भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.29

6.29.1

एवं भुसुण्डवृत्तान्तः कथितस् ते मयानघ ।
अनया प्रज्ञया तीर्णो भुसुण्डो मोहसङ्कटात् ॥

6.29.2

एतां दृष्टिम् अवष्टभ्य स्वप्राणाभ्यासपूर्विकाम् ।
भुसुण्डवन् महाबाहो भव तीर्णभवार्णवः ॥

6.29.3

यथा ज्ञानेन योगेन सन्तताभ्यासजन्मना ।
भुसुण्डो ऽवाप्तवान् प्राप्यं तथा साधय तत् पदम् ॥

6.29.4

असक्तबुद्धयस् सन्तो भुसुण्डवद् अवस्थितिम् ।
प्राप्नुवन्ति परे तत्त्वे प्राणापानावलोकिनः ॥

6.29.5

एता विचित्रा भवता श्रुता विज्ञानदृष्टयः ।
इदानीं धियम् आलम्ब्य यथेच्छसि तथा कुरु ॥

6.29.6

भगवन् भवता भूमिभास्वता ज्ञानरश्मिभिः ।
हार्दम् उद्दामदौरात्म्यं प्रमृष्टम् अखिलं तमः ॥

6.29.7

प्रबुद्धास् स्मः प्रहृष्टास् स्मः प्रविष्टास् स्मस् स्वम् आस्पदम् ।
स्थितास् स्मो ज्ञातविज्ञेया भवन्तो ह्य् अपरा इव ॥

6.29.8

अहो भुसुण्डचरितं परं विस्मयकारकम् ।
भगवन् भवता प्रोक्तम् उत्तमार्थावबोधदम् ॥

6.29.9

भुसुण्डचरिते ब्रह्मन्न् एतस्मिन् यत् त्वया विभो ।
तच् छरीरगृहं प्रोक्तं मांसचर्मास्थिनिर्मितम् ॥

6.29.10

तत् केन नाम रचितं कुतो वा तत् समुत्थितम् ।
कथं वा स्थितिम् आयातं को वा तत्रावतिष्ठते ॥

6.29.11

परमार्थावबोधाय दोषापाकरणाय च ।
शृणु राघव तत्त्वेन वक्ष्यमाणम् इदं मया ॥

6.29.12

अस्थिस्थूणं नवद्वारं रक्तमांसावलेपनम् ।
शरीरसदनं राम न केनचिद् इदं कृतम् ॥

6.29.13

आभासमात्रम् एवेदम् इत्थम् एवावभासते ।
द्विचन्द्रविभ्रमाकारं सद् असच् च व्यवस्थितम् ॥

6.29.14

द्विचन्द्रविभ्रमविधौ द्विचन्द्रत्वं सद् एव हि ।
वस्तुतश् चैक एवेन्दुस् स्थितिर् देहे तथैव हि ॥

6.29.15

देहप्रत्ययकाले हि देहो ऽयं सन् व्यवस्थितः ।
असन्न् एव वस्तुतस् स प्रोक्तस् सदसदात्मकः ॥

6.29.16

स्वप्नस् स्वप्नविधौ सत्यस् त्व् अन्यदा स मुधैव हि ।
बुद्बुदो बुद्बुदविधौ सत्यो मिथ्यैव चान्यदा ॥

6.29.17

देहो देहावधौ सत्यो ऽप्य् असत्य इतरावधौ ।
प्रतिभासावधौ तापे जलं सद् असद् अन्यदा ॥

6.29.18

प्रतिभासावधौ देहस् सन्न् असंस् त्व् अन्यदा स्मृतः ।
आभासमात्रम् एवेदम् इत्थं सम्प्रति भासते ॥

6.29.19

अयं नामाहम् इत्य् अन्तर् गृहीतमननं स्थितम् ॥

6.29.20

मांसास्थिमयनिर्माणं देहो नान्यद् इति भ्रमम् ।
त्यज सङ्कल्पनिर्माणा देहास् सन्ति सहस्रशः ॥

6.29.21

वरतल्पगतो येन स्वप्ने देहेन दिक्तटम् ।
परिभ्रमसि हे राम स देहस् ते क्व संस्थितः ॥

6.29.22

जागरायां मनोराज्ये येन स्वर्गपुरान्तरम् ।
परिभ्रमसि मेरुं वा स देहस् ते क्व संस्थितः ॥

6.29.23

स्वप्नेष्व् अपि च यस् स्वप्नस् तत्र येन महीतटान् ।
परिभ्रमसि हे राम स देहस् ते क्व संस्थितः ॥

6.29.24

गतैर् देहैर् मनोराज्ये महाविभवभूमिषु ।
परिभ्रमसि येनेह स देहस् ते क्व संस्थितः ॥

6.29.25

मनोराज्ये मनोराज्ये विचित्रा या जगत्क्रियाः ।
प्रकरोषि महाबाहो यैर् देहैस् ते क्व संस्थिताः ॥

6.29.26

विलासिन्यानुरागिण्या येन सङ्कल्पकान्तया ।
निर्वृतिं यासि देहेन स देहस् ते क्व संस्थितः ॥

6.29.27

एते राम यथा देहा मानसस्पन्दसन्मयाः ।
तथैव तादृगारम्भो देहो ऽयं मानसस् स्मृतः ॥

6.29.28

इदं धनम् अयं देहो देशो ऽयम् इति यो भ्रमः ।
तत् सर्वं चित्तवीर्यस्य सङ्कल्पस्य विजृम्भितम् ॥

6.29.29

दीर्घं स्वप्नम् इमं विद्धि दीर्घं वा चित्तविभ्रमम् ।
दीर्घं वापि मनोराज्यं संसारं रघुनन्दन ॥

6.29.30

प्रबोधम् एष्यसि यदा परम् आत्मेच्छया स्वया ।
द्रक्ष्यसि त्वं तदा सम्यग् इदम् ऊर्ध्वाद् अधो यथा ॥

6.29.31

स्वप्नसङ्कल्पकलने यथान्येव जगत्स्थितिः ।
तथैवेयं हि सङ्कल्पकलना काचिद् एव ह ॥

6.29.32

यथा पूर्वं मयोत्पत्तिः प्रोक्ता कमलजन्मनः ।
मनसस् स्वयम् एवान्तस् सङ्कल्पकलनोद्भवा ॥

6.29.33

विचित्ररचनोपेतम् अनन्तशतविभ्रमम् ।
सङ्कल्पकलनामात्रं तथेदम् अवभासते ॥

6.29.34

यथा कलित आभासो मनसो ऽब्जजतागतौ ।
देहवच् चिन्तितो देहस् स्थितो ऽन्यस् तद्वद् एव हि ॥

6.29.35

प्राक्प्रवाहचिराभ्यस्तो वासनाविलयेन यः ।
तथैव दृश्यते देहस् तदाकृत्युदयेन सः ॥

6.29.36

पौरुषेण प्रयत्नेन सङ्कल्पो ह्य् अयम् एव चेत् ।
अन्यथा भाव्यते राम भूयते तद् इहान्यथा ॥

6.29.37

अयं सो ऽहं ममायं च संसार इति भाविते ।
सत्यो ऽयं भासते राम भावनादार्ढ्यसम्भवः ॥

6.29.38

भावितं तीव्रवेगेन यद् एवाशु तद् एव च ।
सर्वत्र दृश्यते राम कान्तेवात्यन्तवल्लभा ॥

6.29.39

अहर्व्यापृतिर् अभ्यस्ता यथा स्वप्ने ऽपि दृश्यते ।
तथा सम्भावनाभ्यस्तस् संसारो ऽप्य् अवलोक्यते ॥

6.29.40

यथा स्वप्नावधौ क्षिप्रम् अहर्वद् अवभासते ।
तथेदं सर्वकालस्थम् अपि संलक्ष्यते चिरम् ॥

6.29.41

व्योमन्य् एव यथा तापसन्तप्ते दृश्यते सरित् ।
धराप्य् अविद्यमानैव सङ्कल्पाद् दृश्यते तथा ॥

6.29.42

दृश्यते दृष्टिवैरूप्याद् यथा व्योमनि पिञ्छिका ।
तथैवेयं जगल्लक्ष्मीर् दुर्ज्ञानाद् एव भासते ॥

6.29.43

भीरुर् अप्य् एति न यथा स्वसङ्कल्पेषु सम्भ्रमम् ।
स्वसङ्कल्पे ऽपि संसारे न तथैति भयं सुधीः ॥

6.29.44

स्व एव हि स्वभावो ऽयम् इत्थं सम्प्रति भासते ।
संसारसरणिस्थित्या कस्मात् को ऽत्र विभाति किम् ॥

6.29.45

स एव किञ्चित् संशोध्यश् शुद्ध्या विमलतां गते ।
तस्मिन् न दृश्यते राम मोहो ऽयं जागतश् चलः ॥

6.29.46

सम्यगालोकमात्रेण स्वभावश् शुद्धिम् ऋच्छति ।
न गृह्णाति मलं भूयस् ताम्रताम् इव काञ्चनम् ॥

6.29.47

आभासमात्रम् एवैतन् न सन् नासज् जगत्त्रयम् ।
इत्य् अन्यकलनात्यागं सम्यगालोकनं विदुः ॥

6.29.48

मरणं जीवितं स्वर्गो ज्ञानम् अज्ञानम् एव च ।
चिदाभासाद् ऋते नास्तीत्य् एकता सम्यगीक्षणम् ॥

6.29.49

त्वमहन्तादिसंसारम् इदम् एता दिशो दश ।
सर्वं स्वाभासम् एवेति सम्यगालोकनं विदुः ॥

6.29.50

सदसन्मयसंसारे यथाभूतार्थदर्शनात् ।
नास्तम् एति न चोदेति सम्यगालोकनान् मनः ॥

6.29.51

निर्णीय सर्वभावानाम् असत्त्वं सत्त्वम् एव वा ।
निष्कामं शान्तिम् अभ्येति सम्यगालोकनान् मनः ॥

6.29.52

न निन्दति न च स्तौति न हृष्यति न शोचति ।
शीतलं सत्यताम् एति सम्यगालोकनान् मनः ॥

6.29.53

अवश्यम् एव मर्तव्यं सर्वैर् एव हि बन्धुभिः ।
इति बन्धुवियोगेषु किं वृथा परितप्यसे ॥

6.29.54

अवश्यम् एव च मया मर्तव्यम् इति निश्चये ।
इत्य् आत्ममरणप्राप्तौ किं मुधा परितप्यसे ॥

6.29.55

अवश्यम् एव जातेन किञ्चित् स्वविभवादिकम् ।
प्राप्तव्यं पुरुषेणेति हर्षस्यावसरो हि कः ॥

6.29.56

सर्वस्यैव हि संसारे नरस्य व्यवहारिणः ।
अनर्थाय भवत्य् आपच् छोकस्यावसरो हि कः ॥

6.29.57

ब्रुडत्य् उदेति स्फुरति बुद्बुदौघ इवार्णवे ।
इदं हि जनताजालं किम् अत्र परिदेवना ॥

6.29.58

सत् सद् एव सदैवैतद् असद् एवासद् एव हि ।
क्रियावैचित्र्यमात्रे तु किम् अस्मिन् परिदेवना ॥

6.29.59

नाहम् अस्मि न चाभूवं न भविष्यामि चाधुना ।
देहो ऽहं चित्तदोषो ऽयं किम् अन्यत् परिदेव्यते ॥

6.29.60

देहाच् चेद् अन्य एवाहं चिदाभासस् तद् अङ्ग हे ।
कौ तौ मे सदसद्भावौ यन्निष्ठं परितप्यते ॥

6.29.61

इति निश्चयवत् त्व् अन्तस् सम्यग्ज्ञानान् मनो मुनेः ।
नास्तम् एति न चोदेति न चान्तः परितप्यते ॥

6.29.62

परताम् एव तां सो ऽन्तर् अनुत्तरपदस्थिताम् ।
आदत्ते तित्तिरिर् मृद्वीं तृणकोटिम् इवामलाम् ॥

6.29.63

एतदर्थम् असत्ये ऽस्मिन् नास्था कार्या मनाग् अपि ।
सुरज्ज्वेव बलीवर्दो बध्यते जन्तुर् आस्थया ॥

6.29.64

असत्स्वप्नं दृढम् इदम् इति निर्णीय बुद्धितः ।
आस्थारहितया दृष्ट्या विहर्तव्यम् इहानघ ॥

6.29.65

कर्तव्यम् एव कर्तव्यं यस्य न प्रतिभासते ।
सो ऽन्तश्शीतलताम् एति दिनान्ते भुवनं यथा ॥

6.29.66

प्रविभागं परित्यज्य पदार्थपटलव्रजे ।
आभासमात्रसामान्यम् इदम् आलोकयानघ ॥

6.29.67

आभासमात्रकं राम चिन्तामर्शकलङ्कितम् ।
ततस् तद् अपि सन्त्यज्य निराभासो भवोत्तमः ॥

6.29.68

चिदाकाशमयो नित्यस् सर्वगस् सर्ववर्जितः ।
आभासस्य परित्यागे भवस्य् एकान्तनिर्मलः ॥

6.29.69

नाहम् अस्मि न मे भोगास् सत्या इत्य् अभिभाविते ।
नेदम् आडम्बरं व्यर्थम् अनर्थायावभासते ॥

6.29.70

अहम् एव हि वा सर्वं चिद् इत्य् एवाभिभाविते ।
नेदम् आडम्बरं व्यर्थम् अनर्थायावभासते ॥

6.29.71

दर्शनद्वयम् अप्य् एतत् सत्यम् अत्यन्तसिद्धिदम् ।
यद् एकम् एतयोर् वेत्सि रम्यं तद् राम संश्रय ॥

6.29.72

द्वाभ्याम् एवाथ वै ताभ्यां दर्शनाभ्याम् इहानघ ।
विहरन् कुरु कल्याणं रागद्वेषपरिक्षयात् ॥

6.29.73

यत् किञ्चिद् उचितं लोके यन् नभस्य् अथ यत् परे ।
तत् सर्वं प्राप्यते राम रागद्वेषपरिक्षयात् ॥

6.29.74

रागाहिहितया बुद्ध्या यादृग् राम विचेष्ट्यते ।
तत् तद् एव प्रयात्य् आशु मूढानां विपरीतताम् ॥

6.29.75

द्वेषदोषोपरुद्धासु न गुणाश् चित्तवृत्तिषु ।
पदं कुर्वन्ति दग्धासु स्थलीषु हरिणा इव ॥

6.29.76

रागो द्वेषश् च सर्पौ द्वौ न निलीनौ मनोबिले ।
यस्य कल्पतरोस् तस्मात् किं नामाङ्ग न लभ्यते ॥

6.29.77

ये हि प्राज्ञास् सुनियता विदग्धाश् शास्त्रशालिनः ।
रागद्वेषमयास् ते चेज् जम्बुकास् तद् धिग् अस्तु तान् ॥

6.29.78

मद् धनं भुक्तम् अन्येन धनं भुक्तं मयान्यतः ।
इत्थं संव्यवहारेहा को रागद्वेषयोः क्रमः ॥

6.29.79

धनानि बन्धवो मित्रं पुनर् आयान्ति यान्ति च ।
किम् एतेषु नरः प्राज्ञो रज्यते वा विरज्यते ॥

6.29.80

भावाभावभवाभोगा मायेयं पारमेश्वरी ।
संसाररचनासर्पी प्रसक्तं प्रदहत्य् अलम् ॥

6.29.81

न धनं न जनो नास्मि सत्यं राघव वस्तुतः ।
मिथ्यैव मिथ्यावलितम् इतीदं परिलक्ष्यते ॥

6.29.82

आद्यन्तयोस् सर्वम् असन् मध्ये ऽप्य् अस्थिरम् आधिमत् ।
क्व बध्नातु धृतिं धीरो ह्य् अन्यकल्पितखद्रुमे ॥

6.29.83

एकेन कल्पिता खे स्त्री भुङ्क्ते तां दूरगो ऽपरः ।
इतीयम् अङ्ग संसाररचना नेतरः क्रमः ॥

6.29.84

इहाजवञ्जवीभावम् इमम् आकुलम् आततम् ।
गन्धर्वपुरनिर्माणविनाशेन समं विदुः ॥

6.29.85

स्वप्नसङ्कल्पपुरवद् असद् एवेदम् उत्थितम् ।
कालदैर्घ्यधिया जातप्रत्ययं जातम् अद्य वः ॥

6.29.86

नासि नायं पटो नार्थो विद्यते भित्तिभागवान् ।
सङ्कल्पकलनैवेयम् अभ्यासात् पुष्टतां गता ॥

6.29.87

सुषुप्तसंस्थितो नित्यं वितते शाश्वते पदे ।
न कश्चिद् एव परमे भवान् आत्मनि संस्थितः ॥

6.29.88

सर्वं तत्रस्थ एवेदं सुषुप्तपदविच्युतः ।
परिपश्यसि संसारदीर्घस्वप्नम् उरुभ्रमम् ॥

6.29.89

अज्ञाननिद्रासुघनस्वस्वभावान् मनाक् च्युतः ।
संसारस्वप्नसम्भ्रान्तो भवान् अयम् इह स्थितः ॥

6.29.90

तद् एतां विततां निद्रां घनाज्ञानमयात्मिकाम् ।
त्यजालक्ष्मीम् इव प्राप्तनिधानः पुरुषोत्तम ॥

6.29.91

प्रबोधम् एहि पश्याच्छम् आत्मानम् उदितं सदा ।
निर्विकल्पचिदाभासं प्रातः पद्मो रविं यथा ॥

6.29.92

प्रबुध्यस्व प्रबुध्यस्व पुनः पुनर् अयं मया ।
प्रबोध्यसे महाबाहो पश्यात्मार्कम् अनामयम् ॥

6.29.93

मयैतेनातिशीतेन वृष्टेन ज्ञानवारिणा ।
सुशब्दशालिना राम घनेनेवासि बोधितः ॥

6.29.94

बोधम् आसादय परं प्रबुद्धो ऽस्य् एव राघव ।
सत्यम् आलोकयालीकं त्यक्त्वेमं जागतं भ्रमम् ॥

6.29.95

न ते जन्म न ते दुःखं न दोषस् ते न ते भ्रमः ।
सर्वसङ्कल्पमुक्तस् त्वं स्वात्मनात्मनि संस्थितः ॥

6.29.96

परिगलितविकल्पदोषजालस् समसितसारसुषुप्तसोम्यवृत्तिः ।
अतिविततम् इदं च सोम्यरूपं समुपशमात्मनि तिष्ठ हे महात्मन् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc