भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.3

6.3.1

भावि भूरितरङ्गाणां पयो वृन्दम् इवान्तरे ।
या चिद् वहत्य् अनन्तानि जगन्त्य् अनघ सा भवान् ॥

6.3.2

भव भावनया मुक्तो भावाभावविवर्जितः ।
चिदात्मन् संस्थिताः क्वेव वद ते वासनादयः ॥

6.3.3

जीवो ऽयं वासनादीदम् इति चित् कचति स्वतः ।
इतरोक्त्यर्थयोर् अत्र कः प्रसङ्गो ऽथ वर्ण्यताम् ॥

6.3.4

महातरलगम्भीरभासुरात्मंश् चिदर्णव ।
रामाभिधो ऽसि स्तिमितस् समस् सोम्यो ऽसि सोमवत् ॥

6.3.5

यथा न भिन्नम् अनलाद् औष्ण्यं सौगन्ध्यम् अम्बुजात् ।
कार्ष्ण्यं कज्जलतश् शौक्ल्यं हिमान् माधुर्यम् इक्षुतः ॥

6.3.6

आलोकश् च प्रकाशाङ्गाद् अनुभूतिस् तथा चितेः ।
जलाद् वीचिश् चिदात्मन् भोश् चित्स्वभावात् तथा जगत् ॥

6.3.7

चितो न भिन्नो ऽनुभवो भिन्नो नानुभवाद् अहम् ।
न मत्तो भिद्यते जीवो न जीवाद् भिद्यते मनः ॥

6.3.8

मनसो नेन्द्रियं भिन्नं पृथग् देहश् च नेन्द्रियात् ।
न शरीराज् जगद् भिन्नं जगतो नान्यद् अस्ति हि ॥

6.3.9

एवं प्रवर्तितम् इव महाचक्रम् इदं चिरम् ।
न च प्रवर्तितं किञ्चिन् न च शीघ्रं च नो चिरम् ॥

6.3.10

नानेवेदम् अनानैव सर्वम् एकम् अखण्डितम् ।
विद्यते व्योमनि व्योम नकस्मिंश्चिन् नकिञ्चन ॥

6.3.11

शून्ये शून्यं समुच्छूनं ब्रह्म ब्रह्मणि बृंहितम् ।
सत्यं विजृम्भते सत्ये पूर्णे पूर्णम् अवस्थितम् ॥

6.3.12

रूपालोकमनस्कारान् कुर्वन्न् अपि न किञ्चन ।
ज्ञः करोत्य् अनुपादेयान् उपादेये हि कर्तृता ॥

6.3.13

यद् उपादेयबुद्ध्यात्तं तद् दुःखाय सुखाय वा ।
भावाभावैर् अनादेयम् अकर्तृ सुखदुःखयोः ॥

6.3.14

यथा नानाप्य् अनानैव खं खे वारीव वार्गणः ।
सार्थको ऽप्य् अतिशून्यात्मा तथात्मजगतोः क्रमः ॥

6.3.15

अन्तर् व्योमामलो बाह्ये सम्यगाचारचञ्चुरः ।
हर्षामर्षविकारेषु काष्ठलोष्टसमस्थितिः ॥

6.3.16

य एवातितरां शत्रुर् मत्सरी मारणोद्यतः ।
तम् एवाकृत्रिमं मित्रं यः पश्यति स पश्यति ॥

6.3.17

समूलकाषं कषति नदीवेग इव द्रुमम् ।
यस् सौहृदं मत्सरं च स हर्षामर्षदोषहा ॥

6.3.18

रागद्वेषविकाराणां स्वरूपं चेन् न भाव्यते ।
ते तु सन्तो ऽप्य् असद्रूपास् सेविता अप्य् असेविताः ॥

6.3.19

यस्य नाहङ्कृतो भावो यस्य बुद्धिर् न लिप्यते ।
हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते ॥

6.3.20

यन् नास्ति तस्य सद्भावप्रतिपत्तिर् उदाहृता ।
मायैव सा परिज्ञानाद् एव नश्यत्य् असंशयम् ॥

6.3.21

निस्स्नेहदीपवच् छान्तो यस्यान्तर् वासनारसः ।
तेन चित्रं कृतं नैव जितं ज्ञेनापि कारिणा ॥

6.3.22

यस्यानुपादेयम् इदं समस्तं पदार्थजातं सदसद्दशासु ।
न दुःखदाहाय सुखाय नैव स मुक्त एवेह सजीव एव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc