मोक्षोपाय · अध्याय 6.249
अथ वातमयीं धत्त्वा जगत्प्रेक्षणकौतुकात् ।
धारणां धीरया वृत्त्या वातताम् अहम् आगतः ॥
सम्पन्नो ऽस्म्य् अनिलो वल्लीललनालोकलासकः ।
कमलोत्पलकुन्दादिजालकामोदपालकः ॥
शीकरोत्करनीहारहेलाहरणतर्षुलः ।
सुरतश्रान्तसर्वाङ्गसमाह्लादनहर्षुलः ॥
तृणगुल्मलतावल्लीदलताण्डवपण्डितः ।
लतौषधिफलोल्लासकुसुमामोदमण्डितः ॥
मृदुर् मङ्गलकालेषु ललनालकचालकः ।
भीम उत्पातवातेषु पर्णवत्प्रौढपर्वतः ॥
नन्दने कुन्दमन्दारमकरन्दरजोऽरुणः ।
नरके ऽङ्गारसम्भारो भुवि नीहारभासुरः ॥
सागरे ऽसरलावर्तलेखानुमितसर्पणः ।
दिवि वारिदसञ्चारमृष्टामृष्टेन्दुदर्पणः ॥
नक्षत्रक्षत्रसैन्यस्य रथो रंहोविबृंहितः ।
त्रैलोक्यसिद्धसञ्चारविमानधरणेहितः ॥
सहोदर इव क्षिप्रगामित्वाद् अस्य चेतसः ।
अनङ्गो ऽपि समस्ताङ्गस् स्पन्दनानन्दचन्दनः ॥
तुषारशीकरासारजरारोमविजर्जरः ।
आमोदयौवनोन्मादो मौनमार्दवशैशवः ॥
नन्दनामोदमधुरो मधुरोदारसंसृतिः ।
चारुचैत्ररथोन्मुक्तो हृतकान्तारतश्रमः ॥
चिरं गङ्गातरङ्गाङ्गदोलान्दोलनसश्रमः ।
श्रमस्वरूपज्ञतया निवारितरतश्रमः ॥
पुष्पभारनतास् स्पर्शैर् वसन्तवनितालताः ।
चिरं चपलयंल् लोलदलहस्तालिलोचनाः ॥
चिरं भुङ्क्त्वेन्दुबिम्बाङ्गं सुप्त्वा पूर्णाभ्रतल्पके ।
विधूय कमलानीकम् अपनीतरतश्रमः ॥
समस्तरजसाम् ओको व्योमगामी तुरङ्गमः ।
आमोदमदमातङ्गसमुल्लासमहासुहृत् ॥
धारोर्णाढ्यतडिच्छृङ्गपयोदपशुपालकः ।
तन्तुश् शीकरमुक्तानाम् अरिर् घर्मरजोरुजाम् ॥
आकाशकुसुमामोदस् सर्वशब्दसहोदरः ।
नाडीप्रणालीसलिलं भूताङ्गोपाङ्गनर्तकः ॥
मर्मकर्मकरैकात्मा हृद्गुहागेहकेसरी ।
नित्यम् एकान्तपथिकस् सारथिर् जातवेदसः ॥
आमोदरत्नलुण्ठाको विमाननगरावनिः ।
दाहान्धकारशीतांशुश् शैत्येन्दुक्षीरसागरः ॥
प्राणापानकलारज्ज्वा प्राणिनां यन्त्रवाहकः ।
अरिर् मित्रं च दीपानां द्वीपसञ्चरणे रतः ॥
पुरोगतो ऽप्य् अदृश्यात्मा मनोराज्यपुरोपमः ।
तालवृन्ततिले तैलम् आलानं स्पन्ददन्तिनः ॥
एकक्षणलवेनैव वलिताखिलभूधरः ।
वर्णावलितरङ्गाणां गङ्गावाहरवैककृत् ॥
श्यामाम्बुवाहरजसां महावर्तकृद् अम्भसाम् ।
द्युनदीवाहवार्योघो नभोनीलोत्पलालिकः ॥
शरीरावेष्टितोन्मुक्तपुराणतृणचोपनः ।
स्पन्दपद्मवनादित्यश् शब्दवर्षैकवारिदः ॥
व्योमकाननमातङ्गश् शरीरगृहगर्गटः ।
धूलीकदम्बविपिनम् आशालिङ्गननायकः ॥
स्त्यानीकरणसंशोषधृतिस्पन्दनसौरभैः ।
सशैत्यैẖ कर्मभिष् षड्भिर् अलब्धक्षण आक्षयम् ॥
रसाकर्षणसुव्यग्रो नित्यं भ्रातेव तेजसः ।
हरणादानकर्तॄणाम् अङ्गानां विनियोगकृत् ॥
शरीरनगरे नाडीमार्गैर् गतिनिरर्गलः ।
रसभाण्डपरावर्ताद् आयुर्मणिमहावणिक् ॥
शरीरनगरीनाशनिर्माणैकपरायणः ।
रसकिट्टकलाधातुपृथक्करणकोविदः ॥
प्रतिसूक्ष्माणुकं देहे ततो दृष्टं मया जगत् ।
तत्रेत्थंरूपम् आरम्भि स्फुटम् आभोगि सुस्थिरम् ॥
परमाणुं प्रति त्व् अत्र प्रोह्यन्त इव सर्गकाः ।
न च किञ्चित् किलोह्यन्ते खाकृतेẖ किम् इवोह्यते ॥
सचन्द्रार्कानिलाग्नीन्द्रयमवैश्रवणेश्वराः ।
सब्रह्महरिगन्धर्वविद्याधरमहोरगाः ॥
ससागरगिरिद्वीपदिगन्तरमहार्णवाः ।
सलोकान्तरलोकेशक्रियाकालक्रियाक्रमाः ॥
सस्वर्गभूमिपातालतललोकान्तरान्तराः ।
सभावाभाववैधुर्यजरामरणसम्भ्रमाः ॥
एवं नाम तदा राम भूतपञ्चकरूपिणा ।
मया प्रविहृतं तत्र त्रैलोक्यनलिनोदरे ॥
रसḫ पीतो ऽनुभूतश् च क्ष्माजलानिलतेजसाम् ।
मूलजालेषु वृक्षाणां प्राणिनां च सता मया ॥
रसायनघनाङ्गेषु चन्दनद्रवशोभिषु ।
लुठितं चन्द्रबिम्बेषु तुषारशयनेष्व् इव ॥
सर्वर्तुवनजालेषु नानामोदानि दिक्ष्व् अलम् ।
भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददतालये ॥
नतोन्नतासु मृद्वीषु स्वास्तीर्णास्व् अम्बराजिरे ।
सुप्तं शुभ्राभ्रमालासु नवनीतस्थलीष्व् इव ॥
सुमनḫपत्त्रमृदुषु लीनं लक्ष्मीविलासिषु ।
सुरसिद्धाङ्गनाङ्गेषु दूरास्तस्मरवासनम् ॥
कृतẖ कुमुदकल्हारकराले नलिनीवने ।
कोमलẖ कलहंसीभिर् लीलाकलकलारवः ॥
सरत्सरित्सिरासारमूलभूमण्डलान्विताः ।
अङ्गेषूढास् स्फुरद्भूता लोमालय इवाद्रयः ॥
चतुर्दिग्ग्रथितादीर्घसरित्सूत्रैस् समुद्रकैः ।
आदर्शैर् इव विश्रान्तम् अङ्गेषु प्रतिबिम्बिभिः ॥
भूतसर्गेण विभ्रान्तं सिद्धविद्याधरादिना ।
मद्देहे चेतितेनैव मक्षिकायौकरूपिणा ॥
मत्प्रसादेन मुदितैर् लब्धम् अर्कादिभिर् वपुः ।
कृष्णरक्तसितापीतहरितैर् हारितैर् इव ॥
समुद्रमुद्रया सप्तद्वीपसप्तात्मरूपया ।
संस्थया स्थापिता भूमिḫ प्रकोष्ठे वलयोपमा ॥
विद्याधरपुरन्ध्रीणां परामृष्टाङ्गयष्टिना ।
अदृष्टेनैव विहितḫ पुलकोल्लास आत्मना ॥
सरित्सिरासरत्साररसानि सुषिराणि च ।
जगन्त्य् एवास्थिजालानि ममासन् संस्थितानि च ॥
असङ्ख्यैर् व्योममातङ्गैश् चन्द्रार्कचलचामरैः ।
उडुम्बरान्तर् मषकैर् इव मद्धृदये स्थितम् ॥
मया पातालपादेन भूतलोदरधारिणा ।
खमूर्ध्नापि तदा राम न त्यक्ता परमाणुता ॥
दिक्षु सर्वासु सर्वत्र सर्वदा सर्वकारिणा ।
सर्वात्मनाप्य् असर्वेण शून्यरूपेण संस्थितम् ॥
किञ्चित्त्वं सदकिञ्चित्त्वं साकृतित्वं निराकृति ।
अनुभूतं सजाड्यं च चेतनत्वम् अलं मया ॥
मैनाकमुग्धमीनस्य सागरस्याप्य् अणुं प्रति ।
सन्ति सर्गसहस्राणि स्वनुभूतान्य् अथो मया ॥
जगन्त्य् अङ्गे मयोढानि गूढानि प्रकटानि च ।
प्रतिबिम्बपुराणीव मकुरेणाजडात्मना ॥
एवं जलानिलाग्नित्वं भूमित्वं खात्मना सता ।
कृतं चितेव स्वप्नेषु बत माया विजृम्भते ॥
अपि तस्याम् अवस्थायां जगन्त्य् आकाशकोशके ।
मया दृष्टान्य् असङ्ख्यानि परमाणुकणं प्रति ॥
परमाणुं प्रति व्योम परमाणुं प्रति स्थितम् ।
सर्गवृन्दं यथा स्वप्ने स्वप्नान्तरयुतं पुरम् ॥
खम् एवाहम् अभूवं भूमण्डलं द्वीपकुण्डलम् ।
सर्वात्मनापि न व्याप्तं किञ्चनापि मया क्वचित् ॥
समुत्पादयताशेषलतातरुतृणाङ्कुरान् ।
भूतलेन रसाकृष्ट्या मयार्थेनेव जृम्भितम् ॥
अवदाततमे शुद्धबोधाकाशमये मयि ।
जगल्लक्षाणि तिष्ठन्ति न तिष्ठन्ति च कानिचित् ॥
चिति चारुचमत्कारं चमत्कुर्वन्ति यत् स्वतः ।
स्वचमत्कृतयो ऽन्तस्स्थास् तद् एतास् सृष्टिदृष्टयः ॥
अनुभूतं कृतं दृष्टं यावत् क्वचन किञ्चन ।
परमार्थचमत्काराद् ऋते नेहोपलभ्यते ॥
प्रत्येकं विश्वरूपात्मा सर्वकर्ता निरामयः ।
प्रबुद्धश् शुद्धबोधात्मा सर्वं ब्रह्मात्मकं यतः ॥
सर्वस् सर्वत्र सर्वात्मा सर्वगस् सर्वसंश्रयः ।
एतत् प्रबुद्धविषयम् अप्रबुद्धं न वेद्म्य् अहम् ॥
आकाशकोशविशदात्मनि चित्स्वरूपे येयं स्वता कचति सर्गपरम्परेति ।
सान्तस् तद् एव किल ताप इवान्तर् ऊष्मा भेदोपलम्भ इति नास्ति सद् अस्त्य् अनन्तम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0