मोक्षोपाय · अध्याय 6.24
अथासौ वायसश्रेष्ठो जिज्ञासार्थम् इदं मया ।
भूयः पृष्टो महाबाहो कल्पवृक्षलताग्रखे ॥
चरतां जगतः कोशे व्यवहारवताम् अपि ।
कथं विहगराजेन्द्र देहं मृत्युर् न बाधते ॥
जानन्न् अपि हि सर्वज्ञ ब्रह्मञ् जिज्ञासयैव माम् ।
पृच्छसि प्रभवो नित्यं भृत्यं वाचालयन्ति हि ॥
तथापि यत् पृच्छसि मां तत् ते प्रकथयाम्य् अहम् ।
अनाज्ञाभङ्गम् एवाहुर् मुख्यम् आराधनं सताम् ॥
दोषमुक्ताफलप्रोता वासनातन्तुसन्ततिः ।
हृदि न ग्रथिता यस्य मृत्युस् तं न जिघांसति ॥
विश्वासवृक्षक्रकचास् सर्वे देहलताघुणाः ।
आधयो यं न भिन्दन्ति मृत्युस् तं न जिघांसति ॥
षण्डात् षण्डं निपतितं शाखामृगम् इवोद्धतं ।
न चञ्चलं मनो यस्य तं मृत्युर् न जिघांसति ॥
शरीरतरुसर्पौघाश् चित्तौर्वशिखिनश् शिखाः ।
आशा यं न दहन्त्य् अन्तस् तं मृत्युर् न जिघांसति ॥
रागद्वेषविषापूरस् स्वमनोबिलमन्दिरः ।
लोभव्यालो न भुङ्क्ते यं मृत्युस् तं न जिघांसति ॥
पीताशेषविवेकाम्बुश् शरीराम्भोधिवाडवः ।
न निर्दहति यं कोपस् तं मृत्युर् न जिघांसति ॥
यन्त्रं तिलानां कठिनं राशिम् उग्रम् इवाकुलम् ।
यं पीडयति नानङ्गस् तं मृत्युर् न जिघांसति ॥
एकस्मिन् निर्मले येन पदे परमपावने ।
संश्रिता दृढविश्रान्तिस् तं मृत्युर् न जिघांसति ॥
एते ब्रह्मन् महादोषास् संसारव्याधिहेतवः ।
मनाग् अपि न लुम्पन्ति चित्तम् एकसमाहितम् ॥
आधिव्याधिसमुत्थानि वलितानि महाभ्रमैः ।
न विलुम्पन्ति दुःखानि चित्तम् एकसमाहितम् ॥
न दादति न चादत्ते न जहाति न याचते ।
कुर्वद् एव च कार्याणि चित्तम् एकसमाहितम् ॥
नास्तम् एति न चोदेति नसंस्मृति नविस्मृति ।
न सुप्तं न च जाग्रत्स्थं चित्तम् एकसमाहितम् ॥
अन्धीकृतहृदाकाशाः कामक्रोधविकारजाः ।
चिन्ता न परिहिंसन्ति चित्तम् एकसमाहितम् ॥
ये दुरर्था दुरारम्भा दुर्गुणा दुरुदाहृताः ।
दुष्क्रमास् ते न कृन्तन्ति चित्तम् एकसमाहितम् ॥
शुभानि विपुलार्थानि महान्ति गुणवन्ति च ।
सर्वाण्य् एवानुधावन्ति चित्तम् एकसमाहितम् ॥
यद् उदर्कहितं सत्यम् अनपायि गतभ्रमम् ।
दुरीहितदशामुक्तं तत्परं कारयेन् मनः ॥
यद् अदृष्टम् अशुद्धेन चिरवैधुर्यकारिणा ।
मुने कामपिशाचेन तत्परं कारयेन् मनः ॥
आदौ मध्ये तथान्ते च चिराय परि चोदितम् ।
यच् चारु मधुरं पथ्यं तत्परं कारयेन् मनः ॥
यद् अनर्थदशाहीनं निर्णीतं सद्भिर् आदितः ।
गुणानुबन्धि लोक्यं च तत्परं कारयेन् मनः ॥
पेशलं मधुरं हृद्यं स्वादु शीतम् अपक्षयम् ।
सुतीक्ष्णम् अतिनिर्णीतं तत्परं कारयेन् मनः ॥
यद् बुद्धेः परम् आलोक्यम् आद्यं यद् अमृतं परम् ।
यद् अनुत्तमसौभाग्यं तत्परं कारयेन् मनः ॥
सामरे सहगन्धर्वे सविद्याधरकिन्नरे ।
ससुरस्त्रीगणे स्वर्गे न किञ्चित् सुस्थिरं शुभम् ॥
सनरे सनराधीशे सपर्वतपुरव्रजे ।
साम्बुधौ भूतले तात न किञ्चिच् छोभनं स्थिरम् ॥
सनागे सासुरव्यूहे सासुरस्त्रीजने तथा ।
समस्त एव पाताले न किञ्चिच् छोभनं स्थिरम् ॥
सस्वर्गे सधराभोगे सपाताले सदिक्तटे ।
जगत्य् अस्मिंस् तु सर्वस्मिन् न किञ्चिच् छोभनं स्थिरम् ॥
समुखे सकरे सांसे सपादे सोरुमण्डले ।
सरक्तमांसे देहे ऽस्मिन् न किञ्चिच् छोभनं स्थिरम् ॥
आधिव्याधिविलोलासु दुःखौघवलितासु च ।
क्रियासु नित्यतुच्छासु न किञ्चिच् छोभनं स्थिरम् ॥
तरलीकृतचित्तासु हृदयामर्दनीषु च ।
चिन्तासु जीवकारासु न किञ्चित् सुस्थिरं शुभम् ॥
हृत्क्षीरोदकसस्पन्दमन्दरेषु चलेष्व् अति ।
स्वसङ्कल्पविकल्पेषु न किञ्चित् सुस्थिरं शुभम् ॥
अनारतागमापायपरास्व् अशिशिरास्व् अति ।
चित्राचारासु चेष्टासु न किञ्चित् सुस्थिरं शुभम् ॥
न वरम् एकमहीतलराजता न च वरं विविधामररूपता ।
न च वरं धरणीतलनागता स्थितिम् उपैति हि यत्र सतां मनः ॥
न वरम् आकुलशास्त्रविचारणं न च वरं वरकाव्यविवेचनम् ।
न वरम् अग्र्यकथाक्रमचर्वणं स्थितिम् उपैति हि यत्र सतां मनः ॥
न वरम् आधिमयं चिरजीवितं न च वरं मरणं दृढमूढता ।
न च वरं नरको न च विष्टपं स्थितिम् उपैति हि यत्र सतां मनः ॥
इति विविधजगत्क्रमास् समस्ताश् चलमतिमूढतया नरस्य रूढाः ।
चलतरकलनाहिते पदार्थे कथम् उपयान्ति चिरं स्थितिं महान्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0