मोक्षोपाय · अध्याय 6.28
एतत् ते कथितं ब्रह्मन् यथास्मि यद् इहास्मि वा ।
त्वदाज्ञामात्रसिद्ध्यर्थं धार्ष्ट्येन ज्ञानपारग ॥
अहो नु चित्रं भगवन् भवता भूषणं श्रुतेः ।
आत्मोदन्तः प्रकथितः परं विस्मयकारणम् ॥
धन्यास् ते ये महात्मानम् अत्यन्तं चिरजीवितम् ।
भवन्तं परिपृच्छन्ति द्वितीयम् इव पद्मजम् ॥
वयम् अद्य भृशं धन्यास् स्वात्मोदन्तम् अखण्डितम् ।
यथावत् पावनं बुद्धेस् सर्वं कथितवान् असि ॥
प्रभ्रान्तं दिक्षु सर्वासु दृष्टा विबुधभूमयः ।
भवान् इव जगत्य् अस्मिन् न महान् अवलोकितः ॥
कथञ्चित् प्राप्यते कच्चिद् भ्रान्त्वेह हि महाजनः ।
न भवान् इव भव्यात्मा सुलभो जगति क्वचित् ॥
वंशखण्डे हि कस्मिंश्चिज् जायते मौक्तिकं यथा ।
जगत्खण्डे हि कस्मिंश्चिज् जायते त्वादृशस् तथा ॥
मया तु सुमहत् कार्यम् अद्य सम्पादितं शुभम् ।
पुण्यदेहो विमुक्तात्मा यद् भवान् अवलोकितः ॥
तद् अस्तु तव कल्याणं प्रविशात्मगुहां शुभाम् ।
मध्याह्नसमयो ऽयं मे व्रजामि सुरमन्दिरम् ॥
इत्य् आकर्ण्य भुसुण्डो ऽसौ जग्राहोत्थाय पादपात् ।
सङ्कल्पिताभ्यां हस्ताभ्यां सुपात्रं हेमपल्लवम् ॥
कल्पवृक्षलतापुष्पकेसरेण हिमत्विषा ।
तत् पात्रं मौक्तिकार्घेण पूरयाम् आस पूर्णधीः ॥
तेनार्घ्यपाद्यपात्रेण त्रिनेत्रम् इव माम् असौ ।
आपादमस्तकं भक्त्या पूजयाम् आस पूर्वजः ॥
अनुव्रज्याकदर्थेन खगेन्द्रालम् इति ब्रुवन् ।
विष्टराद् अहम् उत्थाय ततः खगवद् आप्लुतः ॥
व्योम्नि योजनमात्रेण मदनुव्रज्यया गतः ।
करं करेणावष्टभ्य बलात् संरोधितः खगः ॥
मयि याते ततो दीर्घे गगनाध्वन्य् अदृश्यताम् ।
निवृत्तो ऽसौ विहङ्गेशो दुस्त्यजा सङ्गतिस् सताम् ॥
अन्योऽन्यं मयि तस्मिंश् च तरङ्गक इवाम्बुधौ ।
व्योमन्य् अदृश्यतां याते गतस् स्मृत्या मुनीन् अहम् ॥
सप्तर्षिमण्डलं प्राप्य जायया परिपूजितः ।
विस्मयोत्फुल्लहृदयस् ततो ऽहं राघवावसम् ॥
भुसुण्डो भव्यतुण्डो ऽसौ तस्मिन् कल्पलतालये ।
समश् शान्तमना मान्यस् स्वसमाधानवान् अभूत् ॥
जीवत्य् अद्यापि मतिमांस् तस्मिन्न् एव लतादले ।
तत्रैव संस्थितो मेरोस् तथैव कनकद्रुमे ॥
याते कृतयुगस्यादौ पुरा वर्षशतद्वये ।
सङ्गतो ऽहं भुसुण्डेन मेरौ शृङ्गद्रुमे ऽभवम् ॥
अद्य राम कृते क्षीणे त्रेता सम्परिवर्तते ।
मध्ये त्रेतायुगस्यास्य जातस् त्वं रिपुसूदन ॥
पुनर् अद्याष्टमं वर्षं तत्रैवोपरि भूभृतः ।
मिलितो ऽभूद् भुसुण्डो ऽसौ तथैवाजररूपवान् ॥
इतीदं कथितं चित्रं भुसुण्डोदन्तम् उत्तमम् ।
श्रुत्वा विचार्य चैवान्तर् यद् युक्तं तत् समाचर ॥
इति सुमुनिभुसुण्डसङ्कथां यो विमलमतिः प्रविचारयिष्यतीह ।
भवभयबहलां कुसंसृतिं स प्रसभम् असत्सरितं तरिष्यतीति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0