मोक्षोपाय · अध्याय 6.26
जानन्न् अपि मुने सर्वं किं मां पृच्छसि लीलया ।
यथापृष्टम् अहं वच्मि तत्रापि शृणु मे वचः ॥
प्राणो ऽयम् अनिशं ब्रह्मन् स्पन्दशक्तिस् सदागतिः ।
सबाह्याभ्यन्तरे देहे प्राणो ऽयम् उपरि स्थितः ॥
अपानो ऽप्य् अनिशं ब्रह्मन् स्पन्दशक्तिस् सदागतिः ।
सबाह्याभ्यन्तरे देहे त्व् अपानो ऽयम् अवाक् स्थितः ॥
जाग्रतस् स्वपतश् चैव प्राणायामो ऽयम् उत्तमः ।
प्रवर्तते यस् तज्ज्ञस्य तं तावच् छ्रेयसे शृणु ॥
बाह्योन्मुखत्वं प्राणानां यद् धृदम्भोजकोटरात् ।
स्वैरम् एवात्तयत्नानां तं धीरा रेचकं विदुः ॥
द्वादशाङ्गुलपर्यन्तं बाह्यम् आक्रमतां हृदः ।
प्राणानाम् अङ्गसंस्पर्शो यस् स पूरक उच्यते ॥
बाह्यात् परापतत्य् अन्तर् अपाने यत्नवर्जितम् ।
यो ऽङ्गप्रपूरणे स्पर्शो विदुस् तम् अपि पूरकम् ॥
अपाने ऽस्तङ्गते प्राणो यावन् नाभ्युदितो हृदि ।
तावत् सा कुम्भकावस्था योगिभिर् यानुभूयते ॥
पूरकः कुम्भकश् चैव रेचकश् च द्विधा स्थितः ।
अपानस्योदयस्थाने द्वादशान्ताभिधे बहिः ॥
स्वभावात् सर्वकालस्थास् सोम्या यत्नविवर्जिताः ।
ये प्रोक्तास् स्फारमतिभिस् तांस् त्वं शृणु महामते ॥
द्वादशाङ्गुलपर्यन्ताद् बाह्याद् अभ्युदितः प्रभो ।
अपानस् तस्य तत्रैव स्वभावात् पूरकादयः ॥
मृदन्तरस्थानिष्पन्नघटवद् या स्थितिर् बहिः ।
व्योम्नि नित्यम् अपानस्य तं विदुः कुम्भकं बुधाः ॥
बाह्योन्मुखत्वं वायोर् या नासिकाग्रावधिर् गतिः ।
तं बाह्यपूरकं त्व् आद्यं विदुर् योगविदो जनाः ॥
नासाग्राद् अपि निर्गत्य द्वादशान्तावधिर् गतिः ।
या वायोस् तं विदुर् धीरा अपरं बाह्यपूरकम् ॥
अत्रैवास्तङ्गते प्राणे यावन् नापान उद्गतः ।
तावत् पूर्णां समावस्थां बहिस्स्थं कुम्भकं विदुः ॥
यत् तदन्तर्मुखत्वं स्याद् अपानस्योदयं विना ।
तं बाह्यरेचकं विद्याच् चिन्त्यमानं विमुक्तिदम् ॥
द्वादशान्ताद् यद् उत्थाय रूपपीवरता परा ।
अपानस्य बहिस् तत् तम् अपरं रेचकं विदुः ॥
बाह्यान् आभ्यन्तरांश् चैतान् कुम्भकादीन् अनारतम् ।
प्राणापानस्वभावान् स्वान् बुद्ध्वा भूयो न जायते ॥
अष्टाव् एते महाबुद्धे रात्रिन्दिवम् अनुस्मृताः ।
स्वभावाद् एव वायूनां कथिता मुक्तिदा मया ॥
गच्छतस् तिष्ठतो वापि जाग्रतस् स्वपतो ऽपि वा ।
एते न रोधम् आयान्ति प्रकृत्या हि चलो ऽनिलः ॥
यत् करोति यद् अश्नाति बुद्ध्यैतान् समनुस्मरन् ।
कुम्भकादीन् नरस् सो ऽन्तस् तत्र कर्ता न किञ्चन ॥
सुव्यग्रम् अस्मिन् व्यापारे बाह्यं परिजहन् मनः ।
दिनैः कतिपयैर् एव पदम् आप्नोति केवलम् ॥
एतद् अभ्यस्यतः पुंसो बाह्ये विषयवृत्तिषु ।
न बध्नाति रतिं चेतश् श्वदृतौ ब्राह्मणो यथा ॥
एतां दृष्टिम् अवष्टभ्य ये स्थिताः कृतबुद्धयः ।
प्राप्तं प्राप्तव्यम् अखिलं तैर् अखिन्नास् त एव हि ॥
तिष्ठता गच्छता नित्यं जाग्रता स्वपता तथा ।
एषा चेत् प्रेक्ष्यते दृष्टिस् तन् न बन्धनम् आप्यते ॥
प्राणापानानुसरणात् प्राप्ते बोधे निरामये ।
संशान्तमदमोहेन स्वस्थेनान्तर् इहोष्यते ॥
सर्वारम्भांस् त्यजन् स्वस्थः कुर्वंश् चापि बुधो जनः ।
प्राणापानगतीः प्राप्य सुस्वस्थस् सुखम् एधते ॥
प्राणस्याभ्युदयो ब्रह्मन् पद्मयन्त्राद् धृदि स्थितात् ।
द्वादशाङ्गुलपर्यन्ते प्राणो ऽस्तं यात्य् अयं बहिः ॥
अपानस्योदयो बाह्याद् द्वादशान्तान् महामुने ।
अस्तङ्गतिर् अथाम्भोजयन्त्रे हृदयसंस्थिते ॥
प्राणो यत्रास्तम् आयाति द्वादशान्ते नभःपदे ।
पदात् तस्माद् अपानो ऽयम् उदेति समनन्तरम् ॥
बाह्याकाशोन्मुखः प्राणो वहत्य् अग्निशिखा यथा ।
हृदाकाशोन्मुखो ऽपानो निम्ने वहति वारिवत् ॥
अपानश् चन्द्रमा देहम् आप्याययति बाह्यतः ।
प्राणस् सूर्यो ऽग्निर् अथ वा पचत्य् अन्तर् इदं वपुः ॥
प्राणो हि हृदयाकाशं तापयित्वा प्रतिक्षणम् ।
मुखाग्रगगनं पश्चात् तापयत्य् उत्तमो रविः ॥
अपानेन्दुर् मुखाग्रे खं प्याययित्वा हृदम्बरम् ।
पश्चाद् आप्याययत्य् एष निमेषसमनन्तरम् ॥
अपानशशिनो ऽन्तस्स्थाः कलाः प्राणविवस्वता ।
यत्र ग्रस्तास् तद् आसाद्य पदं भूयो न शोच्यते ॥
प्राणार्कस्य कलान्तस्स्था यत्रापानहिमांशुना ।
ग्रस्ता तत् पदम् आसाद्य न भूयो जन्मभाङ् मनः ॥
प्राण एवार्कतां याति सबाह्याभ्यन्तरे ऽम्बरे ।
आप्यायनकरीं पश्चाच् छशिताम् अधिगच्छति ॥
प्राण एवेन्दुतां त्यक्त्वा शरीराप्यायकारिणीम् ।
क्षणाद् आयाति सूर्यत्वं संशोषणकरं परम् ॥
अर्कतां सम्परित्यज्य न यावच् चन्द्रतां गतः ।
प्राणस् तावद् विचार्यान्तर् देशकालौ न शोच्यते ॥
हृदि चन्द्रार्कयोर् ज्ञात्वा नित्यम् अस्तमयोदयम् ।
आत्मनो निजम् आधारं न भूयो जायते मनः ॥
सोदयास्तमयं सेन्दुं सरश्मिं ससमागमम् ।
हृदये भास्करं देवं यः पश्यति स पश्यति ॥
नाक्षीणं न परिक्षीणं बहिस्स्थं सिद्धये तमः ।
हार्दं तु क्षपयेद् ध्वान्तं यत्क्षये सिद्धिर् उत्तमा ॥
बाह्ये तमसि सङ्क्षीणे लोकालोकः प्रजायते ।
हार्दे तु तमसि क्षीणे स्वालोको जायते परः ॥
हार्दान्धकारक्षयदं परिज्ञातं विमुक्तिदम् ।
सोदयास्तमयं यत्नात् प्राणार्कम् अवलोकयेत् ॥
अपानेन्दुः प्रयात्य् अस्तं यत्र हृत्पद्मकोटरे ।
पदात् तस्माद् उदेत्य् अन्तः प्राणार्को बहिरुन्मुखः ॥
अपाने ऽस्तङ्गते प्राणस् समुदेति हृदम्बुजात् ।
छायायां गलिताङ्गायां तत्रैवाशु यथातपः ॥
प्राणे त्व् अस्तङ्गते बाह्याद् अपानः प्रोदयेत् क्षणात् ।
आतपे परितो नष्टे छायेवाशु पदे नवा ॥
प्राणजन्मावनौ नष्टम् अपानं विद्धि सन्मते ।
अपानजन्मभूमौ च प्राणं नष्टम् अवैहि हि ॥
अस्तङ्गतवति प्राणे त्व् अपाने ऽभ्युदयोन्मुखे ।
बहिःकुम्भकम् आलम्ब्य चिरं भूयो न शोच्यते ॥
अपाने ऽस्तङ्गते प्राणे किञ्चिद् अभ्युदयोन्मुखे ।
अन्तःकुम्भकम् आलम्ब्य चिरं भूयो न शोच्यते ॥
प्राणरेचकमूलस्थम् अपानापूरकोटिगम् ।
स्वस्थं कुम्भकम् अभ्यस्य न भूयः परितप्यते ॥
अपानरेचकाधारं प्राणपूरान्तसंस्थितम् ।
स्वसंस्थं कुम्भकं दृष्ट्वा न भूयः परितप्यते ॥
प्राणापानाव् उभाव् अन्तर् यत्रैतौ विलयं गतौ ।
तद् आलम्ब्य पदं शान्तम् आत्मना नानुतप्यते ॥
प्राणभक्ष्योन्मुखापानं देशं कालं च निष्कलम् ।
विचार्य बहिर् अन्तर् वा न भूयः परिशोच्यते ॥
अपानभक्षणपरं प्राणं हृदि तथा बहिः ।
देशं कालं च सम्प्रेक्ष्य न भूयो जायते मनः ॥
यत्र प्राणो ह्य् अपानेन प्राणेनापान एव च ।
निगीर्णो बहिर् अन्तश् च देशौ कालौ च पश्य तौ ॥
क्षणम् अस्तङ्गतप्राणम् अपानोदयवर्जितम् ।
अयत्नसिद्धं बाह्यस्थं कुम्भकं तत् पदं विदुः ॥
क्षणम् अस्तङ्गतापानः प्राणोदयविवर्जितः ।
अयत्नसिद्धो ह्य् अन्तस्स्थः कुम्भकः परमं पदम् ॥
एतत् तद् आत्मनो रूपं शुद्धैषा सा परैव चित् ।
एतत् सद् असदाभासम् एतत् प्राप्य न शोच्यते ॥
पुष्पस्यान्तर् इवामोदं प्राणस्यान्तर् अवस्थितम् ।
न च प्राणं न चापानं चिदात्मानम् उपास्महे ॥
प्राणक्षयपदान्तस्थम् अपानक्षयकोटिगम् ।
अपानप्राणयोर् मध्यं चिदात्मानम् उपास्महे ॥
प्राणस्य प्राणनं प्रोच्चैः परं जीवस्य जीवितम् ।
देहस्य धारणं धुर्यं चिदात्मानम् उपास्महे ॥
यस्मिन् सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः ।
यश् च सर्वमयो नित्यं चिदात्मानम् उपास्महे ॥
आलोकालोकनं पुण्यं सर्वपावनपावनम् ।
भावाभावनम् अन्यूनं चिदात्मनम् उपास्महे ॥
परस्परोपसङ्घट्टे हृदये मरुतोस् स्थितम् ।
बहिर् अन्तस् तथाकाशे चिदात्मनम् उपास्महे ॥
अपानो ऽस्तङ्गतो यत्र प्राणो नाभ्युदितः क्षणम् ।
कलाकलङ्करहितं तच् चित्तत्त्वम् उपास्महे ॥
नापानो ऽभ्युदितो यत्र प्राणश् चास्तम् उपागतः ।
नासाग्रगगनावर्तं तच् चित्तत्त्वम् उपास्महे ॥
प्राणापानोद्भवस्थाने बाह्याभ्यन्तरसंस्थिते ।
ये द्वे योगिपदाधारं तच् चित्तत्त्वम् उपास्महे ॥
प्राणापानरथारूढम् अप्राणापानम् आततम् ।
यच् छक्तिरूपं शक्तीनां तच् चित्तत्त्वम् उपास्महे ॥
हृत्प्राणकुम्भकं देवं बहिश् चापानकुम्भकम् ।
पूरकांशविमृष्टं यत् तच् चित्तत्त्वम् उपास्महे ॥
प्राणापानपरामर्शसत्तारूपावबोधकम् ।
यत् प्राप्यं प्राणमननात् तच् चित्तत्त्वम् उपास्महे ॥
यत् प्राणपवनस्पन्दो यत् स्पन्दानन्दकारणम् ।
कारणं कारणानां यत् तच् चित्तत्त्वम् उपास्महे ॥
यद् अखिलकलनाकलङ्कहीनं परिवलितं च सदा कलागणेन ।
अनुभवविभवं पदं तद् अग्र्यं सकलसुरावनतं परं प्रपद्ये ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0