मोक्षोपाय · अध्याय 6.251
अथ हेममयाकाशविस्तीर्णायां महाभुवि ।
सौहार्दाद् एव सिद्धस्य तस्येदम् अहम् उक्तवान् ॥
त्वया न केवलं यावन् मयापि न विचारितम् ।
अव्याप्तिरहिता नाम न सम्भवति देहता ॥
यस्मान् मया तवोदन्तं विचार्यासौ स्थिरीकृता ।
न कुटी व्योम्नि येन त्वम् अभविष्यस् स्थिरस्थितिः ॥
तस्मात् कमलपत्राक्ष यद् गतं गतम् एव तत् ।
विचार्यातीतम् उत्सृज्य पश्य साम्प्रतिकीं स्थितिम् ॥
उत्तिष्ठ सिद्धलोकेषु निवसावो यथास्थितम् ।
स्वास्पदस्थितयस् सौम्यास् स्वात्मसिद्धौ सुसाधनम् ॥
इति निर्णीय ताव् आवाम् उत्प्लुतौ तारकोपमौ ।
समम् एकपुटोड्डीनौ व्योम यन्त्रोपलाव् इव ॥
प्रणामपूर्वम् अन्योऽन्यम् अथ कृत्वा विसर्जनम् ।
गतस् सो ऽभिमतं देशम् अहं चाभिमतं गतः ॥
इति वृत्तान्तम् अखिलम् उक्तवान् अस्मि राघव ।
तवाश्चर्यमयीं पश्य संसृतीनां विचित्रताम् ॥
भगवंस् तव देहो ऽसौ पृथिव्याम् अणुतां गतः ।
भ्रान्तẖ केन शरीरेण सिद्धलोकांस् ततो भवान् ॥
आं स्ंर्तं शृणु किं वृत्तं ततो मम जगद्गृहे ।
भ्रमतस् सिद्धसेनासु लोकपालपुरीषु च ॥
अहम् इन्द्रपुरं प्राप्तो न कश्चित् तत्र दृष्टवान् ।
माम् इमं देहरहितम् आतिवाहिकदेहिनम् ॥
अहं किल तदा राम सम्पन्नो गगनाकृतिः ।
न चाधारो न चाधेयश् चिदाकाशमयात्मकः ॥
न ग्रहीता न च ग्राह्यस् त्वादृशार्थावबोधिनाम् ।
न चैव देशकालानां क्वचिद् आवृतिकारकः ॥
अरुद्धश् च पदार्थौघैस् स्वयं स्वानुभवोन्मुखः ।
व्यवहर्ता तथाभूतैर् एव पुम्भिर् मनोमयैः ॥
स्वप्नानुभूतयो राम दृष्टान्तो ऽत्राविखण्डितः ।
अनुभूत्यपलापं तु यẖ कुर्यात् तेन ते ऽस्त्व् अलम् ॥
यथा स्वप्ने नरो गेहे व्यवहर्ता न दृश्यते ।
तथा तदा न दृष्टो ऽस्मि पुरस्स्थो ऽपि नभोगतैः ॥
अहम् अन्यं प्रपश्यामि पार्थिवाकारभावनम् ।
माम् आतिवाहिकात्मानं न कश्चिद् अपि पश्यति ॥
न दृश्यते विदेहत्वाद् भवान् व्योमवपुर् यदि ।
तत् कथं तेन सिद्धेन दृष्टो ऽसि कनकावनौ ॥
अस्मदादिर् जनो राम यथासङ्कल्पितार्थभाक् ।
नासङ्कल्पितम् आप्नोति सत्यकामवपुर् यतः ॥
व्यवहारेषु मग्नेन लौकिकेष्व् अमलात्मना ।
क्षणाद् विस्मार्यते पुंसा स्वातिवाहिकतात्मनः ॥
मया पश्यतु माम् एष इति सङ्कल्पितं तदा ।
तेन मां दृष्टवान् एष स्वसङ्कल्पार्थभाजनम् ॥
जनो जरढभेदत्वान् न सङ्कल्पार्थभाजनम् ।
स एव जीर्णभेदत्वात् सत्यकामत्वभाजनम् ॥
द्वयोस् तु सिद्धयोस् सिद्ध विरुद्धेप्सितयोर् मिथः ।
अधिकैकावदातात्मा जयी पुरुषयत्नवान् ॥
भ्रमतस् सिद्धसेनासु लोकपालपुरीषु मे ।
विस्मृता व्यवहारौघैस् सातिवाहिकतात्मनः ॥
यदा तदाहम् अमरैर् व्यवहर्तुं सहाम्बरे ।
प्रवृत्तो न च मां कश्चित् तत्र पश्यति चञ्चलम् ॥
अत्यन्तम् अप्य् आरटतश् शब्दो न श्रूयते मम ।
केनचित् सुरलोकेषु स्वप्नपुंस इवानघ ॥
अवष्टब्धुं प्रवृत्तस्य नान्यावष्टब्धये मम ।
सम्पद्यते किञ्चिद् अपि मनोमननदेहिनः ॥
एवं व्योमपिशाचो ऽहं सम्पन्नो रघुनन्दन ।
मयानुभूता काप्य् एषा देवागारपिशाचता ॥
पिशाचास् सन्ति लोके ऽस्मिन् किमाकाराẖ किमास्पदाः ।
किंजातियाẖ किमाचाराẖ कीदृशाẖ कीदृशाशयाः ॥
पिशाचास् सन्ति लोकेषु यादृशास् तान् इमाञ् शृणु ।
न सभ्यो ऽसौ न यो वक्ति प्रसङ्गापतितं वचः ॥
पिशाचाẖ केचिद् आकाशसदृशाश् शून्यदेहकाः ।
हस्तपादादिसंयुक्तां पश्यन्ति त्वम् इवाकृतिम् ॥
छायया भयदायिन्या त्व् अन्यार्थभ्रमरूपया ।
ते चित्ताक्रमणं कृत्वा वेधयन्ति नराशयम् ॥
घ्नन्त्य् अदन्ति पिबन्त्य् आशु लघुसत्त्वं चलं जनम् ।
बलमांसम् अथो जीवान् हिंसन्त्य् आक्रम्य चित्तकम् ॥
आकाशसदृशाẖ केचित् केचिन् नीहारसन्निभाः ।
केचित् स्वप्ननराकारास् साकारा अपि खात्मकाः ॥
केचित् स्वप्ननरप्रख्याẖ केचित् पवनदेहकाः ।
केचिद् भ्रमात्मका एव सर्वे बुद्धिमनोमयाः ॥
ग्रहीतुं नैव युज्यन्ते ग्रहीतुं शक्नुवन्ति नो ।
आकाशशून्यवपुषḫ पश्यन्त्य् आकृतिम् आत्मनः ॥
शीतातपादिविहितं सुखं दुẖखं विदन्ति च ।
पातुम् अत्तुम् अवष्टब्धुम् ईहन्ते शक्नुवन्ति नो ॥
इच्छाद्वेषभयक्रोधलोभमोहसमन्विताः ।
मन्त्रौषधतपोदानधैर्यधर्मवशीकृताः ॥
सत्त्वावष्टम्भयन्त्रेण मन्त्रेणाराधितेन वा ।
दृश्यन्ते ऽपि च गृह्यन्ते कदाचित् केनचित् क्वचित् ॥
देवयोनिर् हि सा तेन केचिद् देवोपमर्द्धयः ।
केचिन् नरसमश्रीकाẖ केचिन् नागसमर्द्धयः ॥
श्वसृगालोपमाẖ केचिद् ग्रामजङ्गलवासिनः ।
कुल्यावकररथ्यासु वसन्ति निरयेषु च ॥
एतद् आस्पदम् एतेषाम् इत्याकाराḫ प्रकीर्तिताः ।
पिशाचा एवमाचारा जन्मैषां श्रूयताम् इदम् ॥
अचेत्यचिन्मयं ब्रह्म सर्वशक्तिस्वभावतः ।
यत् स्थितं बुद्धम् एवान्तश् चेत्यं सङ्कल्पयत् त्व् इव ॥
तज् जीवं विद्धि स प्रौढस् त्व् अहङ्कार इति स्मृतः ।
सो ऽहङ्कारस् स्मृतḫ पुष्टो मन इत्य् उदितात्मभिः ॥
स एष कथ्यते ब्रह्मा सङ्कल्पाकाशरूपवान् ।
असद् एवासतो बीजं जगतो विगताकृति ॥
एवं मनस् स्थितो ब्रह्मा सदेहो ऽप्य् अमलं नभः ।
तत् स्वप्नपुरुषाकारस् सन्न् एवासद्वपुस् सदा ॥
पृथ्व्यादिमूर्तिरहितस् त्व् आतिवाहिकदेहवान् ।
पृथ्व्यादयẖ किल कुतस् सङ्कल्पपुरुषस्य खे ॥
भवन्मनो यथाकाशपुरं पश्यति कल्पितम् ।
तथा मनो विरिञ्चत्वं पश्यत्य् आत्मनि कल्पितम् ॥
यद् वेत्ति कल्पितं तत् स पश्यत्य् अनुभवत्य् अपि ।
यो यावन्मात्रकस् तत् स कस्मात् किल न पश्यति ॥
स यत् पश्यति तत् तादृक् शून्यात्मा शून्यम् अम्बरे ।
ब्रह्म ब्रह्मणि वा ब्रह्मा तद् इदं जगद् उच्यते ॥
तथा स प्रतिभासो ऽस्य चिरकालैकभावनात् ।
घनीभूतस् स्थितḫ पुष्टस् सुदीर्घस्वप्नसुन्दरः ॥
आतिवाहिकदेहस्य तस्य तच् चिरभावनात् ।
सर्गानुभवनं भूरि ब्रह्मणो ब्रह्मरूप्य् अपि ॥
गतं प्रकटतोत्कर्षाद् आधिभौतिकदेहताम् ।
तेनैव सर्ग इत्य् उक्तो भेदसन्ततिभासुरः ॥
स ब्रह्मा ब्रह्ममात्रात्मा ब्रह्ममात्रात्मनोस् तयोः ।
अजातयोर् एव सदा तद् आत्मजगतोर् द्वयोः ॥
अभिन्नयोर् एव भृशं शून्यत्वाम्बरयोर् इव ।
ऐकात्म्येनैव लसतोḫ पवनस्पन्दयोर् इव ॥
वेत्ति भूतमयत्वं तन् मिथ्यैव न तु वास्तवम् ।
तथा यथा त्वं सङ्कल्पपुरुषस्य सतो ऽसतः ॥
ततश् शरीरधातूनां तेन पृथ्व्यादिकाẖ कृताः ।
अभिधाḫ पञ्च चित्षष्ठा जगद् इत्य् एव तास् स्थिताः ॥
यथा त्व् असत्य एवायं सङ्कल्पस् सत्य एव ते ।
तथासाव् आत्मसङ्कल्पं सत्यम् एवानुभूतवान् ॥
स स्वयं चिन्मयाकाशस् तत्सङ्कल्पश् चिदम्बरम् ।
अतस् स्वप्नो जगत् सर्वं क्व तौ नाशोद्भवौ स्थितौ ॥
यथैव तन्मनस् सत्यं तदंशास् सत्यम् एव ते ।
तथैव तत्कृताश् चन्द्ररुद्रार्केन्द्रमरीचयः ॥
एवंस्थिते जगज्जालं तन् मनोराज्यम् उच्यते ।
तच् च शून्यं निरालम्बम् आकाशम् अघनं चिति ॥
यथा स्वप्नपुरं व्योम सङ्कल्पाद्रिर् यथा नभः ।
तथा ब्रह्म जगच् चैव खम् एवाच्छम् अनाकृति ॥
एवम् आभासमात्रस्य कचतो ऽनिशम् अव्ययम् ।
सर्गादिमध्यान्तदृशो मुधैवात्रोदितास् स्थिताः ॥
किं चिदाकाशकोशस्य तव वा मम वानघ ।
जगतो वापि जायेत किं वा नश्यति मे वद ॥
तत् किमर्थम् अनर्थाय निरर्थकम् अपार्थकाः ।
कस्माद् अभ्युदिता ब्रूहि रागद्वेषभयादयः ॥
वस्तुतो ऽङ्ग न सर्गादिर् न सर्गो नाप्य् असर्गता ।
विद्यते सकृदाभातम् इदम् इत्थं सद् एव तत् ॥
अशून्ये विपुलाभोगे स्वच्छचिज्जलपूरिते ।
कलनापङ्ककलिले भविष्यच्चित्तदर्दुरे ॥
अन्तरिक्षाक्षयक्षेत्रे खात्मनो गगनात्मिका ।
तस्माद् बीजाद् इयं जाता भूरिभूतशिलावलिः ॥
नास्ति किञ्चिद् इह क्षेत्रं व्युप्तं च न च किञ्चन ।
न बीजम् अस्ति नो जातं किञ्चित् सर्वं च संस्थितम् ॥
याश् शिलावलयस् त्व् अत्र पुष्टास् ता विबुधादयः ।
यास् तु वर्णोज्ज्वला एतास् तास् स्थिता बुद्धबुद्धयः ॥
यास् त्व् अर्धपक्वास् ता एता नरनागादिजातयः ।
यास् त्व् आश्याना रजोनष्टास् ताẖ क्रिमिस्थावरादयः ॥
यास् त्व् अगुर्व्यḫ फलैर् हीनाश् शून्याकाराẖ क्षयं गताः ।
अशरीराश् शरीरिण्यस् ताḫ पिशाचादिकास् स्मृताः ॥
न हि सङ्कल्पिनस् स्वेच्छा क्वचित् पर्यनुयुज्यते ।
तास् तथेच्छा विरिञ्चस्य तथा राम तदोदिताः ॥
सर्वा एव चिदाकाशरूपिण्यो भूतजातयः ।
आतिवाहिकदेहिन्यḫ पृथ्व्यादिरहितात्मिकाः ॥
ताश् चिराभ्यासवशतस् त्व् आधिभौतिकसंविदम् ।
प्राप्ता दीर्घानुभवनात् स्वप्ना जाग्रद्दशाम् इव ॥
पिशाचाद्यास् तथा ह्य् एते तथाभूताधिभौतिकाः ।
तिष्ठन्ति तुष्टमनसस् स्वसंसारविहारिणः ॥
पश्यन्ति काश्चिद् अन्योऽन्यं ग्राम्या ग्रामेयकान् इव ।
स्वप्नैकलोकवास्तव्या इवैता भूतजातयः ॥
काश्चिद् बहुनरप्राप्तस्वप्ननिर्माणलोकवत् ।
नान्योऽन्यम् अभिपश्यन्ति नानासंस्थानसंस्थितिम् ॥
स्थिता यथैता जगति पिशाचाद्याẖ कुजातयः ।
प्रायस् तथैताẖ कुम्भाण्डयक्षप्रेतादयस् स्थिताः ॥
यथा यत्रेह वै नागा जलं तत्रैव तिष्ठते ।
तथा यत्र पिशाचाद्यास् तमस् तत्रावतिष्ठते ॥
मध्याह्ने ऽपि पिशाचश् चेद् अजिरे तिष्ठति स्वयम् ।
तत् तस्यान्धं तमस् तत्र सन्निधानं करोत्य् अलम् ॥
न निहन्ति च तद् भानुर् न चान्यस् तत् प्रपश्यति ।
स एव चानुभवति पश्य मायाविजृम्भितम् ॥
अविनाभावि चन्द्रादेस् तैजसं मण्डलं यथा ।
पिशाचादेर् अनन्यात्म तामसं मण्डलं तथा ॥
यान्ति तेजस्य् अनोजस्त्वं तमस्य् ओजḫप्रधानताम् ।
उलूकवत् पिशाचाद्या आ सृष्टेस् तत्स्वभावतः ॥
एषा पिशाचादिजनस्य जातिḫ प्रोक्ता मया ते समयानपेता ।
पिशाचतुल्यस् सुरलोकपाललोकेषु जातो ऽहम् इति प्रसङ्गात् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0