मोक्षोपाय · अध्याय 6.31
एतां दृष्टिम् अवष्टभ्य नष्टकष्टेष्टचेष्टितः ।
तिष्ठाष्टगुणम् ऐश्वर्यम् अप्य् अरिष्टम् इवोत्सृजन् ॥
अथेमाम् अपरां दृष्टिं महामोहविनाशिनीम् ।
दुष्प्रापाम् अपि सुप्रापाम् अनपायाम् अनामयाम् ॥
शृणु या कथिता पूर्वं मम कैलासकन्दरे ।
संसारदुःखशान्त्यर्थं देवेनार्धेन्दुमौलिना ॥
अस्तीन्दुकरसम्भारभासुरः पारगो दिवः ।
कैलासो नाम शैलेन्द्रो गौरीरमणमन्दिरम् ॥
गङ्गानिर्झरनिर्धौतो गणोद्गीर्णगुहागृहः ।
मन्दानिलवलच्चूतकदम्बवनबन्धुरः ॥
लीलालोलामरगणः कृतकोककलारवः ।
कौमारबर्हिवलितखर्जूरवनपिञ्जरः ॥
तमालान्तर्हिताम्भोदः कदलीतुलिताम्बुदः ।
चञ्चरीजालजटिलः कूजत्कलकपिञ्जलः ॥
विद्याधरोद्गीतगुहः कचत्कनककन्दरः ।
कारण्डवोड्डामरवाग् असङ्ख्यकुसुमाम्बुदः ॥
विमुक्तजलदोद्गारस् सिद्धचारणसेवितः ।
चन्द्रावचूलदयितस् त्रिलोकीलोकवन्दितः ॥
सत्कल्पपादपभुजस् सुशिखाशृङ्गकन्धरः ।
रत्नविद्योतनयनो वनावलितनूरुहः ॥
काचकन्दरकेशश्रीस् स्ववनावलनांशुकः ।
पवनोद्धूतकिञ्जल्कजालारुणतलाम्बरः ॥
तत्रास्ते भगवान् देवो हरश् चन्द्रकलाधरः ।
शूलपाणिस् त्रिनयनो गणौघपरिवारितः ॥
भवानीहृतदेहार्धस् सर्वलोकैककारणम् ।
कन्दर्पदर्पदलनः कलाकरकलाधरः ॥
षण्मुखानुगतच्छायः प्रमत्तवृषवाहनः ।
मत्तेभकृत्तिवसनश् श्मशानरमणालयः ॥
तं पूजयन् महादेवं तस्मिन्न् एव गिरौ पुरा ।
कदाचिद् अवसं गङ्गातटे ऽहं रचिताश्रमः ॥
तपोऽर्थं तापसाचारे चिराय रचितस्थितिः ।
यथाक्रमसदाचारः पुण्यसानुसमाश्रयः ॥
निवासार्थं कृतस्नानः कृतनीलदलोटजः ।
बालवृक्षकबद्धास्थस् संरोपितलतावृतिः ॥
सञ्चिताग्र्यवनप्राणिर् उपार्जितकमण्डलुः ।
पुष्पार्थं स्यूतपुटकस् सूम्भितस्वाक्षमालिकः ॥
शिष्यसङ्घातवलितः कृतशास्त्रार्थसङ्ग्रहः ।
आनीतपुस्तकव्यूहः परिपालितसन्मृगः ॥
एवंगुणविशिष्टस्य कैलासवनकुञ्जके ।
तपः प्रचरतो राम मम कालो ऽत्यवर्तत ॥
अथैकदा कदाचित् तु बहुलस्याष्टमे दिने ।
गते श्रावणपक्षस्य रात्र्यर्धे क्षयम् आगते ॥
दिक्षु संशान्तरूपासु काष्ठमौनस्थितास्व् इव ।
खड्गच्छेद्यान्धकारेषु कुञ्जेषु गहनेषु च ॥
अवश्यायलसन्मुक्ताहासे सरति मारुते ।
आलवालोपधानेषु मृगेष्व् आश्रमशायिषु ॥
अमृतांशुकरस्यन्दम् आत्मनः परिवृद्धये ।
लिहत्सु शशिरश्मिभ्यः पल्लवेष्व् अमृतद्रवम् ॥
कुमुद्वतीष्व् ओषधीषु चकोरीषु लतासु च ।
पिबन्तीष्व् अमृतस्यन्दं करैर् आकीर्णम् ऐन्दवम् ॥
शैलविश्रान्तनीलाभ्रपल्लवस्य विसारिणः ।
कृत्तिकागुच्छके व्योमतापिञ्छस्य त्रिभागगे ॥
तारौघप्रतिबिम्बेन गिरौ स्फटिकभूमिषु ।
विकासिपुष्पप्रकरे द्विगुणत्वम् उपागते ॥
मयि पल्लवपल्यङ्कगते मुक्तेहया धिया ।
चिन्तयत्य् अमलाभासम् आत्मतत्त्वम् अविप्लुतम् ॥
द्वितीयमद्देहवति व्योम्नि सप्तर्षिमण्डले ।
मदर्थम् इव ताम् एव दिशम् आपततीव च ॥
तारकात्रितये व्योम्नो गृहमूर्धनि मध्यगे ।
मृगत्रये किरातात्ते सदा भ्रमम् इवागते ॥
उत्फुल्लकुमुदामोदद्विगुणोद्दाममन्मथे ।
चक्रवाकगणे शैलसरसीष्व् अन्यतां गते ॥
शिलाशिखोपविष्टासु शैलोत्कीर्णास्व् इवाभितः ।
पिबन्तीषु चकोरीषु शीतं शशिकरामृतम् ॥
वहति मधुरमारुते वने ऽन्तश् शशिकरशीकरवर्षणैकशीते ।
दलचयचलनोत्थशब्दगीते कुमुदवधूप्रथमाभिसारिणीव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0