भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.250

6.250.1

अथैवंरूपसंवित्तेḫ परावृत्य प्रयत्नतः ।
तम् अम्बरकुटीकोशदेशम् आगतवान् अहम् ॥

6.250.2

यावत् तत्र न पश्यामि स्वदेहं क्वचन स्थितम् ।
पश्यामि केवलं सिद्धं कम् अप्य् अन्यं पुरस् स्थितम् ॥

6.250.3

उपविष्टं समाधाननिष्ठम् इष्टपदं गतम् ।
सोम्योदयम् इवादित्यं दग्धेन्धनम् इवानलम् ॥

6.250.4

बद्धपद्मासनं शान्तं समाधाननिरिङ्गनम् ।
गुल्फद्वितयमध्यस्थवृषणं विषयातिगम् ॥

6.250.5

मृष्टसोम्यसमाभोगस्कन्धबन्धुरकन्धरम् ।
सुस्थिरोदरविश्रान्तस्थानकस्थितिसुन्दरम् ॥

6.250.6

नाभीनिकटगोत्तानपाणिद्वितयदीप्तिभिः ।
हृदयाम्भोजतेजोभिर् बहिस्स्थैर् इव भासितम् ॥

6.250.7

श्लिष्टपक्ष्मेक्षणं क्षीणसर्वेच्छं स्वच्छतां गतम् ।
सरो निमीलिताम्भोजम् इव सुप्तं दिनात्यये ॥

6.250.8

अविक्षुभितम् आशान्तम् अन्तẖकरणकोटरम् ।
दधानं धीरया वृत्त्या शान्तोत्पातम् इवाम्बरम् ॥

6.250.9

अपश्यता निजं देहं तं मुनिं पश्यता पुरः ।
इदं मया तदा तत्र चिन्तितं चारुचेतसा ॥

6.250.10

अयं कश्चिन् महासिद्धस् सम्प्राप्तो ऽस्मिन् दिगम्बरे ।
चिरायाहम् इवैकान्तविश्रमार्थी महाम्बरम् ॥

6.250.11

समाधियोग्यम् एकान्तं लभेयेतीह चिन्तया ।
कुटी दृष्टेयम् एतेन सत्यसङ्कल्पशालिना ॥

6.250.12

मदागमनम् एतेन ततो ऽचिन्तयताचलम् ।
तं मद्देहं शवीभूतम् अपास्येह कृता स्थितिः ॥

6.250.13

तद् इहास्ताम् अयं यामि स्वं लोकम् इति निश्चयी ।
यावद् गन्तुं प्रवृत्तो ऽस्मि तावत् सङ्कल्पनक्षयात् ॥

6.250.14

सा निवृत्ता कुटी तत्र सम्पन्नं व्योम केवलम् ।
स सिद्धो ऽथ निराधारḫ पतितो ऽधस् समाधिमान् ॥

6.250.15

स्वप्नसङ्कल्पसंशान्तौ स्वप्नसङ्कल्पपत्तनम् ।
यथा साशु कुटी नष्टा मत्सङ्कल्पोपशान्तितः ॥

6.250.16

स पपात ततो ध्यानी जलोत्पीड इवाम्बुदात् ।
खाद् इवानिलनुन्नो ऽब्द इन्दुर् दिव इव क्षये ॥

6.250.17

वैमानिक इवापुण्यश् छिन्नमूल इव द्रुमः ।
खात् त्यक्त इव पाषाणस् स पपात ततो ऽवनौ ॥

6.250.18

अहं यावद् इयं तावत् कुटिकास्त्व् इति कल्पने ।
क्षीणे कुटीक्षये जाते स सिद्धḫ पतितẖ क्षणात् ॥

6.250.19

पतता तेन सिद्धेन ततस् सौजन्यकौतुकात् ।
सार्धम् एवाहम् अगमं नभसो वसुधातलम् ॥

6.250.20

सो ऽपतत् पवनस्कन्धवलनावर्तवृत्तिभिः ।
सप्तद्वीपसमुद्रान्तगीर्वाणरमणावनौ ॥

6.250.21

प्राणापानोर्ध्वगामित्वात् खाद् यथास्थितम् एव सः ।
स्पष्ट एवोर्ध्वमूर्धोर्व्यां बद्धपद्मासनो ऽपतत् ॥

6.250.22

न प्रबुद्धो बभूवासाव् इव नूनम् अचेतनः ।
पाषाणदेह इव वा वातूलात्मेव वा लघुः ॥

6.250.23

मया तदवबोधार्थम् अथ यत्नवता तदा ।
कृत्वा जलदतां व्योम्नो वृष्टं गर्जितम् ऊर्जितम् ॥

6.250.24

करकाशनिपातेन तेन तस्मिन् दिगन्तरे ।
मयूरḫ प्रावृषीवासौ बुद्धो ऽबोधि वनावनेः ॥

6.250.25

बभाव् आसादिताङ्गश्रीर् विकासितविलोचनः ।
धारानिकरफुल्लात्मा प्रावृषीवाम्बुजाकरः ॥

6.250.26

प्रबुद्धं सम्प्रशान्तायां वृष्टौ तम् अहम् अग्रतः ।
अपृच्छं स्वच्छम् आवृत्त्या निवृत्तं परमार्थतः ॥

6.250.27

क्व स्थितो ऽसि करोषीदं किं च भो मुनिनायक ।
कस् त्वं कस्माद् अलं दूरान् न भ्रंशम् अपि चेतसि ॥

6.250.28

इत्य् उक्तो माम् असौ प्रेक्ष्य संस्मृत्य प्राक्तनीं गतिम् ।
उवाच वचनं चारु चातको जलदं यथा ॥

6.250.29

प्रतिपालय मे यावत् स्ववृत्तान्तं स्मराम्य् अहम् ।
कथयिष्यामि ते पश्चात् पाश्चात्यं वृत्तम् आत्मनः ॥

6.250.30

इत्य् उक्त्वा चिन्तयित्वाशु स यथावृत्तम् अक्षतम् ।
स्मृतवान् सायम् अह्नीव समाचरितम् आत्मनः ॥

6.250.31

माम् अथोवाच वचनं चारु चन्द्रांशुशीतलम् ।
आह्लादकम् अनिन्द्यं च निरवद्यं सुखोदयम् ॥

6.250.32

अधुना त्वं मया ब्रह्मन् परिज्ञातो ऽभिवादये ।
अतिक्रमो ऽयं क्षन्तव्यस् स्वभावो हि सतां क्षमा ॥

6.250.33

मुने चिरम् अहं भ्रान्तो देवोपवनभूमिषु ।
भोगामोदविमोहेषु षट्पदḫ पद्मिनीष्व् इव ॥

6.250.34

दृश्यनद्याम् अथो चित्तजलकल्लोलहेलया ।
चक्रावर्तोह्यमानेन मयोद्विग्नेन चिन्तितम् ॥

6.250.35

संसारसागरे दृश्यकलोल्लैर् अहम् आकुलः ।
कालेनोद्वेगम् आयातश् चातको ऽवग्रहे यथा ॥

6.250.36

संविन्मात्रैकसारेषु रम्यं भोगेषु नाम किम् ।
अवतिष्ठे गतोद्वेगं संविद्व्योम्न्य् एव केवलम् ॥

6.250.37

शब्दरूपरसस्पर्शगन्धमात्राद् ऋते परम् ।
नेह किञ्चन नामास्ति किम् एतावत्य् अलं रमे ॥

6.250.38

विन्मात्राकाशम् एवैतत् सर्वं विन्मात्रम् एव वा ।
तत् किम् अत्रासदाकारे रमे नष्टमतिर् यथा ॥

6.250.39

विषया विषवैषम्या वामाẖ कामविमोहदाः ।
रसा विरसवैरस्या लुठन्न् एषु न को हतः ॥

6.250.40

जीर्णजीवितजम्बालजरच्छफरिकां मतिम् ।
कायद्रुमगतादातुं जरेच्छति बृहद्बकी ॥

6.250.41

कायो ऽयम् अचिरापायो बुद्बुदो ऽम्बुनिधाव् इव ।
स्फुरन्न् एव पुरो ऽन्तर्धिं याति दीपशिखा यथा ॥

6.250.42

विविधाकुलकल्लोला चक्रावर्तविधायिनी ।
मृतिजन्मबृहत्कूला सुखदुẖखतरङ्गिणी ॥

6.250.43

यौवनोल्लासकलिला जराधवलफेनिला ।
काकतालीययोगेन सम्पन्नसुखबुद्बुदा ॥

6.250.44

व्यवहारमहावाहलेखा जडरयाकुला ।
रागद्वेषघनोल्लासा भूतलालोलदेहिका ॥

6.250.45

लोभमोहमहावर्ता पातोत्पातविवर्तिनी ।
हा तप्ता जीविताख्येयं नदी नदनशीतला ॥

6.250.46

अपूर्वाण्य् उपगच्छन्ति तथा पूर्वाणि यान्त्य् अलम् ।
संसारसरिदम्बूनि सङ्गतानि धनानि च ॥

6.250.47

प्रवृत्ता ये निवर्तन्ते तैर् अलं हतभावकैः ।
अपूर्वा ये प्रवर्तन्ते तेष्व् अप्य् आस्थेह कीदृशी ॥

6.250.48

सर्वस्यास् सरितो वारि प्रयात्य् आयाति चाकरात् ।
देहनद्याḫ पयस् त्व् आयुḫ प्रयात्य् आयाति नो पुनः ॥

6.250.49

शतशḫ परिवर्तन्ते प्रतिपिण्डं क्षणं प्रति ।
कुलालचक्रिकाभावा इव भावा भवाम्बुधौ ॥

6.250.50

चरन्ति चतुराश् चौरा विषमा विषयारयः ।
हरन्ति भावसर्वस्वं जागर्मि स्वपिमीह किम् ॥

6.250.51

आयुषẖ खण्डखण्डाश् च निपतन्तḫ पुनḫ पुनः ।
न कश्चिद् वेत्ति कालेन कृतानि दिवसान्य् अहो ॥

6.250.52

इदम् अद्य तथेदं श्वस् तथेदम् इदम् अद्य मे ।
एवंकलनया लोको गतं प्राप्तं न वेत्त्य् अहो ॥

6.250.53

भुक्तं पीतम् अनन्तासु भ्रान्तं च भवभूमिषु ।
दृष्टानि सुखदुẖखानि किम् अन्यद् इह साध्यते ॥

6.250.54

सुखदुẖखानुभवनाद् भूयो भूयो विवर्तनात् ।
अनित्यत्वाच् च भावानां स्थिता निष्कौतुका वयम् ॥

6.250.55

भुक्तानि भोगवृन्दानि दृष्टा चानित्यता भृशम् ।
नोपलभ्यत एवातिविश्रान्तिर् इह कुत्रचित् ॥

6.250.56

भ्रान्तम् उत्तुङ्गशृङ्गासु मेरूपवनभूमिषु ।
लोकपालपुरीषूच्चैस् सम्प्राप्तं किम् अकृत्रिमम् ॥

6.250.57

सर्वत्र दारुभिर् वृक्षा मांसैर् भूतानि भूर् मृदा ।
दुẖखान्य् अनित्यता चेति कथम् आश्वास्यते वद ॥

6.250.58

न धनानि न मित्राणि न सुखानि न बन्धवः ।
शक्नुवन्ति परित्रातुं कालेन कलितं जनम् ॥

6.250.59

जनो जरढजीमूतजालवद् गिरिकुक्षिषु ।
यात्य् अन्तश्शून्य एवास्तं पांसूपचयपेलवः ॥

6.250.60

नेमे मनोरमाẖ कामा न च रम्या विभूतयः ।
इदं मत्ताङ्गनापाङ्गभङ्गलोलं च जीवितम् ॥

6.250.61

क्वेव कस्य कथं नाम कुत आश्वासनं मुने ।
अद्य श्वो वा पदं पापो मृत्युर् मूर्ध्नि नियच्छति ॥

6.250.62

शरीरं पर्णवद् भ्रंशि जीवितं जीर्णसंस्थिति ।
धीरधीरतया ग्रस्ता रसा नीरसतां गताः ॥

6.250.63

नीतं मनोरथैर् एव नीरसैर् आयुर् आततम् ।
न मनस्वि चमत्कारकारि किञ्चिद् अपीहितम् ॥

6.250.64

मोहो ऽद्य मान्द्यम् आयातो देहो नेहोपपद्यते ।
अनास्थैवोत्तमावस्था स्थानास्थैवाधमस्थितिः ॥

6.250.65

आपद् आपतितैवेयं महामोहविधायिनी ।
नित्यम् इत्य् एव मन्तव्यं सक्तव्यं नेह संसृतौ ॥

6.250.66

विधिभिḫ प्रतिषेधैश् च शास्त्रितैर् अप्य् अशास्त्रितैः ।
यथेष्टं नीयते लोको जलं निम्नोन्नतैर् इव ॥

6.250.67

विवेकामोदसर्वस्वं चेतẖकुसुमकोशतः ।
हृत्वा मूर्छां प्रयच्छन्ति विषया विषवायवः ॥

6.250.68

असद् एव तथा नाम दृश्यं सत्ताम् उपागतम् ।
यथा सद् एवासद्रूपं सम्पन्नम् असद् एव सत् ॥

6.250.69

दोलयन्त्यो ऽवनौ देहं सागरान् सागराङ्गनाः ।
यथा धावन्ति धावन्ति जनता विषयांस् तथा ॥

6.250.70

धावन्ति विषयं लक्ष्यम् उन्मुक्ताश् चित्तसायकाः ।
स्पृशन्ति न गुणं भूयẖ कृतघ्नास् सौहृदं यथा ॥

6.250.71

उत्पातवायुर् एवायुर् मित्राण्य् एवातिशत्रवः ।
बन्धवो बन्धनान्य् एव धनान्य् एवातिनैधनम् ॥

6.250.72

सुखान्य् एवातिदुẖखानि सम्पदḫ परमापदः ।
भोगा भवमहारोगा रतिर् एव परारतिः ॥

6.250.73

आपदस् सम्पदस् सर्वास् सुखं दुẖखाय केवलम् ।
जीवितं मरणायैव बत माया विजृम्भते ॥

6.250.74

बहून् कालपरावर्तान् इष्टानिष्टान् सुखं मनाक् ।
पश्यन् प्रियवियोगांश् च याति जर्जरतां जनः ॥

6.250.75

भोगा विषयसम्भोगा भोगा इव फणावताम् ।
दशन्त्य् अपि मनाक् स्पृष्टा दृष्टनष्टाḫ प्रतिक्षणम् ॥

6.250.76

आयुर् याति निरायासपदसम्प्राप्तिवर्जितैः ।
उदर्कभङ्गुराकारैẖ करालैẖ कष्टचेष्टितैः ॥

6.250.77

भोगाशाबद्धतृष्णानाम् अवमानḫ पदे पदे ।
आलानपरिलीनानां वन्यानाम् इव दन्तिनाम् ॥

6.250.78

सम्पदḫ प्रमदाश् चैव तरङ्गोत्सङ्गभङ्गुराः ।
कस् तास्व् अहिफणाच्छत्त्रच्छायासु रमते बुधः ॥

6.250.79

सत्यं मनोरमाẖ कामास् सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥

6.250.80

आपातरमणीयेषु रमन्ते विषयेषु ये ।
अत्यन्तविरसान्तेषु पतन्ति नरकेषु ते ॥

6.250.81

द्वन्द्वदोषोपरुद्धानि दुस्साधान्य् अस्थिराणि च ।
धनान्य् अभव्यसेव्यानि मम जातु न तुष्टये ॥

6.250.82

आपातमात्रमधुरा दुẖखपर्यवसायिनी ।
मोहनायैव लोकस्य लक्ष्मीẖ क्षणविनाशिनी ॥

6.250.83

आपातरमणीयानि विमर्दविरसान्य् अति ।
सुखान्य् आपत्प्रधानानि सङ्गतानि खलैर् इव ॥

6.250.84

शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाḫ पर्यन्तपरितापिनः ॥

6.250.85

अन्तकḫ पर्यवस्थाता जीविते महताम् अपि ।
चलान्य् आयूंषि शाखाग्रलम्बाम्बूनीव देहिनाम् ॥

6.250.86

जीर्यन्ते जीर्यतẖ केशा दन्ता जीर्यन्ति जीर्यतः ।
क्षीयते जीर्यतस् सर्वं तृष्णैवैका न जीर्यते ॥

6.250.87

भोगाभोगातिगहने सर्वस्मिन् कायकानने ।
परम् उल्लासम् आयाति तृष्णैका विषमञ्जरी ॥

6.250.88

बाल्यं यौवनवद् याति यौवनं याति बाल्यवत् ।
उपमानोपमेयत्वं भङ्गुरत्वे मिथो ऽनयोः ॥

6.250.89

जीवितं गलति क्षिप्रं जलम् अञ्जलितो यथा ।
प्रवाह इव वाहिन्या गतं न विनिवर्तते ॥

6.250.90

झगित्य् एवागतो देहẖ कुतो ऽप्य् अर्जुनवातवत् ।
याति पश्यत एवास्तं तरङ्गाम्बुददीपवत् ॥

6.250.91

रम्येष्व् अरम्यता दृष्टा स्थिरेष्व् अस्थिरतापि च ।
सत्येष्व् असत्यतार्थेषु तेनेह विरसा वयम् ॥

6.250.92

सुखं यद् आत्मविश्रान्तौ गते मनसि सत्त्वताम् ।
पाताले भूतले स्वर्गे तन् न भोगेषु केषुचित् ॥

6.250.93

अपि सम्पूर्णहृद्यार्थाḫ पञ्चापीन्द्रियवृत्तयः ।
नावर्जयन्ति माम् एता भृङ्गं चित्रलता इव ॥

6.250.94

अद्य दीर्घेण कालेन निरहङ्कृतिना मया ।
स्वर्गापवर्गवैतृष्ण्यम् इदम् आसादितं धिया ॥

6.250.95

चिरम् एकान्तविश्रान्त्यै तेनैतन् नभसḫ पदम् ।
त्वम् इवागतवान् अत्र दृष्टवान् अस्मि तां कुटीम् ॥

6.250.96

अद्यैतत् सम्परिज्ञातं यद् धि सा भवतẖ कुटी ।
आगन्ता त्वं पुनश् चेति ज्ञायते क्वाविचारितम् ॥

6.250.97

तदा त्व् अत्र मया ज्ञातं कश्चित् सिद्धो ऽयम् आत्मना ।
देहं त्यक्त्वेह निर्वाणं गत इत्य् अनुमानिना ॥

6.250.98

एतन् मे भगवन् वृत्तम् एषो ऽस्मीति यथास्थितम् ।
मया ते कथितं सर्वं यथा जानासि तत् कुरु ॥

6.250.99

सिद्धैर् न यावद् अवधानपरैर् विचार्य निर्णीतम् उत्तमधियान्तर् अशेषवस्तु ।
तावत् त्रिकालकलनां न विदन्ति काञ्चिद् इत्य् अब्जजादिमनसो ऽपि मुने स्वभावः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc