भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.246

6.246.1

पार्थिवीं धारणां बद्ध्वा जगन्ति समवेक्षितुम् ।
सम्पन्नस् त्वम् अयं भूमेर् लोकẖ किम् उत मानसः ॥

6.246.2

इदं च मानसं चाहं सम्पन्नḫ पृथुभूतलम् ।
नेदं न मानसं चैव सम्पन्नो वस्तुतस् त्व् अहम् ॥

6.246.3

अमानसं महीपीठं न सम्भवति किञ्चन ।
यद् असद् वेत्सि यत् सद् वा मनोमात्रकम् एव तत् ॥

6.246.4

चिदाकाशम् अहं शुद्धं तस्य मे ऽनन्यद् आत्मनः ।
यच् चिन्मात्रात्मकचनं तत् सङ्कल्पाभिधं स्मृतम् ॥

6.246.5

तन् मनस् तन् महीपीठं तज् जगत् स पितामहः ।
सङ्कल्पपुरवद् व्योम्नि कचत्य् एतन् मनोनभः ॥

6.246.6

एवं सङ्कल्पमात्रं मे मनोमात्रं तद् आततम् ।
धारणाभ्याससम्पुष्टं भूमण्डलम् इति स्थितम् ॥

6.246.7

नेदं भूमण्डलं तद् वै तदन्यद् धि मनोमयम् ।
आकाशमात्रकचनम् अचेत्यं कचनं चितेः ॥

6.246.8

तद् एवाकाशमात्रात्म तथाभूतं चिरस्थितेः ।
इदम्प्रत्ययलब्धत्वान् मानसत्वं समुज्झति ॥

6.246.9

इदं स्थिरं सुकठिनं विततं भूमिमण्डलम् ।
अस्तीति जायते बुद्धिर् व्योम्न्य् एव चिरवेदनात् ॥

6.246.10

न्यायेनेदम् इवानेन तत् स्थितं वसुधातलम् ।
इदं न चैवम् एवाद्य सर्गस्यादाव् उपागतम् ॥

6.246.11

यथा स्वप्ने पुरत्वेन चिद् एव व्योम्नि भासते ।
तथा चिद् एव सर्गादाव् इदं जगद् इति स्थिता ॥

6.246.12

विद्धि चिद्रूपबालस्य मनोराज्यं जगत्त्रयम् ।
महीतलादिकं दृश्यम् इदं सर्गं च सर्वदा ॥

6.246.13

चिद्रूपस्यात्मनो नान्यस् सङ्कल्पस् तन्मयं जगत् ।
वस्तुतस् तु न पिण्डात्म न सत्यात्म न भासुरम् ॥

6.246.14

दृश्यम् अस्त्य् अपरिज्ञातं परिज्ञातं न विद्यते ।
परिज्ञानं तद् एवास्य शृणोषि यद् इदं चिरम् ॥

6.246.15

सर्वं चिन्मात्रम् आकाशं प्रकचत्य् आत्मनात्मनि ।
भूमण्डलात्म दृश्यात्म द्वैतैक्याभ्यां विवर्जितम् ॥

6.246.16

मणिर् यथा स्वभावेन शुक्लपीतादिकास् त्विषः ।
अकुर्वन्न् एव कुरुते चिदाकाशस् तथा जगत् ॥

6.246.17

यतो न किञ्चित् कुरुते न च रूपं समुज्झति ।
तस्मान् न मानसं नेदं किञ्चिद् अस्ति महीतलम् ॥

6.246.18

महीतलम् इवाभाति चिद्व्योमैव निरन्तरम् ।
आत्मन्य् एवातलं व्योम यथामलतलं स्थितम् ॥

6.246.19

स्वभावमात्रकचनं तत् तदा मे तथा स्थितम् ।
भूमण्डलम् इवात्यच्छं खम् एव विततान्तरम् ॥

6.246.20

इदं भूमण्डलं तच् च द्वयम् एतन् महाचितेः ।
स्वरूपम् एव कचति तव स्वप्नपुरं यथा ॥

6.246.21

चिरकालप्रत्ययतस् स्थिरम् इत्य् अवगम्यते ।
परिज्ञातं यथाभूतं चिद्व्योमैव निरन्तरम् ॥

6.246.22

इदम् आकाशमात्रात्म तद् अप्य् आकाशमात्रकम् ।
अज्ञानान् न परिज्ञानाज् ज्ञानान् नेदं न तत् क्वचित् ॥

6.246.23

त्रैलोक्यभूतजालानां कालत्रितयभाविनाम् ।
सम्भ्रमस्वप्नसङ्कल्पमनोराज्यदशास्थितौ ॥

6.246.24

भूतानि च भविष्यन्ति वर्तमानानि यानि च ।
भूमण्डलानि तान्य् अङ्ग सत्तासामान्यताङ्गतः ॥

6.246.25

अहम् एव समग्राणि तेषाम् अन्तर्गतान्य् अपि ।
तेन तान्य् अनुभूतानि तथा दृष्टानि चाखिलम् ॥

6.246.26

चिन्मात्रम् एतद् अजरं पदम् आत्मतत्त्वं शुद्धात्मताम् अजहद् अङ्गगतं बिभर्ति ।
सर्वं यथास्थितम् इदं जगतां तु भेदं बुद्धं सद् अङ्ग न बिभर्ति तु किञ्चनापि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc