भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.25

6.25.1

एकैव केवलं दृष्टिर् अनपाया गतभ्रमा ।
विद्यते सर्वविच्छ्रेष्ठ सर्वश्रेष्ठा समुन्नता ॥

6.25.2

आत्मचिन्ता समस्तानां दुःखानाम् अन्तकारिणी ।
चिरसम्भृतसन्तप्तसंसारश्रमहारिणी ।
निष्कलङ्कमनोमार्गविपुलाङ्गनचारिणी ॥

6.25.3

तया समस्तदुःखानां सत्तानर्थविलासिनाम् ।
ज्योत्स्नयेवान्धकाराणाम् अलम् अन्तः प्रजायते ॥

6.25.4

सा स्वात्मचिन्ता भगवन् सर्वसङ्कल्पवर्जिता ।
युष्मदादिषु सुप्रापा दुष्प्रापैवास्मदादिषु ॥

6.25.5

समस्तकलनातीतं परां कोटिम् उपाश्रितम् ।
पदम् आसादयन्त्व् एतत् कथं सामान्यबुद्धयः ॥

6.25.6

आत्मचिन्ताविलासिन्यस् त्व् अस्यास् सख्यो महामते ।
किञ्चित् साम्यम् उपायाता विद्यन्ते शशिशीतलाः ॥

6.25.7

आत्मचिन्तासमानानां विविधानां मुनीश्वर ।
आत्मचिन्तावयस्यानां मध्याद् एकतमा मया ॥

6.25.8

सर्वदुःखक्षयकरी सर्वसौभाग्यवर्धिनी ।
कारणं जीवितस्येयं प्राणचिन्ता समाश्रिता ॥

6.25.9

इत्य् उक्तवन्तं विहगं भुसुण्डं पुनर् अप्य् अहम् ।
जानन्न् अपीदम् अव्यग्रः पृष्टवान् क्रीडया पुनः ॥

6.25.10

सर्वसंशयविच्छेदिन्न् अत्यन्तचिरजीवित ।
यथार्थं ब्रूहि मे साधो प्राणचिन्ता किम् उच्यते ॥

6.25.11

सर्ववेदान्तवेत्तासि सर्वसंशयनाशकः ।
माम् एतत् परिहासार्थं मुने पृच्छसि वायसम् ॥

6.25.12

अथ वा भवताम् एव भवद्भ्यः परिशिक्षितम् ।
पुनः प्रत्युच्चरामीदं का मे क्षतिर् उपस्थिता ॥

6.25.13

भुसुण्डजीवितकरं भुसुण्डस्यात्मलाभदम् ।
शृणु प्राणसमाधानं कथ्यमानम् इदं मया ॥

6.25.14

पश्येदं भगवंस् तावद् देहगेहं मनोरमम् ।
त्रिप्रधानमहास्थूणं नवद्वारसमावृतम् ॥

6.25.15

पुर्यष्टककलत्रेण तन्मात्रस्वजनेन च ।
अहङ्कारगृहस्थेन सर्वतः परिपालितम् ॥

6.25.16

अन्तस्सुषिरसत्कर्णशष्कुलीचन्द्रशालिकम् ।
शिरोरुहाच्छादनवद् विपुलाक्षगवाक्षकम् ॥

6.25.17

आस्यप्रधानसद्द्वारं भुजपार्श्वोपमन्दिरं ।
दन्तालिकेतकस्रग्भिर् भूषितद्वारकोटरं ॥

6.25.18

अनारतरटद्रूपरसनाद्वारपालकम् ।
अङ्गुलीलोकवलितपादालिन्दकृतस्थिति ॥

6.25.19

रक्तमांसरसादिग्धस्नायुसन्ततिवेष्टितम् ।
स्थूलास्थिकाष्ठसद्बन्धं सुकुड्यं सुप्रमार्जितम् ॥

6.25.20

ईदृशस्यास्य देहस्य गेहस्य मुनिनायक ।
सुषिरे कोमले मध्ये पार्शुकाभित्तिमालिते ॥

6.25.21

पद्मयुग्ममयं यन्त्रम् अस्थिमांसमयं मृदु ।
ऊर्ध्वाधोनालम् अन्योऽन्यमिलत्कोशं लसद्दलम् ॥

6.25.22

सततस्पन्दरूपेण सकलाकाशचारिणा ।
तस्य यन्त्रस्य पत्त्राणि मृदून्य् आत्तानि वायुना ॥

6.25.23

लसत्सु तेषु पत्त्रेषु स मरुत् परिवर्धते ।
वाताहतलतापत्त्रजाले बहिर् इवाभितः ॥

6.25.24

वृद्धिं गतो ऽसौ पवनः कृत्वात्मानम् अनेकधा ।
ऊर्ध्वाधो दिक्षु चान्यासु देहे ऽस्मिन् प्रसरत्य् अथ ॥

6.25.25

प्राणापानसमानाद्यैस् ततस् स हृदयानिलः ।
सङ्केतैः प्रोच्यते तज्ज्ञैर् विचित्राचारचेष्टितः ॥

6.25.26

हृत्पद्मयन्त्रकुहरात् समस्ताः प्राणशक्तयः ।
ऊर्ध्वाधः प्रसृता देहे चन्द्रबिम्बाद् इवांशवः ॥

6.25.27

यान्त्य् आयान्ति विवल्गन्ति हरन्ति विहरन्ति च ।
उत्पतन्ति पतन्त्य् आशु ता एताः प्राणशक्तयः ॥

6.25.28

स एष हृत्पद्मगतः प्राण इत्य् उच्यते बुधैः ।
अस्य काचिन् मुने शक्तिः प्रस्पन्दयति लोचने ॥

6.25.29

काचित् स्पर्शम् उपादत्ते काचिद् वहति नासया ।
काचिद् अन्नं जरयति काचिद् वक्ति वचांसि च ॥

6.25.30

बहुनात्र किम् उक्तेन सर्वम् एव शरीरके ।
करोति भगवान् वायुर् यन्त्रेहाम् इव यान्त्रिकः ॥

6.25.31

तत्रोर्ध्वाधो द्विसङ्केतौ प्रसृताव् अनिलौ मुने ।
प्राणापानाव् इति ख्यातौ प्रकटौ तौ वरानिलौ ॥

6.25.32

तयोर् अनुसरन् नित्यं मुने गतिम् अहं स्थितः ।
शीतोष्णवपुषोर् नित्यं नित्यम् अम्बरपान्थयोः ॥

6.25.33

कलेवरमहायन्त्रे वाहयोश् श्रमहीनयोः ।
हृदाकाशार्कशशिनोर् अग्नीषोमस्वरूपयोः ॥

6.25.34

शरीरपुरपालस्य मनसो रथचक्रयोः ।
अहङ्कारेश्वरस्यास्य प्रशस्तेष्टतुरङ्गयोः ॥

6.25.35

तयोर् ममानुसरतः प्राणापानाभिधानयोः ।
गतिं शरीरमरुतोर् आशरीरम् अरुद्धयोः ॥

6.25.36

जाग्रत्स्वप्नसुषुप्तेषु सदैव समरूपयोः ।
सुषुप्तसंस्थितस्येव ब्रह्मन् गच्छन्ति वासराः ॥

6.25.37

सहस्रधा निकृत्ताङ्गाद् बिसतन्तुलवाद् अपि ।
दुर्लक्ष्या विद्यमाना च गतिस् सूक्ष्मतरा तयोः ॥

6.25.38

अविरतगतयोर् गतिं विदित्वा हृदि मरुतोर् अनुसृत्य चोदितां ताम् ।
न पुनर् इह हि जायते महात्मन् मुदितमनाः पुरुषः प्रणष्टपाशः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc