मोक्षोपाय · अध्याय 6.252
ततश् चिदाकाशवपुर् भूतपञ्चकवर्जितः ।
विहरन्न् अहम् आकाशे पिशाच इव संस्थितः ॥
न मां पश्यन्ति चन्द्रार्कशक्रा हरिहरादयः ।
न देवसिद्धगन्धर्वकिन्नरा नाप्सरोगणाः ॥
नाक्रामन्ति मयाक्रान्ता न च शृण्वन्ति मद्वचः ।
इत्य् अहं मोहम् आपन्नो विक्रीत इव सज्जनः ॥
अथ चिन्तितवान् अस्मि सत्यकामा इमे वयम् ।
पश्यन्तु मां सुरगणास् तेन तस्मिन् सुरालये ॥
द्रष्टुं प्रवृत्ता माम् अग्रे वास्तव्यास् सर्व एव ते ।
झगित्य् एव पुरḫ प्राप्तम् इन्द्रजालद्रुमं यथा ॥
अथ गीर्वाणगेहेषु सम्पन्नो व्यवहार्य् अहम् ।
यथास्थितसमाचारस् स्थितो निश्शङ्कचेष्टितः ॥
यैर् अविज्ञातवृत्तान्तैर् दृष्टो ऽहम् अजिरोत्थितः ।
वसिष्ठḫ पार्थिव इति लोकेषु प्रथितो ऽस्मि तैः ॥
वातात् समुदितो दृष्टो यैर् अहं गगनास्पदे ।
सिद्धैर् वातवसिष्ठाख्यस् तैर् अहं समुदाहृतः ॥
व्योमन्य् आदित्यरश्मिभ्यो दृष्टो ऽहं यैर् नभोगतैः ।
वसिष्ठस् तैजस इति लोकेषु प्रथितो ऽस्मि तैः ॥
यैर् अहं सलिलाद् दृष्टḫ प्रोत्थितस् तैर् मुनीश्वरैः ।
प्रोक्तो वारिवसिष्ठो ऽहम् इति मे जन्मसन्ततिः ॥
ततḫ प्रभृति लोके ऽहं पार्थिवḫ प्रथितẖ क्वचित् ।
अम्मयẖ क्वचिद् अन्येषां तैजसो मारुतẖ क्वचित् ॥
अथ कालेन मे तत्र तस्मिन्न् एवातिवाहिके ।
आधिभौतिकता देहे रूढा गूढान्तरिक्षता ॥
यद् एतद् आतिवाहित्वम् आधिभौतिकता च खम् ।
द्वयम् अप्य् एतद् एकात्म ततẖ कचति मे चितिः ॥
एवमात्मकचिद्व्योमकचनात्माप्य् अहं नभः ।
परम् एव निराकारं युष्मास्व् आकारवान् अपि ॥
जीवन्मुक्तो व्यवहरन्न् अप्य् आस्ते ब्रह्मखात्मकः ।
तथैव देहमुक्तो ऽपि तिष्ठति ब्रह्ममात्रकम् ॥
मम न ब्रह्मतापेति तादृग् व्यवहरन्न् अपि ।
असम्भवाद् अन्यदृशो युष्मदादिष्व् अहं त्व् अहम् ॥
यथाज्ञस्य स्वप्ननरे निर्जन्मनि निराकृतौ ।
आधिभौतिकताबुद्धिस् तथा मे जगतो ऽपि च ॥
एवम् एवावभासन्ते सर्व एव स्वयम्भुवः ।
सर्गाश् च न तु जायन्ते प्रजाता इव चोदिताः ॥
एष सो ऽहम् इहाकाशवसिष्ठḫ पुष्टताम् इव ।
गतो ऽद्य स्वात्मनो ऽभ्यासाद् भवतां चाभवस्थितिः ॥
आकाशात्मान एवैते सर्व एव स्वयम्भुवः ।
यथा ते मन्मनोमात्रम् इमे सर्गास् तथैव हि ॥
अहमादिर् अयं सर्गस् त्व् अपरिज्ञानदोषतः ।
वेताल इव बालानां गतो वै वज्रसारताम् ॥
परिज्ञातस् तु कालेन स्वल्पेनैवोपशाम्यति ।
वासनातानवात् स्नेहो बन्धौ दूरगते यथा ॥
घनत्वम् अहमाद्य् अस्य तथा सर्गस्य शाम्यति ।
परिज्ञानाद् यथा स्वप्ननिधेर् आदेयभावना ॥
शाम्यन्तीमाḫ परिज्ञातास् सकला दृश्यदृष्टयः ।
यथा मरुनदीवेगवारिग्रहणबुद्धयः ॥
महारामायणप्रायशास्त्रप्रेक्षणमात्रतः ।
एतद् आसाद्यते नित्यं किम् एतावति दुष्करम् ॥
संसारवासनाभावरूपसत्या तु यस्य धीः ।
मन्दा मोक्षे निराकाङ्क्षा स श्वा कीटो ऽथ वानरः ॥
भोगाभोगẖ किलायं यस् स जीवन्मुक्तबुद्धिना ।
कीदृशो भुज्यमानस् स्यात् कीदृक् स्यान् मौर्ख्यसेविना ॥
महारामायणप्रायशास्त्रप्रेक्षणमात्रतः ।
अन्तश् शीतलतोदेति पदार्थेषु हिमोपमा ॥
मोक्षश् शीतलचित्तत्वं बन्धस् सन्तप्तचित्तता ।
एतस्मिन्न् अपि नार्थित्वम् अहो लोकस्य मूर्खता ॥
अयं प्रकृत्या विषयैर् वशीकृतḫ परस्परं स्त्रीधनलोलुभो जनः ।
यथार्थसन्दर्शनतस् सुखीभवेन् मुमुक्षुशास्त्रार्थविचारणाद् अतः ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0