भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.4

6.4.1

मनो बुद्धिर् अहङ्कार इन्द्रियादि तथानघ ।
अचेत्यचिन्मयं सर्वं क्व ते जीवादयस् स्थिताः ॥

6.4.2

एकेनैवात्मना दत्ता नानाता या महात्मना ।
विद्धि तां त्वम् अनानातां हेम्नः कटकताम् इव ॥

6.4.3

यावद् अज्ञानसम्मोहस् तावत् संसारचित्तकम् ।
अज्ञानसङ्क्षये जाते क्व चेत्यं चित्तकं च वा ॥

6.4.4

अध्यात्मविद्याभ्यसनाज् जाड्यम् एति क्षयं तथा ।
हुताशसेवनाद् अन्तर्जाड्यं जलकृतं यथा ॥

6.4.5

भोगतृष्णाविषावेशो यदैवोपशमं गतः ।
तदैव नष्टम् अज्ञानम् आन्ध्यं ध्वान्तक्षयाद् इव ॥

6.4.6

अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका ।
क्षीयते भावितेनान्तश् शरदा मिहिका यथा ॥

6.4.7

मौर्ख्ये क्षीणे क्षतं विद्धि चित्तं राम सबान्धवम् ।
विलीने ऽम्बुधरे व्योम्नि जाड्यं शाम्यत्य् अविघ्नतः ॥

6.4.8

अचित्तत्वं गते चित्ते क्षीयते वासनाभ्रमः ।
हारमुक्तासमावेशश् छिन्ने तन्ताव् इवानघ ॥

6.4.9

न घनाघविघाताय शास्त्रार्थं भावयन्ति ये ।
क्रिमिकीटत्वभोगाय चेतसस् सम्मिलन्ति ते ॥

6.4.10

तव तामरसाकारकान्तलोचन लोलता ।
शान्ता मौर्ख्यकृता वातचलता सरसो यथा ॥

6.4.11

स्थिरताम् उपयातो ऽसि भावाभावविवर्जिते ।
पदे परमविस्तारे नभसीव प्रभञ्जनः ॥

6.4.12

मन्ये मद्वचनैर् बोधम् आयातो ऽसि रघूद्वह ।
वितताज्ञाननिद्रातो निद्रातः पटहैर् इव ॥

6.4.13

सामान्ये ऽपि लगन्त्य् एव मन्ये कुलगुरोर् गिरः ।
अत्युदारमतौ राम न लगन्ति कथं त्वयि ॥

6.4.14

यत्रोपादेयवाक्यत्वं भावितं स्वेन चेतसा ।
तद्वचो ऽन्तर् विशत्य् उच्चैस् तप्ते क्षेत्रे यथा पयः ॥

6.4.15

वयम् इह हि महानुभाव नित्यं कुलगुरवो गुरवो रघूद्वहानाम् ।
तदुदितम् इदम् आशु कार्यम् आर्य स्फुटवचनं हृदि हारवत् त्वयेति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc