भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.27

6.27.1

एषा हि चिति विश्रान्तिर् मया प्राणसमाधिना ।
क्रमेणानेन सम्प्राप्ता स्वयम् आत्मनि निर्मले ॥

6.27.2

एतां दृष्टिम् अवष्टभ्य संस्थितो ऽस्मि महामुने ।
न चलामि निमेषांशम् अपि मेरुर् इवाचलः ॥

6.27.3

गच्छतस् तिष्ठतो वापि जाग्रतस् स्वपतो ऽपि वा ।
स्वप्ने ऽपि न चलत्य् एष सुसमाधिर् ममात्मनि ॥

6.27.4

नित्यानित्यासु लोलासु जगत्स्थितिषु संस्थितः ।
अन्तर्मुखो ऽस्मि तिष्ठामि स्वयम् एवात्मनात्मनि ॥

6.27.5

अपि संरुध्यते वायुर् अपि वा सलिलं गतेः ।
नैतस्मात् सुसमाधानान् निरुद्धं संस्मराम्य् अहम् ॥

6.27.6

प्राणापानानुसरणात् परमात्मावलोकनात् ।
अशोकम् अनुयातो ऽस्मि पदम् आद्यं महातपः ॥

6.27.7

आ महाप्रलयाद् ब्रह्मन्न् उन्मज्जननिमज्जने ।
अयम् अद्यापि भूतानां पश्यञ् जीवामि धीरधीः ॥

6.27.8

न भूतं न भविष्यच् च चिन्तयामि कदाचन ।
दृष्टिम् आलम्ब्य तिष्ठामि वर्तमानाम् इहात्मनः ॥

6.27.9

यथाप्राप्तेषु कार्येषु परित्यक्तफलैषणः ।
सुषुप्तसमया बुद्ध्या परितिष्ठामि केवलम् ॥

6.27.10

भावाभावमयीं चिन्ताम् ईहितानीहितान्विताम् ।
विमुच्यात्मनि तिष्ठामि चिरं जीवाम्य् अनामयः ॥

6.27.11

प्राणापानसमायोगसमयं समनुस्मरन् ।
स्वयम् आत्मनि तुष्यामि तेनास्मि चिरजीवितः ॥

6.27.12

इदम् अद्य मया लब्धम् इदं लप्स्यामि सुन्दरम् ।
इति चिन्ता न मे तेन चिरं जीवाम्य् अनामयः ॥

6.27.13

न स्तौमि न च निन्दामि क्वचित् किञ्चित् कदाचन ।
आत्मनो ऽन्यस्य वा साधो तेन जीवाम्य् अनामयः ॥

6.27.14

न तुष्यति शुभप्राप्तौ नाशुभेष्व् अपि खिद्यते ।
मनो मम समं नित्यं तेन जीवाम्य् अनामयः ॥

6.27.15

परमं त्यागम् आलम्ब्य सर्वम् एव सदैव हि ।
जीवितादि मया त्यक्तं तेन जीवाम्य् अनामयः ॥

6.27.16

प्रशान्तचापलं वीतशोकम् अस्तसमीहितम् ।
मनो मम मुने शान्तं तेन जीवाम्य् अनामयः ॥

6.27.17

काष्ठं विलासिनीं शैलं तृणम् अग्निं हिमं नभः ।
समं सर्वत्र पश्यामि तेन जीवाम्य् अनामयः ॥

6.27.18

किम् अद्य मम सम्प्राप्तं प्रातर् वा भविता पुनः ।
इति चिन्ताज्वरो नास्ति तेन जीवाम्य् अनामयः ॥

6.27.19

जरामरणदुःखेषु राज्यलाभसुखेषु च ।
न बिभेमि न हृष्यामि तेन जीवाम्य् अनामयः ॥

6.27.20

अयं बन्धुः परश् चायं ममायम् अयम् अन्यतः ।
इति ब्रह्मन् न जानामि तेन जीवाम्य् अनामयः ॥

6.27.21

आहरन् विहरंस् तिष्ठन्न् उत्तिष्ठन्न् उच्छ्वसन् स्वपन् ।
देहो ऽहम् इति नो वेद्मि तेन जीवाम्य् अनामयः ॥

6.27.22

इमं संसारम् आरम्भं सुषुप्तवद् अवस्थितः ।
असन्तम् इव पश्यामि तेन जीवाम्य् अनामयः ॥

6.27.23

यथाकालम् उपायाताव् अर्थानर्थौ समौ मम ।
हस्ताव् इव शरीरस्थौ तेन जीवाम्य् अनामयः ॥

6.27.24

अपारिप्लवया ऋज्व्या सुदृशा स्निग्धमुग्धया ।
ऋजु पश्यामि सर्वत्र तेन जीवाम्य् अनामयः ॥

6.27.25

आपादमस्तकान्ते ऽस्मिन् न देहे ममता मम ।
त्यक्ताहङ्कारपङ्कस्य तेन जीवाम्य् अनामयः ॥

6.27.26

यत् करोमि यद् अश्नामि तत् त्यक्त्वा तद्वतो ऽपि मे ।
मनो नैष्कर्म्यम् आदत्ते तेन जीवाम्य् अनामयः ॥

6.27.27

यदा यदा मुने किञ्चिद् विजानामि तदा तदा ।
नतिम् आयामि नौद्धत्यं तेन जीवाम्य् अनामयः ॥

6.27.28

करोमीशो ऽपि नाक्रान्तिं परितप्ये न खेदितः ।
दरिद्रो ऽपि न वाञ्छामि तेन जीवाम्य् अनामयः ॥

6.27.29

नश्यद्रूपे शरीरे ऽस्मिन्न् अनष्टात्मा चिदास्पदः ।
भूतवृन्दं हसाम्य् आरात् तेन जीवाम्य् अनामयः ॥

6.27.30

आशापाशविनुन्नायाश् चित्तवृत्तेस् समाहितः ।
संस्पर्शं न ददाम्य् अन्तस् तेन जीवाम्य् अनामयः ॥

6.27.31

असत्तां जगतस् सत्ताम् आत्मनः करबिल्ववत् ।
सुप्तः प्रबुद्धः पश्यामि तेन जीवाम्य् अनामयः ॥

6.27.32

क्षीणं भिन्नं श्लथं जीर्णं क्षुब्धं क्षुण्णं क्षयं गतम् ।
पश्यामि नववत् सर्वं तेन जीवाम्य् अनामयः ॥

6.27.33

सुखितो ऽस्मि सुखासक्ते दुःखितो दुःखिते जने ।
सर्वस्य प्रियमित्रं च तेन जीवाम्य् अनामयः ॥

6.27.34

आपद्य् अचलधीरो ऽस्मि जगन्मित्रं च सम्पदि ।
भावाभावेषु नैवास्मि तेन जीवाम्य् अनामयः ॥

6.27.35

नाहम् अस्मि न चान्यो मे नाहम् अन्यस्य कस्यचित् ।
इति मे भावितं चेतस् तेन जीवाम्य् अनामयः ॥

6.27.36

अहं जगद् अहं व्योम देशकालक्रमाव् अहम् ।
अहं क्रियेति मे बुद्धिस् तेन जीवाम्य् अनामयः ॥

6.27.37

घटश् चिच् चित् पटश् चित् खं चिद् वटश् शकटश् च चित् ।
चित् सर्वम् इति मे भावस् तेन जीवाम्य् अनामयः ॥

6.27.38

इत्य् अहं मुनिशार्दूल त्रिलोकीकमलालिकः ।
भुसुण्डनामा काकोलः कथितश् चिरजीवितः ॥

6.27.39

ब्रह्मार्णवे विलुलितं त्रिजगत्तरङ्गम् उत्पादनाशविभवेन विभिन्नरूपम् ।
आलीनम् उन्नमितम् आकुलदृश्यदृश्यम् आलोकयन् प्रकलयंश् च चिरं स्थितो ऽस्मि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc