मोक्षोपाय · अध्याय 6.2
ततः खिन्नेन्दुवदना पर्याकुलतमःपटा ।
क्षीयमाणा बभौ श्यामा विवेकान्तेव वासना ॥
पूर्वे ध्वस्ततयालोकाद् दृश्यमानो ऽपरे ऽचले ।
शेफालिकावतंसाभां तारकानिकरो दधौ ॥
अवश्यायकणाकर्षी परामृष्टेन्दुमण्डलः ।
ज्योत्स्नाकवलनालोलो ववौ प्राभातिको ऽनिलः ॥
रामलक्ष्मणशत्रुघ्ना उत्थायानुचरैस् सह ।
ययुर् वन्दितसन्ध्यास् ते पुण्यं वासिष्ठम् आश्रमम् ॥
तत्र वन्दितसन्ध्यस्य निर्गतस्याग्निसद्मनः ।
मुनेर् ववन्दिरे पादाव् आदौ दत्त्वार्घ्यसन्ततिम् ॥
क्षणात् तत् सदनं मौनं मुनिब्राह्मणराजभिः ।
हस्त्यश्वरथयानैश् च क्षणान् नीरन्ध्रतां ययौ ॥
अथासौ मुनिशार्दूलस् तयैव सह सेनया ।
गृहं दाशरथं कल्ये रामाद्यनुगतो ययौ ॥
तत्रैनं पूर्वसम्बुद्धः कृतसन्ध्यो महीपतिः ।
दूरम् अग्रे विनिर्गत्य पूजयाम् आस सादरम् ॥
पुष्पमुक्तामणिव्रातैर् भूयो ऽप्य् अधिकभूषिताम् ।
सभां प्रविश्य ते सर्वे विविशुर् विष्टरादिषु ॥
अथैतस्मिन्न् अवसरे ह्यस्तनास् सर्व एव ते ।
श्रोतारस् समुपाजग्मुर् नभश्चरमहीचराः ॥
विवेश सा सभा सोम्यं कृतान्योऽन्याभिवादना ।
बभौ समसमाभोगा शान्तवातेव पद्मिनी ॥
यथाप्रदेशम् एवाशु निविष्टेषु यथासुखम् ।
तेषु तद्देशयोग्येषु विप्रर्षिमुनिराजसु ॥
मृदुनि स्वागतरवे शनैश् शमम् उपागते ।
सभाकोणोपविष्टेषु शान्तशब्देषु वन्दिषु ॥
त्वरयेवोदितेष्व् आशु श्रोतुम् अभ्यागतेष्व् इव ।
गवाक्षाद् इव जातेषु प्रविष्टेष्व् अर्करश्मिषु ॥
सत्वरं प्रविशच्छ्रोतृहस्तस्पर्शवशोद्भवे ।
मुक्ताजालझणत्कार ओङ्कार इव शाम्यति ॥
कुमारश् शङ्करस्येव कचो देवगुरोर् इव ।
प्रह्लाद इव शुक्रस्य सुपर्ण इव शार्ङ्गिणः ॥
वसिष्ठस्यानने रामश् शनैर् दृष्टिम् अपातयत् ।
भ्रमन्तीम् अम्बरे वातः फुल्लपद्म इवालिनीम् ॥
मुनिस् त्व् अनुज्झितेनाथ तेनैव रघुनन्दनम् ।
क्रमेणोवाच वाक्यज्ञो वाक्यं वाक्यार्थकोविदम् ॥
कच्चित् स्मरसि यत् प्रोक्तं ह्यो मया रघुनन्दन ।
वाक्यम् अत्यन्तगुर्वर्थं परमार्थावबोधकम् ॥
इदानीम् अवबोधार्थम् अन्यच् च रिपुमर्दन ।
उच्यमानं मयेदं त्वं शृणु शाश्वतसिद्धये ॥
वैराग्याभ्यासवशतस् तथा तत्त्वावलोकनात् ।
संसारात् तीर्यते तेन तेष्व् एवाभ्यासम् आहर ॥
सम्यक् तत्त्वावबोधेन दुर्बोधे क्षयम् आगते ।
गलिते वासनावेशे विशोकं प्राप्यते पदम् ॥
दिक्कालाद्यनवच्छिन्नम् अदृष्टोभयकोटिकम् ।
एकं ब्रह्मैव हि जगत् स्थितं द्वित्वम् इवागतम् ॥
सर्वभावानवच्छिन्नं यत्र ब्रह्मैव विद्यते ।
शान्तं समसमाभासं तत्रान्यत् तत् कथं भवेत् ॥
इति मत्वाहम् इत्य् अन्तर् मुक्त्वा मुक्तवपुर् महान् ।
एकरूपः प्रशान्तात्मा मौनी स्वात्ममयो भव ॥
नास्ति चित्तं न चाविद्या न मनो न च जीवकः ।
एताश् च कलना राम कृता ब्रह्मण एव ताः ॥
यास् सम्पदो याश् च दृशो याश् चितो याश् चिदेषणाः ।
ब्रह्मैव तद् अनाद्यन्तम् अब्रह्मेह न विद्यते ॥
पाताले भूतले स्वर्गे त्रिनेत्रान्तं तृणादि यत् ।
दृश्यते तत् परं ब्रह्म चिद्रूपं नान्यद् अस्ति हि ॥
उपेक्ष्यं हेयम् आदेयं बन्धवो विभवा वपुः ।
ब्रह्मैव विगताद्यन्तम् अब्धिवत् प्रविजृम्भते ॥
यावद् अज्ञानकलना यावद् अब्रह्मवासना ।
यावद् आस्था जगज्जाले तावच् चित्तादिकल्पना ॥
देहे यावद् अहम्भावो दृश्ये ऽस्मिन् यावद् आत्मता ।
यावन् ममेदम् इत्य् आस्था तावच् चित्तादिविभ्रमः ॥
यावन् नोदितम् उच्चैस्त्वं सज्जनासङ्गशृङ्गतः ।
यावन् मौर्ख्यं न सङ्क्षीणं तावच् चित्तादिनिम्नता ॥
यावच् छिथिलतां यातं नेदं भुवनभावनम् ।
सम्यग्दर्शनशक्त्यान्तस् तावच् चित्तोदयस् स्फुटः ॥
यावद् अज्ञत्वम् अन्धत्वं वैवश्यं विषयाशया ।
मूर्छामोहसमुच्छ्रायस् तावच् चित्तादिकल्पना ॥
यावद् आशाविषामोदः परिस्फुरति हृद्वने ।
प्रविचारचकोरो ऽत्र न तावत् प्रविशत्य् अलम् ॥
भोगेष्व् अनास्थमनसश् शीतलामलनिर्वृतेः ।
छिन्नाशापाशजालस्य क्षीयते चित्तविभ्रमः ॥
तृष्णामोहपरित्यागान् नित्यशीतलसंविदः ।
पुंसस् संशान्तचित्तस्य प्रबुद्धस्य क्व चित्तभूः ॥
असंस्तुतम् इवानास्थम् अवस्तु परिपश्यतः ।
दूरस्थम् इव देहं स्वम् असन्तं चित्तभूः कुतः ॥
भावितानन्तचित्तत्त्वरूपरूपान्तरात्मनः ।
स्वाङ्गांशलीनजगतश् शान्तो जीवादिविभ्रमः ॥
असम्यग्दर्शने शान्ते मिथ्याभ्रमभरात्मनि ।
उदिते परमादित्ये परमार्थैकदर्शने ॥
अपुनर्दर्शनायैव दग्धं संशुष्कपर्णवत् ।
चित्तं विगलितं विद्धि वह्नौ घृतलवं यथा ॥
जीवन्मुक्ता महात्मानो ये परावरदर्शिनः ।
तेषां या चित्तपदवी सा सत्त्वम् इति कथ्यते ॥
जीवन्मुक्तशरीरेषु वासना व्यवहारिणी ।
न चित्तनाम्नी भवति सा हि सत्त्वपदं गता ॥
निश्चेतसो हि तत्त्वज्ञा नित्यं सत्त्वपदे स्थिताः ।
लीलया प्रभ्रमन्तीह सत्त्वसंस्थितिहेलया ॥
शान्ता व्यवहरन्तो ऽपि सत्त्वस्थास् संयतेन्द्रियाः ।
नित्यं पश्यन्ति चिज्ज्योतिर् न द्वैतैक्ये न वासनाः ॥
अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् ।
जुह्वतो ऽन्तर् विचेष्टन्ते मूढवच् छीतलाशयाः ॥
विवेकविशदं चेतस् सत्त्वम् इत्य् अभिधीयते ।
भूयः फलति नो मोहं दग्धं बीजम् इवाङ्कुरम् ॥
या वासना विमूढान्तर् पुनर्जननधर्मिणी ।
चित्तशब्दाभिधा सोक्ता विपर्यस्यति बोधतः ॥
प्राप्तप्राप्यो भवान् राम सत्त्वभावम् उपागतम् ।
चित्तं ज्ञानाग्निना दग्धं न ते भूयः प्ररोहति ॥
संरोहतीषुणा विद्धं तथा परशुनाग्निना ।
न हि ज्ञानाग्निनिर्दग्धं प्रबोधविशदं मनः ॥
ब्रह्मबृंहैव हि जगज् जगच् च ब्रह्मबृंहणात् ।
विद्यते नानयोर् भेदश् चिद्घनब्रह्मणोर् इह ॥
चिदन्तर् अस्ति त्रिजगन् मरिचे तिक्तता यथा ।
नातश् चिज्जगती भिन्ने तस्मात् सदसती मुधा ॥
अचिन्मयत्वान् नासि त्वं खात्मा किम् इव रोदिषि ।
अचिन्मयत्वाज् जगताम् अभावे कलनाः कुतः ॥
चिन्मयश् चेद् भवान् सर्वं तच् चित्त्वं प्रविचारय ।
शुद्धसत्त्वम् अनाद्यन्तं तत्राङ्ग कलनाः कुतः ॥
चिदात्मासि निरंशो ऽसि पारावारविवर्जितः ।
रूपं स्मर निजं स्फारं मास्मृत्या सम्मितो भव ॥
तां स्वसत्तां गतस् सर्वम् असर्वं वा भवोदयी ।
तादृग्रूपो ऽसि शान्तो ऽसि चिद् असि ब्रह्मरूप्य् असि ॥
चिच्छिलोदरम् एवासि नासि नानस्य् अथोम् असि ।
यो ऽसि सो ऽसि न सो ऽसीव सद् अस्य् असद् असि स्वभाः ॥
यः पदार्थविशेषो ऽन्तर् न त्वं नान्यो न सो ऽस्ति ते ।
तद् अस्य् अतद् असि स्वच्छचिद्घनात्मन् नमो ऽस्तु ते ॥
आद्यन्तवर्जितविशालशिलान्तरालसम्पीनचिद्घनवपुर् गगनामलस् त्वम् ।
स्वस्थो भवाजरढपल्लवकोशलेखालीलास्थिताखिलजगज्जलधे जयस् ते ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0