्तान्यश् चित्रेयं मौर्ख्यचक्रिका ॥

6.30.88

यथैकरूपा घनता दृषदो ऽप्य् आत्मनस् तथा ।
सत्तामात्रैकसामान्याद् इतरस्यात्यसम्भवात् ॥

6.30.89

यथोपलस्य घनता मनस्ता हि तथात्मनः ।
सत्तामात्राद् अभिन्ना स्वाद् अभावाद् अन्यसंविदः ॥

6.30.90

यथोपलस्य घनता तथास्य परमात्मनः ।
रूपैकरूपा संवित्तिस् सत्तासामान्यरूपतः ॥

6.30.91

पृथक् सम्भवतीहाङ्ग न जाड्यं न च चेतनम् ।
मिथ्यासङ्कल्परचिते एते हि शिशुयक्षवत् ॥

6.30.92

यथेक्षुरसमात्रस्य त्व् एकस्यैव पृथङ्मयी ।
अयं गुड इदं खण्डम् इति माया मुधोदिता ॥

6.30.93

परमात्मन एकस्य सत्तासामान्यरूपतः ।
मुधैवाभ्युदितैवेयं जाड्याजाड्यमतिस् तथा ॥

6.30.94

क्षीयते प्रेक्षितैवैषा प्रेक्षामात्रैकनाशिनी ।
शुक्तिरुप्यमतिप्रख्या न सती नासती ततः ॥

6.30.95

नासतो विद्यते भावो यो नास्त्य् एवेह सन् न सः ॥

6.30.96

स्वरूपमात्रनिष्ठत्वाद् द्वैतैक्याभावयोगतः ।
अभावाद् अन्यसंवित्तेस् समत्वम् उपलात्मनोः ॥

6.30.97

अनन्यो ऽनन्त एकात्मा स्वसत्तानुभवी यथा ।
तथोपलस् स्वतानिष्ठो न जडो न च चेतनः ॥

6.30.98

अन्यासम्भवतो नित्यद्वैतैक्याभावयोगतः ।
चेत्यस्यासम्भवाद् आत्मा न जडो न च चेतनः ॥

6.30.99

जडाजडदृशौ वन्ध्यापुत्रवद् व्योमवृक्षवत् ।
समायाते न चायाते प्रेक्षिते न च वीक्षिते ॥

6.30.100

जडचेतनशब्दार्थाव् असन्तौ रज्जुसर्पवत् ।
भवतस् तौ कथं सत्यम् अप्रेक्षामात्रकाद् ऋते ॥

6.30.101

यच् च चेतनम् आत्मेति जडश् चोपल इत्य् अपि ।
उक्तं तद् ईदृग्वाग्योग्यबोध्यबोधनहेतुकम् ॥

6.30.102

बोध्यः परतरे बोधे यया युक्त्या प्रबोध्यते ।
सोपदेश्या न गृह्णाति मूढस् तत् सहसा पदम् ॥

6.30.103

चित्तं पृथक् पृथग् इमानि हतेन्द्रियाणि कर्ता न दृश्यत इदं च गृहं मुधैव ।
को ऽप्य् अन्य एव परिवल्गति निस्स्वभाव एषो ऽहम् इत्य् अलम् अहो महद् इन्द्रजालम् ॥

6.30.104

लोलासु संसृतिषु भूतपरम्पराणां क्रीडासु चान्यपुरुषस्य चिदेकवृत्तेः ।
तत्त्वं विचार्य रमते हि महानुभावो मन्त्री यथोल्बणविषासु भुजङ्गमीषु ॥

6.30.105

न त्वं शिरो न नयने न च रक्तमांसे नास्थीनि नैव च मनो न च भूतजालम् ।
मा मोहम् एहि न शरीरम् असि प्रसन्ना चित् त्वं प्रपन्नसकलामलसर्वगेति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc